०२ वर्णाश्रमव्यवस्थाप्रकरणम्

इज्याध्ययनदानानि यथाशास्त्रं सनातनः ।
ब्राह्मणक्षत्रियविशां सामान्यो धर्म उच्यते ॥१८॥

याजनाध्यापने शुद्धे विशुद्धाच् च प्रतिग्रहः ।
वृत्तित्रयम् इदं प्रोक्तं मुनिभिर् ज्येष्ठवर्णिनः ॥१९॥

शस्त्रेणाजीवनं राज्ञो भूतानां चाभिरक्षणम् ।
पाशुपाल्यं कृषिः पण्यं वैश्यस्याजीवनं स्मृतम् ॥२०॥

शूद्रस्य धर्मः शुश्रूषा द्विजानाम् अनुपूर्वशः ।
शुद्धा च वृत्तिस् तत्सेवा कारुचारणकर्म च ॥२१॥

गुरौ वासो ऽग्निशुश्रूषा स्वाध्यायो व्रतचारणम् ।
त्रिकालस्नायिता भैक्षं गुरौ प्राणान्तिकी स्थितिः ॥२२॥

तदभावे गुरुसुते तथा सब्रह्मचारिणि ।
कामतो वाश्रमान्यत्वं स्वधर्मो ब्रह्मचारिणः ॥२३॥

समेखलो जटी मुण्डो दण्डी वा गुरुसंश्रयः ।
आ विद्याग्रहणाद् गच्छेत् कामतो वाश्रमान्तरम् ॥२४॥

अग्निहोत्रोपचरणं जीवनं च स्वकर्मभिः ।
धर्मदारेषु कल्येषु पर्ववर्जं रतिक्रिया ॥२५॥

देवपित्रतिथिभ्यश् च पूजा दीनानुकम्पनम् ।
श्रुतिस्मृत्यर्थसंस्थानं धर्मो ऽयं गृहमेधिनः ॥२६॥

जटित्वम् अग्निहोत्रित्वं भूशय्याजिनधारणम् ।
वनेवासः पयोमूलनीवारफलवृत्तिता ॥२७॥

प्रतिग्रहनिवृत्तिश् च त्रिःस्नानं व्रतचारिता ।
देवातिथीनां पूजा च धर्मो ऽयं वनवासिनः ॥२८॥

सर्वारम्भपरित्यागो भैक्षाश्यं वृक्षमूलिता ।
निष्परिग्रहताद्रोहः समता सर्वजन्तुषु ॥२९॥

प्रियाप्रियापरिष्वङ्गः सुखदुःखाविकारिता ।
सबाह्याभ्यन्तरं शौचं वाग्यमो व्रतचारिता ॥३०॥

सर्वेन्द्रियसमाहारो धारणा ध्यानयुक्तता ।
भावसंशुद्धिर् इत्य् एष परिव्राड्धर्म उच्यते ॥३१॥

अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा ।
वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ॥३२॥

स्वर्गानन्त्याय धर्मो ऽयं सर्वेषां वर्णिलिङ्गिनाम् ।
तस्याभावे तु लोको ऽयं सङ्करान् नाशम् आप्नुयात् ॥३३॥

सर्वस्यास्य यथान्यायं भूपतिः सम्प्रवर्तकः ।
तस्याभावे धर्मनाशस् तदभावे जगच्च्युतिः ॥३४॥

वर्णाश्रमाचारयुतो वर्णाश्रमविभागवित् ।
पाता वर्णाश्रमाणां च पार्थिवः सर्वलोकभाक् ॥३५॥