साम्राज्यनिबन्धनम्

Source: TW

सम्पदानन्द-मिश्र-प्रस्तावः

साम्राज्यनिबन्धनम् sāmrājyanibandhanam is a unique text written by Vasishtha Kavyakantha Ganapati Muni (1878–1936) through which he has proposed a constitution for India (भारतायेदं प्रक्रियते bhāratāyedaṁ prakriyate) . It was one of the Muni’s goals to to see Mother India free from the hands of the Britishers for which he practiced intense Tapas. His goal was not just confined to India’s freedom but he was much concerned about the governance of free India. Keeping this in mind he prepared a constitution for India. This is available to us under the title ‘sāmrājyanibandhanam’. There are five hundred and sixty sutras in twenty chapters. Each chapter has several sub-sections called adhikaraṇa. Altogether there are hundred and twenty-two subsections or adhikaraṇa-s. In the beginning the Muni makes it clear that this text is pertaining to nation head, rules and regulations for the governance by the nation head, the injunctions for the subjects of a nation, their rights, and instructions on the collective responsibility (प्रभुत्वबन्धकं तत्कृत्याधिकारनियामकं प्रजाधिकारमर्यादाविधायकं साङ्घिकधर्ममर्यादोपदेशकं च शास्त्रं साम्राज्यनिबन्धनम् prabhutvabandhakaṁ tatkṛtyādhikāraniyāmakaṁ prajādhikāramaryādāvidhāyakaṁ sāṅghikadharmamaryādopadeśakaṁ ca śāstraṁ sāmrājyanibandhanam).

The Muni says that prabhutva or lordship has four legs on which it stands firmly: First is the nariṣṭā or assembly/parliament; second is the mantrimaṇḍalī or the assembly of the ministers; third is the rājakulam or the administrative officers or decision makers; and fourth is the samrāṭ or the one chosen by the people as the chief of the country.

The Muni has explained the intricate details of a constitution best suited as per his understanding for an ideal and able governance of India. One can but appreciate the beautiful political terminologies that the Muni has used in this text. Muni’s views on the governance of India are based on his knowledge of ancient dharmashastras and his own spiritual wisdom.

The text needs to be studied minutely and critically to find out how much of what the Muni has said can be of any help in bringing any change in the present constitution.

The text साम्राज्यनिबन्धनम् sāmrājyanibandhanam was first published in the fifth volume of the Collected Works of Vasishtha Kavyakantha Ganapati Muni published in 12 volumes. There is no translation or study yet available on this text so far.

वासिष्ठकाव्यकण्ठगणपतिमुनिप्रणीतम्
साम्राज्यनिबन्धनम्

०१

०१ अधिकरणम् १

अथातः साम्राज्यनिबन्धनम्॥ १॥
प्रभुत्वबन्धकं तत्कृत्याधिकारनियामकं प्रजाधिकारमर्यादाविधायकं साङ्घिकधर्ममर्यादोपदेशकं च शास्त्रं साम्राज्यनिबन्धनम्॥ २॥
भारतायेदं प्रक्रियते॥ ३॥
समष्ट्याऽवयवशश्च शास्त्रे निबन्धनसंज्ञा॥ ४॥

०२ अधिकरणम् २

नरिष्टा मन्त्रिमण्डली राजकुलं सम्राट् चेति चतुष्पात्परिपालकव्यूहः प्रभुत्वम्॥ ५॥
अर्हप्रजावर्गाणामर्हप्रतिनिधिभिर्बद्धा सभा नरिष्टा॥ ६॥
नरिष्टात उत्पादितः कार्यनिर्वाहकवर्गो मन्त्रिमण्डली॥ ७॥
न्यायनिर्वहणेऽन्त्यं निर्णयं दातुं प्रभवित्री सम्राट्पुरःसरा प्राड्विवाकसभा राजकुलम्॥ ८॥
साम्राज्यस्य वंशपरम्पराधिकारवानीश्वरः सम्राट्॥ ९॥
नरिष्टान्तर्भूताया अपि मन्त्रिमण्डल्याः कार्यविशेषादुत्पत्तिविशेषाच्चा पृथगपि व्यपदेशः॥ १०॥
एवं राजकुलान्तर्गतस्यापि सम्राजः॥ ११॥

०३ अधिकरणम् ३

सम्राजो निरपवाद उत्तराधिकारी किरीटी॥ १२॥
अन्यस्य जन्मना स्वीकारेण वा यस्य तत्कालप्राप्त उत्तराधिकारश्चालयितुमशक्यः स निरपवादः॥ १३॥

०४ अधिकरणम् ४

राष्ट्रकूटं साम्राज्यमुच्यते॥ १४॥
राष्ट्राणि द्वेधा भारते॥ १५॥
महासंस्थानानि प्रान्ताश्चेति॥ १६॥
वंशपरम्पराऽधिकारवत्पालकं राष्ट्रं महासंस्थानम्॥ १७॥
सम्राडधिकृतपालकं प्रान्तः॥ १८॥
पूर्वः पालको मण्डलेश्वरः॥ १९॥
तस्य निरपवाद उत्तराधिकारी पट्टदेवः॥ २०॥
उत्तरः पालकः प्रशासिता॥ २१॥

०५ अधिकरणम् ५

राष्ट्रविभजनकाले पञ्चलक्षानूनप्रजं संस्थानं महत्तदेव राष्ट्री भवितुम् अर्हति॥ २२॥
राष्ट्रीभूतं संस्थानं मण्डलम्॥ २३॥
इतरद्वीरमान्यम्॥ २४॥
वीरमान्यानि प्रान्तेष्वन्तर्भाव्यानि॥ २५॥
वीरमान्यस्य वंशपरम्पराधिकारवान् पतिर्दण्डनायकः॥ २६॥
तस्य निरपवाद उत्तराधिकारी पकुमारः॥ २७॥

०६ अधिकरणम् ६

सम्राट्-किरीटी-मण्डलेश्वर पट्टदेव-दण्डनायक-पट्टकुमारेभ्यो- ऽन्यसाम्राज्यवासी जनः प्रजा॥ २८॥

०७ अधिकरणम् ७

स्थानानि समवायाश्चेत्यर्हप्रजावर्गपरिच्छेदकानि साम्राज्ये॥ २९॥
न राष्ट्रयोर्द्वयोरेकं स्थानम्॥ ३०॥
दशलक्षानधिकप्रजानि स्थानानि कल्पयितव्यानि॥ ३१॥
पञ्चलक्षानूनप्रजानि सङ्ख्ययेति कनिष्ठो नियमः॥ ३२॥
स्नातकैः समवायाः॥ ३३॥
विश्वविद्यालय उत्तमां परीक्षामुत्तीर्णः स्नातकः॥ ३४॥
एकैकस्मिन्मण्डल एकैकः समवायः॥ ३५॥
एकैकस्मिन् प्रान्ते द्वौ द्वौ॥ ३६॥

०८ अधिकरणम् ८

कामरूप-वङ्गोत्कलान्ध्र-द्राविड-कर्णाटक-महाराष्ट्र-घूर्जर-सिन्धु-पाञ्चाल-हिन्दुस्थान-विहार-मध्यभारतानि राजधानी च चतुर्दशप्रान्ताः॥ ३७॥

०९ अधिकरणम् ९

प्रान्तेषु पुनः प्रदेशान्विभजेत्॥ ३८॥
यथा स्थानं प्रायः॥ ३९॥
तत्स्थानान्तर्गतं वीरमान्यं तत्प्रदेशानुबन्धः॥ ४०॥

१० अधिकरणम् १०

अविभाज्यं बहुग्रामं क्षेत्रं महामान्यम्॥ ४१॥
महामान्यस्य भोक्ता देशमुख्यः॥ ४२॥
सम्राजो वंशसमष्टिस्वं महामान्यं वंशमान्यम्॥ ४३॥
वंशमान्ये भागी महाशालः॥ ४४॥
यजमानो महामण्डलेश्वरः॥ ४५॥
मण्डलेश्वरवन्न प्रजावर्गे॥ ४६॥
सम्राट् किरीटिभिन्न आदिसम्राट् वंश्येषु महाशालेषु वृद्धो यजमानः स्यात्॥ ४७॥

