०३ आचारव्यवस्थापनप्रकरणम्

दण्डं दण्डीव भूतेषु धारयन् धरणीपतिः ।
प्रजाः समनुगृह्णीयात् प्रजापतिर् इव स्वयम् ॥१॥

वाक् सूनृता दया दानं दीनोपगतरक्षणम् ।
इति सङ्गः सतां साधु हितं सत्पुरुषव्रतम् ॥२॥

आविष्ट इव दुःखेन तद्गतेन गरीयसा ।
समन्वितः करुणया परया दीनम् उद्धरेत् ॥३॥

न तेभ्यो ऽभ्यधिकाः सन्ति सन्तः सत्पुरुषव्रताः ।
दुःखपङ्कार्णवे मग्नं दीनम् अभ्युद्धरन्ति ये ॥४॥

दयाम् आस्थाय परमां धर्माद् अविचलन् नृपः ।
पीडितानाम् अनाथानां कुर्याद् अश्रुप्रमार्जनम् ॥५॥

आनृशंस्यं परो धर्मः सर्वप्राणभृतां मतः ।
तस्माद् राजानृशंस्येन पालयेत् कृपणं जनम् ॥६॥

न हि स्वसुखम् अन्विच्छन् पीडयेत् कृपणं नृपः ।
कृपणः पीड्यमानो हि मन्युना हन्ति पार्थिवम् ॥७॥

को हि नाम कुले जातः सुखलेशोपलोभितः ।
अल्पसाराणि भूतानि पीडयेद् अविचारयन् ॥८॥

आधिव्याधिपरीताय अद्य श्वो वा विनाशिने ।
को हि नाम शरीराय धर्मापेतं समाचरेत् ॥९॥

आहार्यैर् नीयमानं हि क्षणं दुःखेन हृद्यताम् ।
छायामात्रकम् एवेदं पश्येद् उदकबिन्दुवत् ॥१०॥

महावाताहतिभ्रान्तमेघमालातिपेलवैः ।
कथं नाम महात्मानो ह्रियन्ते विषयारिभिः ॥११॥

जलान्तश् चन्द्रचपलं जीवितं खलु देहिनाम् ।
तथाविधम् इति ज्ञात्वा शश्वत्कल्याणम् आचरेत् ॥१२॥

जगन् मृगतृषातुल्यं वीक्ष्येदं क्षणभङ्गुरम् ।
सुजनैः सङ्गतिं कुर्याद् धर्माय च सुखाय च ॥१३॥

सेव्यमानस् तु सुजनैर् महान् अतिविराजते ।
सुधालिप्त इव श्रीमान् प्रासादश् चन्द्ररश्मिभिः ॥१४॥

हिमांशुमाली न तथा नोत्फुल्लकमलं सरः ।
आनन्दयति चेतांसि यथा सज्जनचेष्टितम् ॥१५॥

ग्रीष्मसूर्यांशुसन्तप्तम् उद्वेजनम् अनाश्रयम् ।
मरुस्थलम् इवोदग्रं त्यजेद् दुर्जनसंश्रयम् ॥१६॥

श्रुतशीलोपसम्पन्नम् अकस्माद् एव दुर्जनः ।
अन्तः प्रविश्य दहति शुष्कवृक्षम् इवानलः ॥१७॥

निःश्वासोद्गीर्णहुतभुग्धूमधूम्रीकृताननैः ।
वरम् आशीविषैः सङ्गं कुर्यान् न त्व् एव दुर्जनैः ॥१८॥
दीयते स्वच्छहृदयैः पिण्डो येनैव पाणिना ।
मार्जार इव दुर्वृत्तस् तम् एव हि विलुम्पति ॥१९॥

असाध्यं साधुमन्त्राणां तीव्रं वाग्विषम् उत्सृजत् ।
द्विजिह्वं वदनं धत्ते दुष्टो दुर्जनपन्नगः ॥२०॥

क्रियते ऽभ्यर्हणीयाय सुजनाय यथाञ्जलिः ।
ततः साधुतरः कार्यो दुर्जनाय शिवार्थिना ॥२१॥

