उच्चटा-कन्दश् चव्या यष्ठी-मधुकं च स-शर्करेण पयसा पीत्वा वृषी-भवति। ॥७।१।३६॥
मेष-वस्त-मुष्क-सिद्धस्य पयसः स-स्शर्करस्य पानं वृषत्व-योगः। ॥७।१।३७॥
तथा विदार्याः क्षीरिकायाः स्वयं-गुप्तायाश् च क्षीरेण पानम्। ॥७।१।३८॥
तथा प्रियाल-बीजानां मोरटा-विदार्योश् च क्षीरेणैव। ॥७।१।३९॥
शृङ्गाटक-कसेरुका-मधूलिकानि क्षीरकाकोल्या सह पिष्टानि सशर्करेण पयसा घृतेन मन्दाग्निनोत्करिकां पक्त्वा यावद् अर्थं भक्षितवान् अनन्ताः स्त्रियो गच्छतीत्य् आचार्याः प्रचक्षते। ॥७।१।४०॥
माषकमलिनीं पयसा धौताम् उष्णेन घृतेन मृदु-कृत्योद्धृतां वृद्ध-वत्सायाः गोः पयः-सिद्धं पायसं मधु-सर्पिर्भ्याम् अशित्वानन्ताः स्त्रियो गच्छतीत्य् आचार्याः प्रचक्षते। ॥७।१।४१॥
विदारी स्वयं-गुप्ता शर्करा मधु-सर्पिर्भ्यां गोधूम-चूर्णेन पोलिकां कृत्वा यावद् अर्थं भक्षितवान् अनन्ताः स्त्रियो गच्छतीत्य् आचार्याः प्रचक्षते। ॥७।१।४२॥
चटकाण्ड-रस-भावितैस् तण्डुलैः पायसं सिद्धं मधु-सर्पिर्भ्यां प्लावितं यावद् अर्थम् इति समानं पूर्वेण। ॥७।१।४३॥
चाटकाण्ड-रस-भावितान् अपगत-त्वचस् तिलाञ् शृगाटक-कसेरुक-स्वयङ्गुप्ता-फलानि गोधूम-माष-चूर्णैः स-शर्करेण पयसा सर्पिषा च पक्वं संयावं यावद् अर्थं प्राशितवान् इति समानं पूर्वेण। ॥७।१।४४॥
सर्पिषो मधुनः शर्कराया मधुकस्य च द्वे द्वे पले मधु-रसायाः कर्षः प्रस्थं पयस इति षडङ्गम् अ-मृतं मेध्यं वृष्यम् आयुष्यं युक्त-रसम् इत्य् आचार्याः प्रचक्षते। ॥७।१।४५॥
शतावरी-श्वदंष्ट्रा-गुड-कषाये पिप्पली-मधुकल्के गो-क्षीर-च्छाग-घृते पक्वे तस्य पुष्यारम्भेणान्व्-अहं प्राशनं मेध्यं वृष्यम् आयुष्यं युक्त-रसम् इत्य् आचार्याः प्रचक्षते। ॥७।१।४६॥
शतावर्याः श्वदंष्ट्रायाः श्रीपर्णी-फलानां च क्षुण्णानां चतुर्-गुणित-जलेन पाक आ प्रकृत्य्-अवस्थानात् तस्य पुष्यारम्भेण प्रातः प्राशनं मेध्यं वृष्यम् आयुष्यं युक्त-रसम् इत्य् आचार्याः प्रचक्षते। ॥७।१।४७॥
श्वदंष्त्रा-चूर्ण-समन्वितं तत्-समम् एव यव-चूर्णं प्रातर् उत्थाय द्वि-पलकम् अनु-दिनं प्राश्नीयान् मेध्यं वृष्यं युक्त-रसम् इत्य् आचार्याः प्रचक्षते। ॥७।१।४८॥
आयुर्-वेदाच् च वेदाच् च विद्यात् तन्त्रेभ्य एव च। आप्तेभ्यश् चावबोद्धव्या योगा ये प्रीति-कारकाः॥ ॥७।१।४९व्॥
न प्रयुञ्जीत सन्दिग्धान् न शरीरात्ययावहान्। न जीव-घात-सम्बद्धान् ना-शुचि-द्रव्य-संयुतान्॥ ॥७।१।५०व्॥
तपो-युक्तः प्रयुञ्जीत शिष्टैर् अनुगतान् विधीन्। ब्राह्मणैश् च सुहृद्भिश् च मङ्गलैर् अभिनन्दितान्((१८८))॥ ॥७।१।५१व्॥
इति श्रीवात्स्यायनीये कामसूत्रे औपनिषदिके सप्तमे ऽधिकरणे सुभगं-करणं वशी-करणं वृष्य-योगाः प्रथमो ऽध्यायः। ॥७।१च्॥