११ अधिकरणम् ११

देशमुख्यः पट्टकुमारो दण्डनायकः पट्टदेवो मण्डलेश्वरो महामण्डलेश्वरः किरीटी सम्राडित्युत्तरोत्तरं गौरववन्तः प्रभवः॥ ४८॥
अष्टैतानि पदानि तत्पत्नीनामपि॥ ४९॥
लक्षणतः पुंयोगाद्वा प्राप्तं नार्याः पदं स्त्रीप्रत्ययान्तं स्यात्॥ ५०॥
पत्न्याः पदं न भर्तुः॥ ५१॥

०२

०१ अधिकरणम् १२

एकैकं स्थानमेकैकं प्रतिनिधिं वृणुयान्नरिष्टायै॥ १॥
समवायश्चैवम्॥ २॥

०२ अधिकरणम् १३

उक्तमर्हत्वं सामवायिकस्य॥ ३॥
प्रभुत्वाय कस्मैचित्पुरपालकसयवा यत् किञ्चित्करदायी स्थानिकः प्रतिनिधिवरणार्हः स्यात्॥ ४॥
यत्र क्वचिद्विश्वविद्यालये प्रवेशपरीक्षामुत्तीर्णश्च॥ ५॥
लिङ्गद्वयेन न द्विहस्तत्त्वम्॥ ६॥
स्थानसमवाययोरुभयत्राधिकारस्तु न निवार्यते॥ ७॥
स्थानेष्वनेकत्र करभृदप्येकत्रैव हस्तवान्॥ ८॥

०३ अधिकरणम् १

तत्तद्वर्गवरणार्हत्वेन तत्तत्प्रतिनिध्यर्हत्वैकदेशो व्याख्यातः॥ ९॥
परिशिष्टमर्हत्वं व्यतिरेकतः॥ १०॥
नाधिकारी वेतनभाक् प्रतिनिधित्वाय तिष्ठेत्॥ ११॥
अपराधाय न्यायस्थानेन दण्डितो दण्डनभोगकालमध्ये॥ १२॥
त्र्यनूनैर्वरणार्हैरस्थापितश्च॥ १३॥
साम्राज्यसाधारणभाषायां भाषितुमशक्तश्च॥ १४॥
अन्वयतो वै तदर्हत्वम्॥ १५॥
साम्राज्यसाधारणभाषायां भाषितुं शक्त एव तिष्ठेदिति॥ १६॥

०४ अधिकरणम् १५

प्रकटयन्नेव स्वं पक्षं तिष्ठेत्॥ १७॥
परिच्छेदकविशेषं च॥ १८॥
नैको बहुषु परिच्छेदकेषु॥ १९॥
न वा द्वयोः॥ २०॥

०५ अधिकरणम् १६

अधिकसङ्ख्यैर्वृते तत्तद्वर्गवृतप्रत्ययः॥ २१॥
साम्ये विद्ययाऽधिकः सिध्येत्॥ २२॥
विद्यासाम्ये वयसा॥ २३॥
विश्वविद्यालयबिरुदत एव विद्यातारतम्यदर्शनम्॥ २४॥

०६ अधिकरणम् १७

षष्ठे षष्ठे वर्षे नवा नवा नरिष्टा॥ २५॥
भूयो वृतो नववत्॥ २६॥

०७ अधिकरणम् १८

वरणक्रियाकलापं सर्वं सम्राडेव न्यायनिर्वहणशाखाद्वारा प्रवर्तयेत्॥ २७॥
तत्सम्बद्धविवादांश्च परिष्कारयेत्॥ २८॥
स्वयं वा परिष्कुर्यात्॥ २९॥

०८ अधिकरणम् १९

नरिष्टा स्ववृतस्वकीयाभ्यामध्यक्षोपाध्यक्षवती स्यात्॥ ३०॥
पृथगेव तयोर्वरणं न युगपत्॥ ३१॥
अधिकसङ्ख्यैर्वृते वृतप्रत्ययः॥ ३२॥
साम्ये निर्णयः प्राग्वत्॥ ३३॥
नरिष्टाया अध्यक्षः सदसस्पतिः॥ ३४॥
उपाध्यक्ष उपनेता॥ ३५॥

०९ अधिकरणम् २०

अकाले नारिष्टस्य मरणे पुनरन्यस्य तद्वर्गाद्वरणम्॥ ३६॥
यावत्पूर्वकालं तस्य स्थितिः॥ ३७॥
मरणेन विसर्जनप्रत्याख्याने व्याख्याते॥ ३८॥
यत्स्वयं विसृजति तद्विसर्जनम्॥ ३९॥
यत्तदर्हं सम्राट् सभातः प्रत्याचष्टे तत्प्रत्याख्यानम्॥ ४०॥
प्रत्याख्यानेन तस्यैव शेषकालाय भूयो वरणं विसर्जने त्वप्रतिषेधः॥ ४१॥
विसृज्य पुनरभ्यर्थित्वं कुत इति चेत्॥ ४२॥
अस्ति प्रतिज्ञातादन्यं पक्षमवलम्बमानस्य विसर्जने तदवकाशः॥ ४३॥
यो मध्ये पक्षान्तरमवलम्बेत स सभां विसृजेदिति नियमः॥ ४४॥
अप्रकटनेऽपि पक्षप्रश्नेषु पक्षान्तराय सम्मतिदानं पक्षान्तराव- लम्बनवत्॥ ४५॥

१० अधिकरणम् २१

आदौ सदसस्पतिः सम्राजः पुरो भक्तिप्रमाणं कुर्यात्॥ ४६॥
सम्राजि तद्वंशपरम्पराऽधिकारे निबन्धने च॥ ४७॥
सदसस्पतेः पुर एव तदितरः सर्वो नारिष्टः॥ ४८॥
सदसस्पतेर्वरणे नरिष्टां न्यायशास्त्री विनयेत्॥ ४९॥
प्रमाणपूरणादनन्तरमेवोपनेतुर्वरणम्॥ ५०॥

११ अधिकरणम् २२

यथोक्तं भक्तिप्रमाणमकुर्वन्तं सम्राट् सभातः प्रत्याख्यातुं प्रभवेत्॥ ५१॥
सभ्यत्वकाले न्यायस्थानेन दण्डितं च॥ ५२॥
सदसस्पतिनिर्धारितगरिष्ठा सत्प्रवर्तनं च सभायाम्॥ ५३॥
साधारणसत्प्रवर्तनं सभायां यथाऽपराधमितकालपर्यन्तं सदसस्पतिरेव सभातः प्रत्याख्यातुं प्रभवेत्॥ ५४॥

१२ अधिकरणम् २३

सदसस्पतिः सर्वपक्षसमः स्यादिति नियमः॥ ५५॥
तस्य न प्रतिज्ञातपक्षत्यागदोषः॥ ५६॥
उपनेतुरेतद्यावदासनग्रहणकालम्॥ ५७॥
अन्यस्य चोभयोरसन्निधौ तदासनभाजः॥ ५८॥

१३ अधिकरणम् २४

युद्धमध्ये व्यतीतकालाऽपि नरिष्टा न भज्येत॥ ५९॥
सा यावद् युद्धपर्यवसानं वर्तेत॥ ६०॥

०३

१ अधिकरणम् २५

पक्षौ द्वावेव स्यातां देशक्षेमलक्ष्यस्य द्विधैव दर्शनात्॥ १॥
व्यक्तीनां स्वातन्त्र्यं सौख्यं च पालयितव्यमित्येकम्॥ २॥
तत्पक्षस्थान्प्रजा स्वाम्यवादिन आचक्षते॥ ३॥
देशस्य गौरवं भाग्यं च पालयितव्यमित्यपरम्॥ ४॥
तत्पक्षस्थान्देशीयवादिन आचक्षते॥ ५॥
सम्राजः सत्तोभयेषां लक्ष्यस्य च न प्रतिबन्धिका॥ ६॥
प्रजावृतेश्वरवादिनोऽपि देशक्षेमलक्ष्याः सन्तीति चेत्॥ ७॥
न पक्षेश्वरस्य सर्वेश्वरत्वमयुक्तमिति॥ ८॥
अस्तु वरणादनन्तरं पक्षत्यागः सदसस्पतिवदिति चेत्॥ ९॥
न शक्यः सभानिर्वहणकार्यनिर्वहणयोर्व्यत्यासात्॥ १०॥
उपरि नियन्तुरभावाच्चा॥ ११॥
देशैककुटुम्बवादिनोऽपि देशक्षेमलक्ष्याः सन्तीति चेत्॥ १२॥
न व्यक्तिस्वातन्त्र्यापहरणेन सर्वधर्मसूत्रसभणेन च जीवकलाऽपहारित्वात्॥ १३॥
एकाधिपवादिनोऽपि देशक्षेमलक्ष्याः सन्तीति चेत्॥ १४॥
तत्र पक्षान्तरोपमर्दनदोषो बलीयान्॥ १५॥
तस्माद्द्वावेव पक्षौ हितौ॥ १६॥
यत् किञ्चिद्विशेषदर्शनान्न पक्षान्तरस्थापनमनवस्थानात्॥ १७॥
पक्षबाहुल्ये प्रभुत्वस्य दौर्बल्यापत्तेश्च॥ १८॥
प्रायः सभायामेकपक्षजुषां भूयिष्ठत्वासम्भवात्॥ १९॥
दुर्बले प्रभुत्वे न किञ्चिच्चालेत्॥ २०॥

