एवं वृक्ष-जानां जन्तूनां शूकैर् उपहितं लिङ्गं दशरात्रं तैलेन मृदितं पुनर् उपतृंहितं पुनः प्रमृदितम् इति जात-शोफं खट्वायाम् अधो-मुखस् तद्-अन्तरे लम्बयेत्। ॥७।१।२५॥
तत्र शीतैः कषायैः कृत-वेदना-निग्रहं सोपक्रमेण निष्पादयेत्। ॥७।१।२६॥
स यावज्-जीवं शूकजो नाम शोफो विटानाम्। ॥७।१।२७॥
अश्वगन्धा-शबरकन्द-जलशूक-बृहतीफल-महीष-नवनीत-हस्तिकर्ण-वज्रवल्ली-रसैर् एकैकेन परिमर्दनं मासिकं वर्धनम्। ॥७।१।२८॥
एतैर् एव कषायैः पक्वेन तैलेन परिमर्दनं षाण्मास्यम्। ॥७।१।२९॥
दाडिम-त्रापुष-बीजानि बालुका बृहती-फल-रसश् चेति मिद्व्-अग्निना पक्वेन तैलेन परिमर्दनं परिषेको वा। ॥७।१।३०॥
तांस् तांश् च योगान् आप्तेभ्यो बुध्येत। ॥७।१।३१॥
# ६३च् इति वर्धन-योगाः((१९०))।