आन्वीक्षिकीं त्रयीं वार्तां दण्डनीतिं च पार्थिवः ।
तद्विद्यैस् तत्क्रियोपेतैश् चिन्तयेद् विनयान्वितः ॥१॥
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश् च शाश्वती ।
विद्याश् चतस्र एवैता योगक्षेमाय देहिनाम् ॥२॥
त्रयी वार्ता दण्डनीतिस् तिस्रो विद्या हि मानवाः ।
त्रय्या एव विभागो ऽयं येयम् आन्वीक्षिकी मता ॥३॥
वार्ता च दण्डनीतिश् च द्वे विद्ये इत्य् अवस्थिते ।
लोकस्यार्थप्रधानत्वाच् छिष्याः सुरपुरोधसः ॥४॥
एकैव दण्डनीतिस् तु विद्येत्य् औशनसी स्थितिः ।
तस्यां हि सर्वविद्यानाम् आरम्भाः सम्प्रतिष्ठिताः ॥५॥
विद्याश् चतस्र एवैता इति नो गुरुदर्शनम् ।
पृथक् पृथक् प्रसिद्ध्यर्थं यासु लोको व्यवस्थितः ॥६॥
आन्वीक्षिक्य् आत्मविज्ञानं धर्माधर्मौ त्रयीस्थितौ ।
अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयेतरौ ॥७॥
आन्वीक्षिकीत्रयीवार्ताः सतीर् विद्याः प्रचक्षते ।
सत्यो ऽपि हि न सत्यस् ता दण्डनीतेस् तु विप्लवे ॥८॥
दण्डनीतिर् यदा सम्यङ् नेतारम् अधितिष्ठति ।
तदा विद्याविदः शेषा विद्याः सम्यग् उपासते ॥९॥
वर्णाश् चैवाश्रमाश् चैव विद्यास्व् आसु प्रतिष्ठिताः ।
रक्षेत् ता रक्षणात् तासां तद्धर्मस्यांशभाङ् नृपः ॥१०॥
आन्वीक्षिक्य् आत्मविद्या स्याद् ईक्षणात् सुखदुःखयोः ।
ईक्षमाणस् तया तत्त्वं हर्षशोकौ व्युदस्यति ॥११॥
ऋग्यजुःसामनामानस् त्रयो वेदास् त्रयी स्मृता ।
उभौ लोकाव् अवाप्नोति त्रय्यां तिष्ठन् यथाविधि ॥१२॥
अङ्गानि वेदाश् चत्वारो मीमांसा न्यायविस्तरः ।
धर्मशास्त्रं पुराणं च त्रयीदं सर्वम् उच्यते॥१३॥
पाशुपाल्यं कृषिः पण्यं वार्ता वार्तानुजीविनाम् ।
सम्पन्नो वार्तया साधु नावृत्तेर् भयम् ऋच्छति ॥१४॥
दमो दण्ड इति प्रोक्तस् तात्स्थ्याद् दण्डो महीपतिः ।
तस्य नीतिर् दण्डनीतिर् नयनान् नीतिर् उच्यते ॥१५॥
तयात्मानं च शेषाश् च विद्याः पायान् महीपतिः ।
विद्या लोकोपकारिण्यस् तत्पाता हि महीपतिः ॥१६॥
विद्याभिर् आभिर् निपुणं चतुर्वर्गम् उदारधीः ।
विद्यात् तदासां विद्यात्वं विद ज्ञाने निरुच्यते ॥१७॥