०१ इन्द्रियजयप्रकरणम्

यस्य प्रभावाद् भुवनं शाश्वते पथि तिष्ठति ।
देवः स जयति श्रीमान् दण्डधारो महीपतिः ॥१॥

वंशे विशालवंश्यानाम् ऋषीणाम् इव भूयसाम् ।
अप्रतिग्राहकाणां यो बभूव भुवि विश्रुतः ॥२॥
जातवेदा इवार्चिष्मान् वेदान् वेदविदां वरः ।
यो ऽधीतवान् सुचतुरश् चतुरोऽप्य् एकवेदवत् ॥३॥

यस्याभिचारवज्रेण वज्रज्वलनतेजसः ।
पपातामूलतः श्रीमान् सुपर्वा नन्दपर्वतः ॥४॥

एकाकी मन्त्रशक्त्या यः शक्त्या शक्तिधरोपमः।
आजहार नृचन्द्राय चन्द्रगुप्ताय मेदिनीम् ॥५॥

नीतिशास्त्रामृतं श्रीमान् अर्थशास्त्रमहोदधेः ।
य उद्दध्रे नमस् तस्मै विष्णुगुप्ताय वेधसे ॥६॥

दर्शनात् तस्य सुदृशो विद्यानां पारदृश्वनः ।
राजविद्याप्रियतया सङ्क्षिप्तग्रन्थम् अर्थवत् ॥७॥

उपार्जने पालने च भूमेर् भूमीश्वरं प्रति ।
यत् किञ्चिद् उपदेक्ष्यामो राजविद्याविदां मतम् ॥८॥

राजास्य जगतो हेतुर् वृद्धेर् वृद्धाभिसम्मतः ।
नयनानन्दजननः शशाङ्क इव तोयधेः ॥९॥

यदि न स्यान् नरपतिः सम्यङ् नेता ततः प्रजा ।
अकर्णधारा जलधौ विप्लवेतेह नौर् इव ॥१०॥

धार्मिकं पालनपरं सम्यक्परपुरञ्जयम् ।
राजानम् अभिमन्यन्ते प्रजापतिम् इव प्रजाः ॥११॥

आयत्तं रक्षणं राज्ञि वार्ता रक्षणम् आश्रिता ।
वार्ताच्छेदे हि लोको ऽयं श्वसन्न् अपि न जीवति ॥१२॥

पर्जन्य इव भूतानाम् आधारः पृथिवीपतिः ।
विकले ऽपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥१३॥

प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम् ।
वर्धनाद् रक्षणं श्रेयस् तन्नाशे ऽन्यत् सद् अप्य् असत्॥१४।
न्यायप्रवृत्तो नृपतिर् आत्मानम् अथ च प्रजाम् ।
त्रिवर्गेणोपसन्धत्ते निहन्ति ध्रुवम् अन्यथा ॥१५॥

धर्माद् वैजवनो राजा चिराय बुभुजे महीम् ।
अधर्माच् चैव नहुषः प्रतिपेदे रसातलम् ॥१६॥

तस्माद् धर्मं पुरस्कृत्य यतेतार्थाय भूपतिः ।
धर्मेण वर्धते राज्यं तस्य स्वादु फलं श्रियः ॥१७॥

स्वाम्य् अमात्यश् च राष्ट्रं च दुर्गं कोशो बलं सुहृत् ।
एतावद् उच्यते राज्यं सत्त्वबुद्धिव्यपाश्रयम् ॥१८॥

आलम्ब्य बलवत्सत्त्वं बुद्ध्यालोचितनिर्गमः ।
सप्ताङ्गस्यास्य लाभाय यतेत सततोत्थितः ॥१९॥

न्यायेनार्जनम् अर्थस्य रक्षणं वर्धनं तथा ।
सत्पात्रप्रतिपत्तिश् च राजवृत्तं चतुर्विधम् ॥२०॥

