६४

अथ((१९१)) स्नुही-कण्टक-चूर्णैः पुनर्नवा-वानर-पुरिष-लाङ्गलिका-मूल-मिश्रैर् याम् अवकिरेत् सा नान्यं कामयेत्। ॥७।१।३२॥
तथा सोमलतावल्गुजा-भृङ्ग-लोहोपजिह्विका-चूर्णैर् व्याधि-घातक-जम्बू-फल-रस-निर्यासेन घनी-कृतेन च लिप्त-सम्बाधां गच्छतो रागो नश्यति। ॥७।१।३३॥
गोपालिका-बहुपादिका-जिह्विका-चूर्णैर् माहिष-तक्र-युक्तैः स्नातां गच्छतो रागो नश्यति। ॥७।१।३४॥
नीपाम्रातक-जम्बू-कुसुम-युक्तम् अनु-लेपनं दौर्भाग्य-करं स्रजश् च। ॥७।१।३५॥
कोकिलाक्ष-प्रलेपो हस्तिन्याः संहतम् एकरात्रे करोति। ॥७।१।३६॥
पद्मोत्पल-कदम्ब-सर्जक-सुगन्ध-चूर्णानि मधुना पिष्टानि लेपो मृग्या विशाली-करणम्। ॥७।१।३७॥
स्नुही-सोमार्क-क्षारैर् अवल्गुजा-फलैर् भावितान्य् आमलकानि केशानां श्वेती-करणम्। ॥७।१।३८॥
मदयन्तिका-कुटज-काञ्जनिका-गिरिकर्णिका-श्लक्ष्णपर्णी-मूलैः स्नानं केषानां प्रत्यानयनम्। ॥७।१।३९॥
एतैर् एव सु-पक्वेन तैलेनाभ्यङ्गात् कृष्णी-करणात् क्रमेणास्य प्रत्यानयनम्। ॥७।१।४०॥
श्वेताश्वस्य मुष्क-स्वेदैः सप्त-कृत्वो भावितेनालक्तकेन रक्तो ऽधरः श्वेतो भवति। ॥७।१।४१॥
मदयन्तिकादीन्य् एव प्रत्यानयनम्। ॥७।१।४२॥
बहुपादिका-कुष्ठ-तगर-तालीस-देवदारु-वज्रकन्दकैर् उपलिप्तं वंशं वादयतो या शब्दं शृणोति सा वश्या भवति। ॥७।१।४३॥
धत्तूर-फल-युक्तो ऽभ्यवहार उन्मादकः। ॥७।१।४४॥
गुडो जीर्णितश् च प्रत्यानयनम्। ॥७।१।४५॥
हरिताल-मनःशिला-भक्षिणो मयूरस्य पुरीषेण लिप्त-हस्तो यद् द्रव्यं स्पृशति तन् न दृश्यते। ॥७।१।४६॥
अङ्गार-तृण-भस्मना तैलेन विमिश्रम् उदकं क्षीर-वर्णं भवति। ॥७।१।४७॥
हरीतकाम्रातकयोः श्रवण-प्रियङ्गुकाभिश् च पिष्टाभिर् लिप्तानि लोह-भाण्डानि ताम्री-भवन्ति। ॥७।१।४८॥
श्रवण-प्रियङ्गुका-तैलेन दुकूल-सर्पनिर्मोकेण वर्त्त्या दीपं प्रज्वाल्य पार्श्वे दीर्घी-कृतानि काष्ठानि सर्पवद् दृश्यन्ते। ॥७।१।४९॥
श्वेतायाः श्वेत-वत्साया गोः क्षीरस्य पानं यशस्यम् आयुष्यम्। ॥७।१।५०॥
ब्राह्मणानां प्रशास्तानाम् आशिषः((१९२))। ॥७।१।५१॥
पूर्व-शास्त्राणि सन्दृश्य प्रयोगान् अनुसृत्य च। काम-सूत्रम् इदं यत्नात् सङ्क्षेपेण निवेदितम्॥ ॥७।१।५२व्॥
धर्मम् अर्थं च कामं च प्रत्ययं लोकम् एव च। पश्यत्य् एतस्य तत्त्व-ज्ञो न च रागात् प्रवर्तते॥ ॥७।१।५३व्॥
अधिकार-वशाद् उक्ता ये चित्रा राग-वर्धनाः। तद्-अनन्तरम् अत्रैव ते यत्नाद् विनिवारिताः॥।७।१।५५व् न शास्त्रम् अस्तीत्य् एतेन प्रयोगो हि समीक्ष्यते। शास्त्रार्थान् व्यापिनो विद्यात् प्रयोगांस् त्व् एक-देशिकान्। ॥७।१।५४व्॥
बाभ्रवीयांश् च सूत्रार्थान् आगमय्य विमृश्य च। वात्स्यायनश् चकारेदं काम-सूत्रं यथा-विधि॥ ॥७।१।५६व्॥
तद् एतद् ब्रह्मचर्येण परेण च समाधिना। विहितं लोक-यात्रार्थं न रागार्थो ऽस्य संविधिः॥ ॥७।१।५७व्॥
रक्षन् धर्मार्थ-कामानां स्थितिं स्वां लोक-वर्तिनीम्। अस्य शास्त्रस्य तत्त्व-ज्ञो भवत्य् एव जितेन्द्रियः॥ ॥७।१।५८व्॥
तद् एतत् कुशलो विद्वान् धर्मार्थाव् अवलोकयन्। नाति-रागात्मकः कामी प्रयुञ्जानः प्रसिध्यति((१९३))॥। ॥७।१।५९व्॥