२ अधिकरणम् २६

अधिकारस्थः पक्षः परपक्षानुपमर्देन स्वपक्षलक्ष्यं साधयेत्॥ २१॥

०४

१ अधिकरणम् २७

शासनिकं कार्यनिर्वहणं न्यायनिर्वहणं साङ्ग्रामिकं चेति चतस्त्रः प्रभुत्वकृत्यशाखाः॥ १॥
बहिरङ्गान्तरङ्गकोशादायवाणिज्यविद्याव्यवसायकार्मिकाख्याः पुनरष्टौ शाखाविशेषाः कार्यनिर्वहणशाखायाः॥ २॥
वैदेशिकव्यवहाराः सर्वे बलस्य पोषणमन्यूनाधिकं तत्प्रमाणरक्षणं तदङ्गपरिकरसम्पादनं स्वच्छन्दसैनिकसम्बन्धिकः सर्वे व्यवहाराश्चेति बहिरङ्गशाखा॥ ३॥
शासनधारणमावश्यकनवन्यायशासनालोचनं सिद्धनरिष्टासम्बन्धिनो व्यवहाराः साकव्यवहाराः केन्द्ररक्षिजनसम्बन्धिनो व्यवहारा अन्यूनाधिकं न्यायनिर्वहणशाखा प्रमाणरक्षणं तत्पोषणं राष्ट्रसाम्राज्य- प्रभुत्वसम्बन्धपरिशीलनं शाखाष्टकोक्तेभ्यः परिशिष्टाः सर्वे गृह्य- व्यवहाराश्चेत्यन्तरङ्गशाखा॥ ४॥
साम्राज्यस्य कोशः कोशशाखा॥ ५॥
सर्वाणि साम्राज्यस्यादायस्थानानि नाणकधनपत्रनिर्माणं चादायशाखा॥ ६॥
अन्तर्बहिश्च वाणिज्यं वाणिज्यशाखा॥ ७॥
उन्नतविद्या विद्याशाखा॥ ८॥
व्यवसायाः सर्वविधाश्च व्यवसायशाखा॥ ९॥
परिश्रमाः कार्मिकशाखा॥ १०॥

२ अधिकरणम् २८

सम्राण्णरिष्टातो बलवत्पक्षनायकं मन्त्रिमण्डलीनिर्माणायाह्वयेत॥ ११॥
अङ्गीकृतभारं तं मन्त्रिणमधिकुर्यात्तदभिमतायां कार्यनिर्वहण-शाखायाम्॥ १२॥
स प्रधानी नामान्तरेण॥ १३॥

३ अधिकरणम् २९

प्रधानी सप्तान्यानङ्गीकृतभारान्नरिष्टात आदाय सम्राजे निवेदयेत्॥ १४॥
तेषां द्रष्टव्यकार्यनिर्वहणशाखाश्च॥ १५॥
सम्राट् तानपि मन्त्रित्वेनाधिकुर्याद्यथा प्रधानिनिवेदनम्॥ १६॥
एवमष्टावेवमन्त्रिणः स्युः॥ १७॥
शाखानामपूर्वो मन्त्री संज्ञायाम्॥ १८॥
प्रधानिनो निजशाखाप्रयुक्ता च संज्ञा॥ १९॥

४ अधिकरणम् ३०

नरिष्टाकालेन प्रायो मन्त्रिमण्डलीकालश्च व्याख्यातः॥ २०॥
नरिष्टा तदन्त्यसमावेशे पूर्णे नव नरिष्टोदयात्प्रागेव भज्येत॥ २१॥
नवमन्त्रिमण्डल्युदयादनन्तरं पूर्वा मन्त्रिमण्डलीति विशेषः॥ २२॥

५ अधिकरणम् ३१

अकाले द्वितीयादेर्मन्त्रिणो मरणादौ पुनरन्यस्य प्राग्वदधिकरणम्॥ २३॥
प्रधानिन पुनरन्यस्या एव मन्त्रिमण्डल्याः॥ २४॥
भूयोऽधिकृतोऽन्यवत्॥ २५॥

०५

१ अधिकरणम् ३२

राजकुले प्राड्विवाका अर्हन्तो न्यायमूर्तयश्चेति द्वेधा स्युः॥ १॥
अवेतनभृतोऽर्हन्तः॥ २॥
वेतनभृतो न्यायमूर्तयः॥ ३॥

२ अधिकरणम् ३३

सम्राट् स्वयमालोच्य न्यायशास्त्रविदः सतो न्यायमूर्तीनधिकुर्यात्॥ ४॥
अन्यतमो मुख्यन्यायमूर्तित्वेनाधिकर्तव्यः॥ ५॥
भूतपुर्वान्न्यायमूर्तीनर्हतः प्रकटयेत्सम्राड्यदि तत्पूर्वसेवायां विश्वासः॥ ६॥
न्यायशास्त्रविदो महाशालान्॥ ७॥
प्रभुबिरुदवतश्च तादृशान्॥ ८॥
इतरांश्च येषां तद्वेत्तृत्वं विशिष्टं मन्यते॥ ९॥

३ अधिकरणम् ३४

चतुर्भिर्न्यायमूर्तिभिर्बद्धमासनं धर्मासनम्॥ १०॥
तद्राजकुलस्य पूर्वार्धम्॥ ११॥
सम्राड्दशमैरर्हद्भिर्न्यायमूर्तिभिश्च बद्धं राजधर्मासनम्॥ १२॥
तद्राजकुलस्योत्तरार्धम्॥ १३॥

४ अधिकरणम् ३५

पूर्वार्धेन परिष्कृते विषये पुनः परिशोधनायोत्तरार्धं गन्तुमभ्यनुज्ञां दातुमदातुं वा शक्तमासनं राजकुले सन्घ्यासनम्॥ १४॥
तत्सम्राजैकेन बद्धं स्यात्॥ १५॥

०६

१ अधिकरणम् ३६

सन्धये सख्याय च साम्प्रतिकपालकराजवंशादेव सम्राजं वृणुयुः॥ १॥
यदि सन्धिं नाङ्गीकुर्युर्य आपद उद्धरेद्बद्धान्मोचयेत्स सम्राट् कर्तव्यः॥ २॥

२ अधिकरणम् ३७

प्रथमः सम्राडादिराज उच्यते॥ ३॥
ततः सम्राट्त्वं तद्वंशपरम्परामनुधावेद्यथा वक्ष्यामः॥ ४॥

३ अधिकरणम् ३८

औरसः पौनर्भवः सहोढः कानीनः पुत्रिका कृत्रिमश्चेति षडर्हाण्यपत्यानि॥ ५॥
अनन्यपूर्वायां परिणययोग्यायां विधिवदूढायां भार्यायामुत्पादितः पुमानौरसो जनयितुः॥ ६॥
अन्यपूर्वायां पौनर्भवः॥ ७॥
अनन्यपूर्वायां परिणयात्प्राग्गर्भ आहितः सहोढो गर्भाधात्रैव सा गर्भिणी यदि परिणीयते॥ ८॥
कानीनः प्रसूता यदि परिणीयते॥ ९॥
अस्यां यो जायते पुत्रः स मे वंशकरो भवेदिति समयेनापुत्रेण पित्रा वराय प्रतिपादिता दुहितापुत्रिका॥ १०॥
पुत्रिकायाः पुत्रो ज्येष्ठो मातामहस्य पौत्रो वंशकरः स्यात्॥ ११॥
स मातामहगोत्रेण गोत्री॥ १२॥
अपुत्राय याचमानाय पितृभ्यामन्यतराभावे शेषव्यक्त्या वा दत्तो होमपूर्वकं स्वीकृतः स्वीकर्तुर्दत्तो नामकृत्रिमः पुत्रः॥ १३॥
न वा होमो भ्रातृपुत्रस्य स्वीकरणे॥ १४॥