नयविक्रमसम्पन्नः सूत्थानश् चिन्तयेच् छ्रियम् ।
नयस्य विनयो मूलं विनयः शास्त्रनिश्चयः ॥२१॥

विनयो हीन्द्रियजयस् तद्युक्तः शास्त्रम् ऋच्छति ।
तन्निष्ठस्य हि शास्त्रार्थाः प्रसीदन्ति ततः श्रियः ॥२२॥

शास्त्रं प्रज्ञा धृतिर् दाक्ष्यं प्रागल्भ्यं धारयिष्णुता ।
उत्साहो वाग्मिता दार्ढ्यम् आपत्क्लेशसहिष्णुता ॥२३॥

प्रभावः शुचिता मैत्री त्यागः सत्यं कृतज्ञता ।
कुलं शीलं दमश् चेति गुणाः सम्पत्तिहेतवः ॥२४॥

आत्मानं प्रथमं राजा विनयेनोपपादयेत् ।
ततो ऽमात्यांस् ततो भृत्यांस् ततः पुत्रांस् ततः प्रजाः ॥२५॥

सदानुरक्तप्रकृतिः प्रजापालनतत्परः ।
विनीतात्मा हि नृपतिर् भूयसीं श्रियम् अश्नुते ॥२६॥

प्रकीर्णे विषयारण्ये धावन्तं विप्रमाथिनम् ।
ज्ञानाङ्कुशेन कुर्वीत वश्यम् इन्द्रियदन्तिनम् ॥२७॥

आत्मा प्रयत्नाद् अर्थेभ्यो मनः समधितिष्ठति ।
संयोगाद् आत्ममनसोः प्रवृत्तिर् उपजायते ॥२८॥

विषयामिषलोभेन मनः प्रेरयतीन्द्रियम् ।
तन् निरुन्ध्यात् प्रयत्नेन जिते तस्मिञ् जितेन्द्रियः ॥२९॥

विज्ञानं हृदयं चित्तं मनो बुद्धिश् च तत्समम् ।
अनेनात्मा करोतीह प्रवर्तननिवर्तने ॥३०॥

धर्माधर्मौ सुखं दुःखम् इच्छाद्वेषौ तथैव च ।
प्रयत्नज्ञानसंस्कारा आत्मलिङ्गम् उदाहृतम् ॥३१॥

ज्ञानस्यायुगपद्भावो मनसो लिङ्गम् उच्यते ।
नानार्थेषु च सङ्कल्पः कर्म चास्य प्रकीर्त्यते ॥३२॥

श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चेति पञ्चमी ।
पायूपस्थं हस्तपादं वाक् चेतीन्द्रियसङ्ग्रहः ॥३३॥

शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः ।
उत्सर्गानन्दनादानगत्यालापाश् च तत्क्रियाः ॥३४॥

आत्मा मनश् च तद्विद्यैर् अन्तःकरणम् उच्यते ।
ताभ्यां तु सप्रयत्नाभ्यां सङ्कल्प उपजायते ॥३५॥

आत्मा बुद्धीन्द्रियाण्य् अर्था बहिष्करणम् उच्यते ।
सङ्कल्पाध्यवसायाभ्यां सिद्धिर् अस्य प्रकीर्तिता ॥३६॥

उभे एते हि करणे प्रयत्नानन्तरीयके ।
तस्मात् प्रयत्नसंरोधाद् भावयेन् निर्मनस्कताम् ॥३७॥

एवं करणसामर्थ्यात् संयम्यात्मानम् आत्मना ।
नयापनयविद् राजा कुर्वीत हितम् आत्मनः ॥३८॥

एकस्यापि न यः शक्तो मनसः सन्निबर्हणे ।
महीं सागरपर्यन्तां कथं नु स विजेष्यते ॥३९॥

क्रियावसानविरसैर् विषयैर् अपहारिभिः ।
गच्छत्य् आक्षिप्तहृदयः करीव नृपतिर् ग्रहम् ॥४०॥

