०२ विद्यावृद्धसंयोगप्रकरणम्

वर्धयन्न् इह धर्मार्थौ सेवितौ सद्भिर् आदरात् ।
निगृहीतेन्द्रियः साधु कुर्वीत गुरुसेवनम् ॥६१॥

शास्त्राय गुरुसंयोगः शास्त्रं विनयवृद्धये ।
विद्याविनीतो नृपतिर् न कृछ्रेष्व् अवसीदति ॥६२॥

वृद्धोपसेवी नृपतिः सतां भवति सम्मतः ।
प्रेर्यमाणो ऽप्य् असद्वृत्तैर् नाकार्येषु प्रवर्तते ॥६३॥

आददानः प्रतिदिनं कलाः सम्यङ् महीपतिः ।
शुक्लपक्षे प्रविचरञ् छशाङ्क इव वर्धते ॥६४॥

जितेन्द्रियस्य नृपतेर् नीतिमार्गानुसारिणः ।
भवन्ति ज्वलिता लक्ष्म्यः कीर्तयश् च नभःस्पृशः ॥६५॥

इति स्म राजा विनयं नयान्वितो
निषेवमाणो नरदेवसेवितम् ।
पदं समाक्रामति भास्वरं श्रियः
शिरो महारत्नगिरेर् इवोन्नतम् ॥६६॥

इयं हि लोकव्यतिरेकवर्तिनी
स्वभावतः पार्थिवता समुद्धता ।
बलात् तद् एनां विनयेन योजयेन्
नयस्य वृद्धौ विनयः पुरःसरः ॥६७॥

परां विनीतः समुपैति सेव्यतां
महीपतीनां विनयो विभूषणम् ।
प्रवृत्तदानो मृदुसञ्चरत्करः
करीव भद्रो विनयेन शोभते ॥६८॥

गुरुस् तु विद्याधिगमाय सेव्यते
श्रुता च विद्या मतये महात्मनाम् ।
श्रुतानुवर्तीनि मतानि वेधसा-
मसंशयं साधु भवन्ति भूतये॥६९॥
सुनिपुणम् उपसेव्य सद्गुरुं
शुचिरनुवृत्तिपरो विभूतये ।
भवति हि विनयोपबृंहितो
नृपतिपदाय शमाय च क्षमः ॥७०॥

अविनयरतम् आदराद् ऋते
वशम् अवशं हि नयन्ति विद्विषः ।
श्रुतविनयनिधिं समाश्रितस्
तनुर् अपि नैति पराभवं क्वचित् ॥७१॥