४ अधिकरणम् ३९

ज्येष्ठस्य पुत्रस्य न दानम्॥ १५॥
एकस्य दृश्यमानस्य॥ १६॥
उपनीतस्य च॥ १७॥
तुल्यान्तरस्य ज्ञातेर्न ग्रहणम्॥ १८॥
ऊनान्तरस्य च॥ १९॥
दौहित्रभागिनेययोरपीत्येके॥ २०॥
न निषेध इति वासिष्ठः॥ २१॥
दुहितृभगिन्योर्भार्यात्वभावनापत्तिरिति चेत्॥ २२॥
कृत्रिमस्य माता भार्यात्वेन भावनीयेति न क्वापि शास्त्रम्॥ २३॥
न च युक्तिः॥ २४॥
भार्यावद्बन्धुत्वं प्रसज्येतेति चेत्॥ २५॥
भ्रातृपत्न्यां च स दोषः॥ २६॥
सामान्यतः परपत्न्यां च॥ २७॥

५ अधिकरणम् ४०

सगोत्रः स्वीकर्तव्य इति सर्वसाधारणो नियमः॥ २८॥
असगोत्रो वा ज्ञातपरम्परैककूटस्थः॥ २९॥

६ अधिकरणम् ४१

महाशालेन ज्ञातपरम्परादिराजकूटस्थ एव स्वीकार्य इति नियमः॥ ३०॥

७ अधिकरणम् ४२

स्वीकारप्रकरणे तदनुज्ञाता तत्पत्नी तद्वत्॥ ३१॥
तत्सन्निहिततमज्ञात्यनुज्ञाता च॥ ३२॥

८ अधिकरणम् ४३

एकवंश्यानां यावत्परम्पराज्ञानं ज्ञातित्वं॥ ३३॥
आसप्तपूरुषं ज्ञातयः परस्परं सपिण्डाश्च॥ ३४॥
अज्ञातयः केवलं सपिण्डाः॥ ३५॥
अष्टमादयो ज्ञातयः सोदकाः॥ ३६॥

०७

१ अधिकरणम् ४४

सर्वस्य सम्राजोऽनन्तरं तस्य ज्येष्ठः पुत्रः सम्राट् स्यात्॥ १॥
अपुत्रे ज्येष्ठे पुत्रे मृते तदनन्तरः पुत्रो ज्येष्ठः स्यात्॥ २॥
ज्येष्ठीभूते चैवम्॥ ३॥
औरसादयः पूर्वपूर्वमुत्कर्षात्कनीयांसोऽप्युत्तरेभ्यो ज्येष्ठवत्॥ ४॥
सपुत्रे ज्येष्ठे पुत्रे मृते तस्य ज्येष्ठः पुत्र उत्तराधिकारी स्यात्॥ ५॥
परम्परायाः पौत्रप्लुतिसन्दर्भेण तदुत्तरप्लुतिसन्दर्भश्च व्याख्यातः॥ ६॥
पुत्रिकापुत्रवदिहोत्तराधिकारिचर्चायाम्॥ ७॥

२ अधिकरणम् ४५

अपुत्रस्य सम्राजोऽनन्तरं तस्य सन्निहितो महाशालः सम्राट् स्यात्॥ ८॥
पुत्रिकाया अनन्तरं तु पुत्रिकापुत्रस्य तत्पुंसन्ततेर्वाऽप्यभावे पुत्रिकापितुः सन्निहितो महाशालः॥ ९॥
अनन्तरभ्रातृपुत्रादिस्तदनन्तरभ्रात्रादेः सन्निहित इहोत्तराधिकारि- चर्चायाम्॥ १०॥

३ अधिकरणम् ४६

पुत्रिकापुत्रेषु ज्यायानेव मातामहस्य वंशकरः पौत्रः स्यादिति नियमः॥ ११॥
तथापि पूर्वपूर्वस्यापद्युत्तरोत्तरः पौत्रायते॥ १२॥
आपच्चा निष्पुत्रसन्ततेर्मरणं प्रवज्या वा॥ १३॥

४ अधिकरणम् ४७

अपुत्रस्य सम्राजो ज्ञात्यभावे ज्येष्ठा दुहितोत्तराधिकारिणी स्यात्॥ १४॥
दुहित्रभावे तत्सन्निहितादिराजवंश्यनारी॥ १५॥
अनन्तरसन्निहितनारी पुत्रादिस्तदनन्तरनार्यादेः सन्निहित इहित्तरा- धिकारीचर्चायाम्॥ १६॥
सन्निहितत्वं चात्र जन्मतो न ज्ञातित्वात्॥ १७॥
पुत्राणां ज्येष्ठीभावेन दुहितॄणां ज्येष्ठीभावो व्याख्यातः॥ १८॥

५ अधिकरणम् ४८

वंशान्तरकर्त्र्यादि राजवत्॥ १९॥
एतेन तद्वंश्यानां महाशालत्ववंशमान्यभागित्वे व्याख्याते॥ २०॥
उभयसर्षण आतिदेशिकी मुख्योत्तराधिकारिनिर्णये सन्निकर्षात्॥ २१॥

६ अधिकरणम् ४९

द्वितीयवंशसम्भवेन तृतीयादि वंशाधिकारसम्भवाश्च व्याख्याताः॥ २२॥

७ अधिकरणम् ५

आदिराजवंश्यानां स्त्रीणां पुंस्त्रीपरम्परासु कृत्रिमावधिरादि- राजवंशपरम्परा सकृत्रिमश्चेन्नादिराजकूटस्थः॥ २३॥
द्वितीयादिवंशकूटस्थप्रसङ्गेष्वपि प्रथम आदिराज एव मूलपुरुषत्वेन ग्राह्यः॥ २४॥
तत्सन्ततिपरम्परां पुरुषेभ्यो नारीभ्यश्च प्रवर्तमानां राजकुलं रक्षेत्॥ २५॥
सा यदवधिरुक्ता तत्परम्परां न तत्र यो योजयेत्॥ २६॥

०८

१ अधिकरणम् ५१

सम्राजः प्रेतशरीरे स्थित एव राजकुलं किरीटिनं सम्राजं प्रकटयेत्॥ १॥
तदभावे यथोक्तमुत्तराधिकारिणं निर्णीय सद्यः॥ २॥
न्यायशास्त्री महामण्डलेश्वरोऽर्हंश्चान्यो मुख्यन्यायमूर्तिश्चेति तन्निर्णायकं धर्मासनम्॥ ३॥
तस्य बन्धको न्यायशास्त्री॥ ४॥
किरीटिनः सम्राट्त्वप्रकटनाय मुख्यन्यायमूर्तिरेक एवालम्॥ ५॥

२ अधिकरणम् ५२

सम्राज्ञी पुत्ररहितेन पत्याऽनुज्ञाता चेत्पुत्रस्वीकरणाय॥ ६॥
पत्युः प्रेतशरीरे स्थित एव न्यायशास्त्रिमहामण्डलेश्वरयोः सन्निधौ पुत्रं स्वीकुर्यात्॥ ७॥
अनन्तरं ताभ्यां ज्ञातार्थो मुख्यन्यायमूर्तिस्तं सम्राजं प्रकटयेत्॥ ८॥
सम्राजः प्रकटनादनन्तरं शरीरं संस्करणाय निर्हरेयुः॥ ९॥

३ अधिकरणम् ५३

पुत्रस्वीकरणायेव पुत्रिकाकरणायापि सम्राट्पत्नीमनुज्ञातुं प्रभवेत्॥ १०॥
सद्यः पुत्रस्वीकरणेन सद्यः पुत्रिकाकरणं व्याख्यातम्॥ ११॥
आपदि विवाहात्प्रागपि पुत्रिकाकरणमविप्रतिषिद्धम्॥ १२॥

४ अधिकरणम् ५४

पत्न्याः सद्यः पुत्रस्वीकरणसद्यः पुत्रिकाकरणाभ्यां विपदि जीवतः सम्राजः सद्यः पुत्रस्वीकरणपुत्रिकाकरणे व्याख्याते॥ १३॥