ह्लादिनीं सर्वसत्त्वानां सम्यग् जनजिहीर्षया ।
भावयेत् परमां मैत्रीं विसृजेल् लौकिकीं गिरम् ॥२२॥

नित्यं मनोपहारिण्या वाचा प्रह्लादयेज् जनम् ।
उद्वेजनीयो भवति क्रूरवागर्थदो ऽपि सन् ॥२३॥

हृदि विद्ध इवात्यर्थं यया सन्तप्यते जनः ।
पीडितो ऽपि हि मेधावी न तां वाचम् उदीरयेत् ॥२४॥

तीव्राण्य् उद्वेगकारीणि विसृष्टान्य् अशमात्मकैः ।
कृन्तन्ति देहिनां मर्म शस्त्राणीव वचांसि च ॥२५॥

प्रियम् एवाभिधातव्यं सत्सु नित्यं द्विषत्सु च ।
शिखीव केकामधुरः प्रियवाक् कस्य न प्रियः ॥२६॥

अलङ्क्रियन्ते शिखिनः केकया मदरक्तया ।
वाचा विपश्चितो ऽत्यर्थं माधुर्यगुणयुक्तया ॥२७॥

मदरक्तस्य हंसस्य कोकिलस्य शिखण्डिनः ।
हरन्ति न तथा वाचो यथा साधु विपश्चितः ॥२८॥

गुणानुरागी स्थितिमाञ् छ्रद्दधानो दयान्वितः ।
धनं धर्माय विसृजेत् प्रियां वाचम् उदीरयन् ॥२९॥

ये प्रियाणि च भाषन्ते प्रयच्छन्ति च सत्कृतिम् ।
श्रीमन्तो वन्द्यचरणा देवास् ते नरविग्रहाः ॥३०॥

शुचिर् आस्तिक्यपूतात्मा पूजयेद् देवताः सदा ।
देवतावद् गुरुजनम् आत्मवच् च सुहृज्जनम् ॥३१॥

प्रणिपातेन हि गुरून् सतो ऽनूचानचेष्टितैः ।
कुर्वीताभिमुखान् भूत्यै देवान् सुकृतकर्मणा ॥३२॥

सद्भावेन हरेन् मित्रं सम्भ्रमेण च बान्धवान् ।
स्त्रीभृत्यान् प्रेमदानाभ्यां दाक्षिण्येनेतराञ् जनान् ॥३३॥

अनिन्दा परकृत्येषु स्वधर्मपरिपालनम् ।
कृपणेषु दयालुत्वं सर्वत्र मधुरा गिरः ॥३४॥

प्राणैर् अव्युपकारित्वं मित्रायाव्यभिचारिणे ।
गृहागते परिष्वङ्गः शक्त्या दानं सहिष्णुता ॥३५॥

स्वसमृद्धिष्व् अनुत्सेकः परवृद्धिष्व् अमत्सरः ।
नान्योपतापि वचनं मौनव्रतचरिष्णुता ॥३६॥

बन्धुभिर् बद्धसंयोगः सुजने चतुरश्रता ।
तच्चित्तानुविधायित्वम् इति वृत्तं महात्मनाम् ॥३७॥

सनातने वर्त्मनि साधु तिष्ठताम्
अयं हि पन्था गृहमेधिनां मतः ।
अनेन गच्छन् नियतं महात्मनाम्
इमं च लोकं परमं च विन्दति ॥३८॥
इति पथि विनिवेशितात्मनो
रिपुरपि गच्छति साधु मित्रताम् ।
तदवनिपतिमत्सराद् ऋते
विनयगुणेन जगद्वशं नयेत् ॥३९॥

क्व च नरपतिगर्वः सङ्ग्रहः क्व प्रजानां
मधुरवचनयोगाल् लोकम् अभ्याददीत ।
मधुरवचनपाशैर् आयतालानितः सन्
पदम् अपि हि न लोकः संस्थितेर् भेदम् एति ॥४०॥