०३ दण्डमाहात्म्यप्रकरणम्

इति यस्माद् उभौ लोकौ धारयत्य् आत्मवान् नृपः ।
प्रजानां च ततः सम्यग् दण्डं दण्डीव धारयेत् ॥३६॥

उद्वेजयति तीक्ष्णेन मृदुना परिभूयते ।
दण्डेन नृपतिस् तस्माद् युक्तदण्डः प्रशस्यते ॥३७॥

त्रिवर्गं वर्धयत्य् आशु राज्ञो दण्डो यथाविधि ।
प्रणीतो ऽथासमञ्जस्याद् वनस्थान् अपि कोपयेत् ॥३८॥

लोकशास्त्रानुगो नेयो दण्डो ऽनुद्वेजनः श्रिये ।
उद्वेजनाद् अधर्मः स्यात् तस्माद् ध्वंसो महीपतेः ॥३९॥

परस्परामिषतया जगतो भिन्नवर्त्मनः ।
दण्डाभावे परिध्वंसी मात्स्यो न्यायः प्रवर्तते ॥४०॥

जगद् एतन् निराक्रन्दं कामलोभादिभिर् बलात् ।
निमज्ज्यमानं निरये राज्ञा दण्डेन धार्यते ॥४१॥

इदं प्रकृत्या विषयैर् वशीकृतं
परस्परस्त्रीधनलोलुपं जगत् ।
सनातने वर्त्मनि साधुसेविते
प्रतिष्ठते दण्डभयोपपीडितम् ॥

नियतविषयवर्ती प्रायशो दण्डयोगाज्
जगति परवशेऽस्मिन् दुर्लभः साधुवृत्तः ।
कृशम् अथ विकलं वा व्याधितं वाधनं वा
पतिम् अपि कुलनारी दण्डभीत्याभ्युपैति ॥४३॥

इति परिगणितार्थः शास्त्रमार्गानुसारी
नियमयति यतात्मा यः प्रजा दण्डनीत्या ।
अपुनरपगमाय प्राप्तमार्गप्रचाराः
सरित इव समुद्रं सम्पदस्तं विशन्ति ॥४४॥