५ अधिकरणम् ५५

सन्निहिततमो ज्ञातिः पुत्र स्वीकरणायैवानुज्ञांदातुं प्रभवेन्न पुत्रिका- करणाय॥ १४॥

६ अधिकरणम् ५६

अनुज्ञाताया अपि कालात्यये स्वीकरणं करणं च न सिंहासन- लाभाय॥ १५॥
स्वर्गिणो वंशाय तु भवन्न निवार्यते॥ १६॥

०९

१ अधिकरणम् ५७

अप्रौढे सम्राजि तस्य जननी संरक्षिका स्यात्॥ १॥
तदभावे प्रौढा भगिनी॥ २॥
तदनेकत्वे ज्येष्ठा॥ ३॥
तदभावे महाशालवर्गवृतो महाशालः॥ ४॥

२ अधिकरणम् ५८

संरक्षकः सम्राड्वद् व्यवहारेषु॥ ५॥
न निबन्धनसंस्कारकं शासनं कर्तुम्॥ ६॥

३ अधिकरणम् ५९

सम्राजः प्रतिनिधी राजप्रतिनिधिरुच्यते॥ ७॥
तस्याधिकारः संरक्षकेण व्याख्यातः॥ ८॥
उभयदा राजप्रतिनिधेरवसरः॥ ९॥
नित्यं सम्राजि विदेशस्थे यथा साम्प्रतम्॥ १०॥
कार्यवशाद्विदेशं गते॥ ११॥
सम्राडेव स्वस्य प्रतिनिधिं नियुञ्ज्यात्॥ १२॥
यदि विदेशीयाः सम्राडधिकारमात्रमात्मनरपतेः संरक्षन्तः पूर्णं स्वातन्त्र्यमस्मभ्यं दद्युः सोऽप्येकः सन्धिमार्गः॥ १३॥

१०

१ अधिकरणम् ६

शासनिके सन्धिविग्रहनिर्णये च नरिष्टा मन्त्रिमण्डली सम्राट् चेत्य- धिकारिणो यथा वक्ष्यामः॥ १॥
कोशविभागे नरिष्टा मन्त्रिमण्डली चेत्यधिकारिण्यौ॥ २॥
परिशिष्टे कार्यनिर्वहणे मन्त्रिमण्डली॥ ३॥
न्यायनिर्वहणे राजकुलम्॥ ४॥
साङ्ग्रामिके सम्राट्॥ ५॥
बलोत्पादनं बलशिक्षणं रणेषु बलप्रणयनं चेति साङ्ग्रामिकम्॥ ६॥

२ अधिकरणम् ६१

राज्ञश्चत्वारः कार्यदर्शिनो भवन्ति॥ ७॥
शासनिकसन्धिविग्रहेष्वमात्यो नामतः॥ ८॥
न्यायनिर्वहणे न्यायशास्त्री॥ ९॥
साङ्ग्रामिके सेनापतिः॥ १०॥
अन्तरङ्गकृत्येष्वहिभयपरिशोधने च सचिवः॥ ११॥

३ अधिकरणम् ६२

प्रधानिसूचितमनारिष्टं सम्राडमात्यमधिकुर्यात्॥ १२॥
मन्त्रिमण्डली कालेन तस्य कालो व्याख्यातः॥ १३॥
सैनिकाधिकारिभ्यः सेनापतिम्॥ १४॥
अर्हद्भ्यो न्यायशास्त्रिणम्॥ १५॥
नयविद्भ्यः सचिवम्॥ १६॥
तेषां कालो यावत्सम्राडिच्छम्॥ १७॥

११

१ अधिकरणम् ६३

तत्तच्छाखामन्त्रिणा समानीतं विधानं नरिष्टोपसएन ततो नरिष्टया च शोधितं सम्राजा चाङ्गीकृतं शासनं भवेत्साम्राज्ये॥ १॥
साधारणनारिष्टेन च॥ २॥
मन्त्रिमण्डलीं सदसस्पतिं च विनाऽन्यो नरिष्टासभ्यः साधारणनारिष्टः॥ ३॥
संस्करणं शोधनपदार्थः॥ ४॥
सर्वथाऽनवद्यं चेत्तद्रूपेणाङ्गीकरणं वा॥ ५॥
उपसए नरिष्टायां चार्धाधिकाङ्गीकृते तदङ्गीकृतप्रत्ययः॥ ६॥
तुल्यत्व एवासनपतेः सम्मतिदानाधिकारः॥ ७॥
विधानशोधकोपसओ नरिष्टायां विधानप्रवेशाभ्यनुज्ञानादनन्तरं तत्काल- बद्धः स्यात्॥ ८॥

२ अधिकरणम् ६४

शासनं कालासहं चेदुपसनिरपेक्षं प्रथमं नरिष्टायामेव तच्छोधनम् अप्रतिषिद्धम्॥ ९॥
कालासहत्वनिर्णये सदसस्पतिः प्रमाणम्॥ १०॥
स प्रतिवादं श्रुत्वा निर्णयं दद्यादनुकूलं प्रतिकूलं वा यथान्याय्यम्॥ ११॥

३ अधिकरणम् ६५

नरिष्टायां सिद्धं विधानं सम्राजं गच्छेत्॥ १२॥
स तद्द्वितृतीयांशोन नारिष्टाङ्गीकृतं शासनं कुर्यान्न वा॥ १३॥
कुर्यादेव द्वितृतीयांशानूननारिष्टाङ्गीकृतम्॥ १४॥
अन्यत्र यत्किञ्चित्सस्वत्वप्रतिरोधकं यत्किञ्चिन्मतसंस्था- विषयाभ्याम्॥ १५॥
निबन्धनसंस्करणनिबन्धनशेषकरणाभ्यां च॥ १६॥
तेषु सम्राजः प्रत्याख्यानाधिकारोऽनवधिः॥ १७॥

४ अधिकरणम् ६६

निबन्धनवच्छासननिबन्धनशेषयोरपि समष्ट्याऽवयवशश्च संज्ञा॥ १८॥
पूर्वपूर्वं शासनं संस्कर्तुं प्रभवेदुत्तरोत्तरम्॥ १९॥
निबन्धनशेषश्चैवम्॥ २०॥

५ अधिकरणम् ६७

पादादप्यूना नरिष्टास्यादसमर्था॥ २१॥
सा न किञ्चित्कार्यं कर्तुं प्रभवेत्॥ २२॥

६ अधिकरणम् ६८

सन्निहितसभ्यापेक्षयैव द्वितृतीयांशाधिकनिर्णयो नरिष्टायाम्॥ २३॥
तटस्थोऽसन्निहितवत्॥ २४॥
आसनपतिश्च शास्त्रतो मौनी॥ २५॥

७ अधिकरणम् ६९

उभयपक्षसाधारणेषु विषयेषु नारिष्टस्य स्वातन्त्र्यं सम्मतिदाने॥ २६॥
पक्षप्रश्नेषु यथापक्षाशयम्॥ २७॥

८ अधिकरणम् ७०

मन्त्रिमण्डल्यामविश्वासमुपपादयितुं च नरिष्टा प्रभवेत्॥ २८॥
मन्त्रिमण्डली हि नरिष्टायै बाध्या॥ २९॥
अन्यतमस्मिन्नविश्वासो नोपपाद्य इत्येके॥ ३०॥
प्रधानिनं विनाऽन्यत्राप्रतिषेध इति वासिष्ठः॥ ३१॥
नचेदन्यतमार्थं नरिष्टा सर्वां मन्त्रिमण्डलीं व्यर्थमुपहन्यात्॥ ३२॥
पुनरधिकरणादिनाटकं तं विनाऽन्येषाम्॥ ३३॥
प्रथममेव तत्कुतो माभूत्॥ ३४॥
अविश्वासे नरिष्टयाऽङ्गीकृते मन्त्रिमण्डली मन्त्री वाऽपसरेत्॥ ३५॥
भूयो नव बन्धः प्राग्वत्॥ ३६॥

९ अधिकरणम् ७१

कार्यनिर्वहणेषु प्रश्नान्प्रष्टुं साधारणनारिष्टः सर्वः प्रभवेद्यथा सम्प्रदायम्॥ ३७॥
उत्तराणि दातुं तत्तन्मन्त्री बाध्यः॥ ३८॥

