६२ नष्ट-राग-प्रत्यानयन-प्रकरणम्

६२ नष्ट-राग-प्रत्यानयन-प्रकरणम्

चण्ड-वेगां रञ्जयितुम् अ-शक्नुवन् योगान् आचरेत्। ॥७।१।१॥
रागस्योपक्रमे सम्बाधस्य करेणोपमर्दनं तस्या रस-प्राप्ति-काले च रत-योजनम् इति राग-प्रत्यानयनम्। ॥७।१।२॥
औपरिष्टकं मन्द-वेगस्य गत-वयसो व्यायतस्य रत-श्रान्तस्य च राग-प्रत्यानयनम्। ॥७।१।३॥
अपद्रव्याणि वा योजयेत्। ॥७।१।४॥
तानि सुवर्ण-रजत-ताम्र-कालायस-गजदन्त-गवल-द्रव्य-मयाणि। ॥७।१।५॥
त्रापुषाणि सैसकानि च मृदूनि शीत-वीर्याणि कर्मणि च धृष्णूनि भवन्तीति बाभ्रवीया योगाः। ॥७।१।६॥
दारु-मयानि साम्यतश् चेति वात्स्यायनः। ॥७।१।७॥
लिङ्ग-प्रमाणान्तरं बिन्दुभिः कर्कश-पर्यन्तं बहुलं स्यात्। ॥७।१।८॥
एते एव द्वे सङ्घाटी। ॥७।१।९॥
त्रि-प्रभृति यावत् प्रमाणं वा चूडकः। ॥७।१।१०॥
एकाम् एव लतिकां प्रमाण-वशेन वेष्टयेद् इत्य् एक-चूडकः। ॥७।१।११॥
उभयतो-मुख-च्छिद्रः स्थूल-कर्कश-वृषण-गुटिकायुक्तः प्रमाण-वश-योगी कट्यां बद्धः कञ्चुको जालकं वा। ॥७।१।१२॥
तद्-अ-भावे ऽलाबूनालकं वेणुश् च तैल-कषायैः सु-भावितः सूत्रेण कट्यां बद्धः श्लक्ष्णा काष्ठ-माला वा ग्रथिता बहुभिर् आमलकास्थिभिः संयुक्तेत्य् अपविद्ध-योगाः॥७।१।१४ न त्व् अ-विद्धस्य कस्य चिद् व्यवहृतिर् अस्तीति। ॥७।१।१३॥
दाक्षिणात्यानां लिङ्गस्य कर्णयोर् इव व्यधनं बालस्य। ॥७।१।१५॥
युवा तु शस्त्रेण छेदयित्वा यावद् रुधिरस्यागमनं तावद् उदके तिष्ठेत्। ॥७।१।१६॥
वैशद्यार्थं च तस्यां रात्रौ निर्बन्धाद् व्यवायः। ॥७।१।१७॥
ततः कषायैर् एक-दिनान्तरितं शोधनम्। ॥७।१।१८॥
वेतस-कुटज-शङ्कुभिः क्रमेण वर्धमानस्य वर्धनैर् बन्धनम्। ॥७।१।१९॥
यष्टी-मधुकेन मधु-युक्तेन शोधनम्। ॥७।१।२०॥
ततः सीसक-पत्त्र-कर्णिकया वर्धयेत्। ॥७।१।२१॥
म्रक्षयेद् भल्लातक-तैलेनेति व्यधन-योगाः। ॥७।१।२२॥
तस्मिन्न् अन्-एकाकृति-विकल्पान्य् अपद्रव्याणि योजयेत्। ॥७।१।२३॥
वृत्तम् एकतो वृतअम् उदूखलकं कुसुमकं कण्टकितं कङ्कास्थि गज-करकम् अष्ट-मण्डलकं भ्रमरकं शृङ्गाटकम् अन्यानि वोपायतः कर्मतश् च बहु-कर्म-सहता चैषां मृदु-कर्कशता यथा-सात्म्यम् ॥७।१।२४॥

# ६२च् इति नष्ट-राग-प्रत्यानयनम् द्विषष्टितमं प्रकरणम्((१८९))।