सज्जमानो ह्य् अकार्येषु विषयान्धीकृतेक्षणः ।
आवहत्य् उग्रभयदां स्वयम् एवापदं नृपः ॥४१॥

शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः ।
एकैकम् एषां भवति विनाशप्रतिपत्तये ॥४२॥

शुचिः शष्पाङ्कुराहारो विदूरक्रमणक्षमः ।
लुब्धकाद् गीतलोभेन मृगो मृगयते वधम् ॥४३॥

गिरीन्द्रसदृशाकारो लीलयोन्मूलितद्रुमः ।
करिणीस्पर्शसम्मोहाद् आलानं याति वारणः ॥४४॥

स्निग्धदीपशिखालोकविलोभितविलोचनः ।
मृत्युम् ऋच्छत्य् असन्देहात् पतङ्गः सहसा पतन् ॥४५॥

दूरे ऽपि हि भवन् दृष्टेर् अगाधे सलिले चरन् ।
मीनस् तु सामिषं लोहम् आस्वादयति मृत्यवे ॥४६॥

गन्धलुब्धो मधुकरो दानासवपिपासया ।
अभ्येत्य् असुखसञ्चारान् गजकर्णझनञ्झनान् ॥४७॥

एकैकशो ऽपि निघ्नन्ति विषया विषसन्निभाः ।
क्षेमी तु स कथं नु स्याद् यः समं पञ्च सेवते ॥४८॥

सेवेत विषयान् काले मुक्त्वा तत्परतां वशी ।
सुखं हि फलम् अर्थस्य तन्निरोधे वृथा श्रियः ॥४९॥

निकामासक्तमनसां कान्तामुखविलोकने ।
गलन्ति गलिताश्रूणां यौवनेन सह श्रियः ॥५०॥

धर्माद् अर्थो ऽर्थतः कामः कामात् सुखफलोदयः ।
आत्मानं हन्ति तौ हत्वा युक्त्या यो न निषेवते ॥५१॥

नामापि स्त्रीति संह्लादि विकरोत्य् एव मानसम् ।
किं पुनर् दर्शनात् तस्या विलासोल्लासितभ्रुवः ॥५२॥

रहःप्रचारकुशला मृदुगद्गदभाषिणी ।
कं न नारी रमयति रक्तं रक्तान्तलोचना ॥५३॥

मुनेर् अपि मनो ऽवश्यं सरागं कुरुते ऽङ्गना ।
प्रसन्नं कान्तिजननं सन्ध्येव शशिमण्डलम् ॥५४॥

मनः प्रह्लादयन्तीभिर् मन्दं यान्तीभिर् अप्य् अलम् ।
महान्तो ऽपि हि भिद्यन्ते स्त्रीभिर् अद्भिर् इवाचलाः ॥५५॥

मृगयाक्षास् तथा पानं गर्हितानि महीभुजाम् ।
दृष्टास् तेभ्यो ऽपि विपदः पाण्डुनैषधवृष्णिषु ॥५६॥

कामः क्रोधस् तथा लोभो हर्षो मानो मदस् तथा ।
षड्वर्गम् उत्सृजेद् एनं तस्मिंस् त्यक्ते सुखी नृपः ॥५७॥

दाण्डक्यो नृपतिः कामात् क्रोधाच् च जनमेजयः ।
लोभाद् ऐलस् तु राजर्षिर् वातापिर् हर्षतो ऽसुरः ॥५८॥

पौलस्त्यो राक्षसो मानान् मदाद् दम्भोद्भवो नृपः ।
प्रयाता निधनं ह्य् एते शत्रुषड्वर्गम् आश्रिताः ॥५९॥

शत्रुषड्वर्गम् उत्सृज्य जामदग्न्यो जितेन्द्रियः ।
अम्बरीषश् च महाभागो बुभुजाते चिरं महीम् ॥६०॥