१२

१ अधिकरणम् ७२

मन्त्रिमण्डल्याममन्त्र्यप्यमात्यः सभ्यः स्यात्॥ १॥
स एव तत्राध्यक्षो भवति॥ २॥
अनुकूलोऽथवा प्रतिकूलो न स्यात्प्रतिपादनस्य॥ ३॥
केवलं सभां चालयेत्॥ ४॥

२ अधिकरणम् ७३

सर्वो मन्त्री स्वस्वशाखासम्बद्धं प्रतिपादयेदिति नियमः॥ ५॥
प्रधानी शाखान्तरसम्बद्धं प्रतिपादयितुमिच्छति चेच्छाखा- मन्त्रिणमनुमान्य तद्द्वारा॥ ६॥
सर्वं प्रधानिना सह पञ्चानां सम्मतं सिध्येत्॥ ७॥
अन्येषां सर्वेषां सम्मतमपि प्रधानिनोऽसम्मतं न सिध्येत्॥ ८॥
स हि पक्षनीतिधरः॥ ९॥

३ अधिकरणम् ७४

निबन्धनशासनाविरोधेन कार्यनिर्वहणम्॥ १०॥

४ अधिकरणम् ७५

मन्त्रिमण्डल्यां चर्चया रहस्यया भवितव्यम्॥ ११॥
सर्वानुकूलस्येव फलितस्य बहिराविष्करणम्॥ १२॥

५ अधिकरणम् ७६

विग्रहमावश्यकं मन्त्रिमण्डल्यां सिद्धं बहिरङ्गमन्त्री नरिष्टायै निवेदयेत्॥ १३॥
स नरिष्टया सम्राजा चाङ्गीकृतः सिध्येत्॥ १४॥
प्रत्याख्यानाधिकारस्तु सम्राजोऽत्रानवधिः॥ १५॥
तस्मादमात्यद्वारा सम्राज आशयं प्रथमं विज्ञायैव सभायां विग्रहोपन्यासः कर्तव्यः॥ १६॥
अन्यथाऽनावश्यककोलाहलः स्यात्॥ १७॥

६ अधिकरणम् ७७

विग्रहेण सन्धिर्व्याख्यातः॥ १८॥
मध्ये दूतकार्यकलापो विशेषः॥ १९॥
अत्र साधारणशासनवत्सम्राजः प्रत्याख्यानाधिकारस्येयत्ता॥ २०॥
सिद्धाः सन्धयः पक्षाभ्यां द्वाभ्यामपि तुल्यं समादर्तव्याः॥ २१॥

७ अधिकरणम् ७८

प्रतिवर्षं कोशविभागं कोशमन्त्री नरिष्टायै निवेदयेत्॥ २२॥
अनन्तरं तत्तच्छाखामन्त्री स्व स्व्विषयानुसारेण॥ २३॥
अकाले च कोशाद्धनप्रार्थनं कालासहसन्दर्भेषु॥ २४॥
तदेतत्सर्वं नरिष्टया शोधितं सिध्येत्॥ २५॥

१३

१ अधिकरणम् ७९

प्रजानां साधारणमधिकारं शासनेनापहर्तुं नरिष्टा न प्रभवेत्॥ १॥
कस्यापि प्रभोर्वंशपरम्पराधिकारम्॥ २॥
आदितो निबन्धनेन दत्तं सम्राजः॥ ३॥
राजकुलस्य च॥ ४॥

२ अधिकरणम् ८०

स्वार्जितं धनं स्वयं भोक्तुं परस्मै वा दातुं सर्वासां प्रजानां सामान्यतो- ऽधिकारः॥ ५॥
शास्त्रतः प्राप्तं च शास्त्रानुसारेण॥ ६॥
स्वाशयं वक्तुं समवायेषु॥ ७॥
लिखितुं च॥ ८॥
यथेष्टं यात्राकर्तुम्॥ ९॥
यत्र क्वचित्स्वायत्ते स्थले वसितुम्॥ १०॥
स्वमतदेवालयान्प्रवेष्टुम्॥ ११॥
स्वयमर्चकद्वारा वा पूजयितुं च यथादेवालयसम्प्रदायम्॥ १२॥
यथाविधि स्वसम्प्रदायानुसारेण यागान् कर्तुम्॥ १३॥
यथारुचि व्यवसायं कर्तुम्॥ १४॥
वाणिज्यं च॥ १५॥
स्वमतसम्प्रदायानुसारेण यत्किञ्चिद्भोक्तुम्॥ १६॥
पुण्यनदीषु स्नातुं च॥ १७॥
भाषणलेखनेन सम्राड्द्रोहं प्रेरयितुम्॥ १८॥
जात्यन्तरद्वेषं च॥ १९॥
द्रोहश्च तं तद्वंशाधिकारं वाऽपहन्तुं बुद्धिः॥ २०॥
न न्यायनिर्णयं दूषयती॥ २१॥
व्यक्तिं वा काञ्चित्॥ २२॥

१४

१ अधिकरणम् ८१

राष्ट्रन्यायस्थाननिर्णीतं विषयं पुनः शोधयितुं राजकुलं जितः प्रार्थयते चेत्॥ १॥
संशयेषु राष्ट्रन्यायस्थानस्य प्रार्थने वा॥ २॥
राष्ट्रयोर्द्वयोः परस्परविवादांश्च परिष्कर्तुम्॥ ३॥
स्वाधिकारमुल्लङ्ध्य प्रवर्तमानां नरिष्टां मन्त्रिमण्डलीं वा नियन्तुं च॥ ४॥
यत्र नरिष्टा न प्रभवेत्तत्र मन्त्रिमण्डल्याश्च न क्रियाधिकारः॥ ५॥
तदनुचरोल्लनं नियन्तुं तत्सन्निकृष्टन्यायस्थानस्याधिकारः॥ ६॥

२ अधिकरणम् ८२

धर्मासने त्रयाणां निर्णयः सिध्येत्॥ ७॥
साम्ये राष्ट्रन्यायस्थाननिर्णयः॥ ८॥
तदादिनिर्णये सन्ध्यासनं यन्निर्धारयेत्॥ ९॥

३ अधिकरणम् ८३

राजधर्मासने सप्तानां निर्णयः सिध्येत्॥ १०॥
षण्णां च धर्मासने यद्येकः स्वानुकूलः॥ ११॥
सम्राजा सहैवेति॥ १२॥
इदं धर्मासनप्रातिकूल्येन॥ १३॥
असिद्धे प्रातिकूल्ये प्रतिकूलास्तटस्था एव भवेयुरिति नियमः॥ १४॥
षट्सु पञ्चसु वा यथोक्तं धर्मासननिर्णयप्रतिकूलेष्वेव सम्राट् स्वमतं तदनुसारिचेद्दद्यात्॥ १५॥
असिद्धे प्रातिकूल्ये समर्थकवर्गायैव स्वहस्तं दद्यात्॥ १६॥
तस्या व्यक्त्याशयस्य तदा न प्राधान्यम्॥ १७॥

१५

१ अधिकरणम् ८४

भूतपूर्वराजधर्मासननिर्णयप्रतिकूले स्वाशये धर्मासनं संशयापनोदनाय नवस्य राजधर्मासनस्य बन्धाय सम्राजं प्रार्थयेत्॥ १॥
तैश्चार्हद्भिः पञ्चभिरात्मना च तदा सम्राडासनं रचयेत्॥ २॥
नवसु पञ्चानां निर्णयं सम्राट् समर्थयेत्॥ ३॥

२ अधिकरणम् ८५

राजकुलस्यान्त्यो निर्णयः प्रमाणं स्यात्सर्वेषु न्यायस्थानेषु व्यवहारसन्देहेषु॥ ४॥
विप्रतिषेधे परस्य बलीयस्त्वम्॥ ५॥

३ अधिकरणम् ८६

न शासनविरोधेन न्यायस्थाननिर्णयाः॥ ६॥
निबन्धनविरोधेन च॥ ७॥
शासनानि निबन्धनं च भाषासन्देहे तात्पर्यसन्देहे वा विचार्य यथामति व्याख्यातुं न्यायस्थानानि प्रभवेयुः॥ ८॥

४ अधिकरणम् ८७

दण्डनायकः स्वसंस्थाने न्यायाधिकारी स्यात्॥ ९॥
स्वयमधिकृतद्वारा वा व्यवहारान्पश्येत्॥ १०॥
अधिकृतनिर्णीतेषु पुनः शोधनाधिकारो राष्ट्रन्यायस्थानस्य जितश्चेत्प्रार्थयते॥ ११॥
दण्डनायकनिर्णीतेषु राजकुलस्यैव॥ १२॥

१६

१ अधिकरणम् ८८

साम्राज्ये नरिष्टावद्राष्ट्रेषु प्रशासिन्यः॥ १॥
सम्राड्वत्प्रशासिता मण्डलेश्वरो वा॥ २॥
राजकुलवदुन्नतन्यायस्थानम्॥ ३॥
मन्त्रिमण्डलीवत्कार्यनिर्वाहकवर्गः॥ ४॥
एवं चतुष्पात्तत्रोपप्रभुत्वम्॥ ५॥

२ अधिकरणम् ८९

एकैक एव स्नातकसमवायः॥ ६॥
स्थानानि यथा राष्ट्रवैशाल्यं कल्पयितव्यानि॥ ७॥
वरणार्हताविधयः सर्वाः प्राग्वत्॥ ८॥
अत्र प्रतिनिध्याय तिष्ठतो देशभाषाज्ञत्वमलमिति विशेषः॥ ९॥

३ अधिकरणम् ९०

सम्राडेव प्रशासितॄन्नियुञ्ज्यात्॥ १०॥
किरीटिनमेकस्मिन्प्रान्ते॥ ११॥
षष्ठे षष्ठे नवो नवः प्रशासिता॥ १२॥
प्रशासितुरुन्नतन्यायस्थानेनासनपदम्॥ १३॥
तत्र न्यायमूर्तीन्स्तु स एव सूचयेन्नियोजनाय सम्राजे॥ १४॥

४ अधिकरणम् ९१

अन्तरङ्गकोशादायविद्यास्थानिकशाखाः कार्यनिर्वहणे॥ १५॥
राष्ट्रसाम्राज्यादायस्थानानि यथोचितं विभाज्यानि॥ १६॥
देशभाषाविद्या राष्ट्रस्य॥ १७॥
सर्वसाधारणी साम्राज्यस्य॥ १८॥

५ अधिकरणम् ९२

न न्यायशासनानि कर्तुं प्रशासिनी प्रभवेत्॥ १९॥
धर्मशासनानि च॥ २०॥
प्रशासिन्यां सिद्धं शासनं प्रशासित्रा केवलमङ्गीकृतं न सिध्येत्॥ २१॥
सम्राजोऽङ्गीकारोऽपि तत्रापेक्षितः॥ २२॥
मण्डलेषु नैष विधिः॥ २३॥

१७

१ अधिकरणम् ९३

अनिर्दिष्टोऽधिकारः साम्राज्यप्रभुत्वस्य॥ १॥
नियन्तुं चापथस्थं राष्ट्रप्रभुत्वम्॥ २॥
राष्ट्रप्रजाश्चापथस्थाः॥ ३॥

२ अधिकरणम् ९४

शास्त्रे पुंलिङ्गमुपलक्षकं स्त्रियाश्च तल्लक्षणायाः॥ ४॥

३ अधिकरणम् ९५

वंशमान्यनिकृष्टादायतोऽर्धं सम्राट् करं प्राप्नुयात्॥ ५॥
शेषे च भागं महाशालत्वाद्यथा स्वांशम्॥ ६॥
सामान्यनिबन्धनरीत्यैव वंशमान्यादायशेषाद्भागान्महाशालाः प्राप्नुयुः॥ ७॥
न व्यक्तिसङ्ख्यानुसारेण॥ ८॥
महामण्डलेश्वरोऽधिकृतवद्वेतनभाक् च॥ ९॥

४ अधिकरणम् ९६

सम्राट्कुमाराणां यथा स्वं महाशालभागाः॥ १०॥
सम्राट् प्राप्तात्कराच्चा यथोचितं भागाः॥ ११॥
सम्राट्कुमारशब्देनानूढाः कुमार्यश्च गृह्येरन्॥ १२॥
कीर्तिशेषसम्राट्कुमाराश्च॥ १३॥
तत्राप्यनूढानां कुमारीणामपरित्यागः॥ १४॥

५ अधिकरणम् ९७

सम्राट्कुटुम्बादन्यत्र लक्षाधिको निकृष्टादायो भूस्वामिनां वणिजां च स्वाम्यभिप्रेताय धर्माय विनियोज्यः॥ १५॥
स्वसीमायामेव भूस्वामिनः॥ १६॥
यत्र क्वचिद्वणिजः॥ १७॥
तथा कारयितुं राष्ट्रप्रभुत्वस्यास्त्यधिकारः॥ १८॥

१८

१ अधिकरणम् ९८

अथ हिन्दुसमर्यादाः॥ १॥
ब्राह्मणक्षत्रियवैश्यशूद्रनिषादाः पञ्चसआः॥ २॥
सामान्यतः सर्वे वैदिकाः॥ ३॥
यथापूर्वं श्रेष्ठा इत्येके॥ ४॥
नेति वासिष्ठः॥ ५॥
तुल्या एव स्युस्तुल्यप्राकृतसर्गत्वात्॥ ६॥

२ अधिकरणम् ९९

पूर्वेषां त्रयाणामेव वैदिकानि कर्माण्यध्ययनाधिकारश्चेत्येके॥ ७॥
इतरयोरपीच्छतोरिति वासिष्ठः॥ ८॥
एवं हि बहूनि मन्त्रलिङ्गानि॥ ९॥

३ अधिकरणम् १००

ब्राह्मो गान्धर्वश्चेति द्वौ विवाहौ सर्वेषाम्॥ १०॥
सहधर्माचरणस्य विवाहादनन्तरं सर्वसाधारणत्वान्न तत्प्रतिज्ञया विवाहभेदः॥ ११॥
दैवासुरार्षेषु विक्रयदोषादनादरणम्॥ १२॥
दक्षिणा स्यादृत्विजे दाता॥ १३॥
दक्षिणा च निष्क्रयो न दानम्॥ १४॥
आर्षे गोग्रहणं प्रत्यक्षं तन्मूल्यवत्॥ १५॥
राक्षसस्य बलात्करणत्वादविवाहत्वम्॥ १६॥
पैशाचस्य प्रतारणत्वात्॥ १७॥
तस्माद्द्वावेव धर्म्यौ विवाहौ॥ १८॥

४ अधिकरणम् १०१

पाणिग्रहणादिसमावेशनशेषहोमान्तं कर्मविवाहः॥ १९॥
तत्र ब्राह्मविधौ दानं पूर्वाङ्गम्॥ २०॥
गान्धर्वविधौ वरणम्॥ २१॥
कन्याऽभिमताय दानमिति सर्वोत्तमः पन्थाः पित्रभिमतस्य वरणं वेति॥ २२॥
बाह्मगान्धर्वयोः सङ्कीर्णतापत्तिरिति चेत्॥ २३॥
इष्टत्वादनापत्तिः॥ २४॥
कन्यामपृष्ट्वैव दद्यादिति ब्राह्मे न विधिः॥ २५॥
पितरमननुमान्यैव वृणुयादिति न गान्धर्वे॥ २६॥
तादृशेषु सन्दर्भेषु प्राधान्येन व्यवहारः॥ २७॥
कन्यां पृष्ट्वा ददाति चेद्ब्राह्म इति॥ २८॥
पितरमनुमान्यवृणुते चेद्गान्धर्व इति॥ २९॥
शुद्धब्राह्मेऽपि कन्याया अनभिमतत्वेन प्रत्यक्षं ज्ञाताय न दानम्॥ ३०॥

५ अधिकरणम् १०२

समावेशनमात्रं शुद्धगान्धर्व इत्येके॥ ३१॥
धर्मप्रजार्थः सङ्कल्पः कन्यादूषणादत्र भेदक इति तेषां दृष्टिः॥ ३२॥
नेति वासिष्ठः॥ ३३॥
विवाहस्य संस्कारत्वात्॥ ३४॥

६ अधिकरणम् १०३

सवर्णायैव प्रदानम्॥ ३५॥
गान्धर्वोऽपि सवर्णयोः शस्यते॥ ३६॥
असवर्णयोरपि गाढानुरागयोर्न दोषाय॥ ३७॥
तदा पितुर्वर्णमपत्यानि भजेरन्॥ ३८॥

७ अधिकरणम् १०४

न वयसाऽधिकामुद्वहेत्॥ ३९॥
पुनर्भुवोऽप्रतिषेधः॥ ४०॥

८ अधिकरणम् १०५

विंशतिवर्षाधिकवयसे न दानम्॥ ४१॥
कन्यायामिच्छन्त्यामदोषः॥ ४२॥

९ अधिकरणम् १०६

न सगोत्रामुद्वहेत्॥ ४३॥
मातृक्रमां च॥ ४४॥
सपिण्डेषु यावन्मातृससङ्ख्यलिङ्गसाम्ये मातृससङ्ख्या मातृक्रमा॥ ४५॥
विमातुर्भगिनी॥ ४६॥
पितृव्यपत्न्याश्च॥ ४७॥
पत्नी च पितृसमान्तरज्ञातेः स्वर्गिणः॥ ४८॥
भगिनीक्रमां नोद्वहेत्॥ ४९॥
सपिण्डेषु यावत्पितृयावन्मातृ वा ससयलिङ्गसाम्ये स्वतुल्यान्तरा भगिनीक्रमा॥ ५०॥
विमातुर्भागिनेयी॥ ५१॥
पितृव्यपत्न्याश्च॥ ५२॥
भगिन्याः सपत्नी च स्वर्गिणि तद्भर्तरि॥ ५३॥
दुहितृक्रमां नोद्वहेत्॥ ५४॥
सपिण्डेषु यावदात्मससङ्ख्यलिङ्गसाम्ये तुल्यान्तरस्य पुत्री दुहितृ- क्रमा॥ ५५॥
पत्न्याश्च भागिनेयी॥ ५६॥
दुहितुः सपत्नी च स्वर्गिणि तद्भर्तरि॥ ५७॥
अभगिनीक्रमामपि तृतीयस्तृतीयां नोद्वहेदित्येके॥ ५८॥
अप्रतिषेध इति वासिष्ठः॥ ५९॥
मन्त्रलिङ्गबलात्सदाचारदर्शनाच्चा॥ ६०॥
भागिनेय्यप्रतिषिद्धेत्येके॥ ६१॥
प्रतिषिद्धेत्यन्ये॥ ६२॥
उत्तरः पक्षः साधुः॥ ६३॥
पूर्वः पक्षः प्रचारेणैव परिहर्तव्यः॥ ६४॥
आत्मकूटस्थां सपिण्डां नोद्वहेत्॥ ६५॥
भ्रातुर्दौहित्रीं च॥ ६६॥
स्वर्गिणो गुरोः पत्नीम्॥ ६७॥
पुत्रस्य॥ ६८॥
भ्रातृव्यस्य च॥ ६९॥

१९

०१ अधिकरणम् १०७

पितुः पित्र्ये रिक्थे तत्पुत्राश्च दायवन्तः संस्थानेभ्योऽन्यत्र॥ १॥
अन्यतो वा शास्त्रत आयाते॥ २॥

०२ अधिकरणम् १०८

अनौरसाः पुत्रा अर्धभागाः॥ ३॥
औरसाः पितृवदेकैकपूर्णभागाः॥ ४॥

०३ अधिकरणम् १०९

पितुः स्वर्गिणो विभक्तस्य प्रागुक्तं रिक्थं पुत्रा यथाभागं विभजेयु- रनादिष्टम्॥ ५॥
आदिष्टस्य यथादेशं सङ्क्रान्तिः॥ ६॥
अनिच्छत्सु पुत्रेषु विभजन्नन्यथादेशं कर्तुं न शव्नुयात्॥ ७॥

०४ अधिकरणम् ११०

पितुः स्वर्गिणः स्वार्जितं रिक्थं पुत्रा यथाभागं विभजेयुरनादिष्टम्॥ ८॥
आदिष्टस्य यथादेशं सङ्क्रान्तिः॥ ९॥
पुत्रेभ्यो वृत्तिमप्रकल्प्यान्यथादेशं कर्तुं न शव्नुयात्॥ १०॥

०५ अधिकरणम् १११

पितुरविभक्तस्य पित्र्यमन्यतो वा शास्त्रत आयातं रिक्थं पुत्रा यथाभागं प्राप्नुयुः॥ ११॥
अविभक्तः पिता प्रागुक्तं रिक्थं अन्यथाऽऽदेष्टुं न प्रभवेत्॥ १२॥
पितृवदविभक्तस्य भ्रातुः स्वर्गिणः॥ १३॥
तत्र जीवनपिताच भागीस्यादिति विशेषः॥ १४॥

०६ अधिकरणम् ११२

एकस्यां भार्यायां सपुत्रायां जीवन्त्यां पुनरन्यां चेत्परिगृह्णीयात्॥ १५॥
तस्य तात्कालिकं भागमेव प्रागुक्ते रिक्थे द्वितीयापुत्राः प्राप्नुयुरकृतेऽपि विभागे॥ १६॥
महाशालेषु नैष न विधिः॥ १७॥

०७ अधिकरणम् ११३

विभक्तस्य पुत्रस्य कृतदारस्य स्वर्गिणो रिक्थं माता प्राप्नुयात्॥ १८॥
तदभावे पिता॥ १९॥
तयोरभावे भ्रातरः॥ २०॥
भ्रात्रभावे भगिन्यः॥ २१॥
तदभावे सन्निहितज्ञातिवर्गः॥ २२॥
तुल्यबन्धुत्वानां समांशत्वद्योतनाय वर्ग इति॥ २३॥
अत्र तद्वत्स्वर्गिणस्तत्पुत्राः॥ २४॥

०८ अधिकरणम् ११४

कृतदारस्य भार्या॥ २५॥
पुनरूढाचेत्ततश्च्युता स्यात्॥ २६॥
अनूढापि यावआवितभोगाय॥ २७॥
न दानाय विक्रयाय वा॥ २८॥
तस्या अनन्तरं दुहितरः॥ २९॥
दुहितॄणामभावे भर्तुर्भ्रातर इत्यादि चालनमतिदेशश्च प्राग्वत्॥ ३०॥

०९ अधिकरणम् ११५

प्राप्ते पित्र्ये रिक्थे दुहितरः पुंवत्॥ ३१॥

१० अधिकरणम् ११६

भर्तृप्राप्तरिक्थ इव पुत्रप्राप्तरिक्थे स्त्रीणां न दानविक्रयाधिकारः॥ ३२॥
भक्तिदत्ते त्वस्ति॥ ३३॥
प्रीतिदत्ते भार्यायाः॥ ३४॥

११ अधिकरणम् ११७

स्त्रीधनानि यथासम्प्रदायम्॥ ३५॥
तत्र स्त्रीणां निरङ्कुशोऽधिकारः॥ ३६॥
अनन्तरं सर्वेषामपत्यानां तुल्यो दायः॥ ३७॥

१२ अधिकरणम् ११८

भार्याया अपूर्णाधिकारं रिक्थं तस्या अनन्तरं भर्ता प्राप्नुयात्॥ ३८॥
तस्यानन्तरं पुत्राः॥ ३९॥

१३ अधिकरणम् ११९

स्वार्जित्ते नारी पुंवत्॥ ४०॥
तस्या अनन्तरमनादिष्टं सर्वाण्यपत्यानि तुल्यं प्राप्नुयुरिति विशेषः॥ ४१॥
दुहितॄणां पित्र्यवन्मातुरीदृशमायातम्॥ ४२॥

२०

१ अधिकरणम् १२०

सन्न्यासिनो न दायः॥ १॥
मतान्तरं प्रविष्टस्य॥ २॥
मतान्तरनार्युद्वाहो मतान्तरप्रवेशवत्॥ ३॥

२ अधिकरणम् १२१

नित्यकन्या पुत्रवद्दायहारिणी॥ ४॥
यावआवितं भोगायैव॥ ५॥
तस्या अनन्तरं भ्रातरस्तत्प्राप्नुयुः॥ ६॥

३ अधिकरणम् १२२

न हन्यान्नरम्॥ ७॥
न परस्य धनं हरेत्॥ ८॥
न परदारान् गच्छेत्॥ ९॥
न सुरां पिबेत्॥ १०॥
नानृतं ब्रुयात्॥ ११॥
न परं दूषयेत्॥ १२॥
न परस्य द्रोहमभिदध्यात्॥ १३॥
ता एताः सप्तमहामर्यादाः सप्तमहामर्यादाः॥ १४॥
॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोर्गणपतेः कृतिः साम्राज्यनिबन्धनं समाप्तम्।