६०

धत्तूरक-मरिच-पिप्पली-चूर्णैर् मधु-मिश्रैर् लिप्त-लिङ्गस्य सम्प्रयोगो वशी-करणम्। ॥७।१।२५॥
वातोद्भान्त-पत्त्रं मृतक-निर्माल्यं मयूरास्थि-चूर्णावचूर्णं वशी-करणम्। ॥७।१।२६॥
स्वयं मृताया मण्डल-कारिकायाश् चूर्णं मधु-संयुक्तं सहामलकैः स्नानं वशी-करणम्। ॥७।१।२७॥
वज्र-स्नुही-गण्डकानि खण्डशः कृतानि मनःशिला-गन्ध-पाषाण-चूर्णेनाभ्यज्य सप्तकृत्वः शोषितानि चूर्णयित्वा मधुना लिप्त-लिङ्गस्य सम्प्रयोगो वशी-करणम्। ॥७।१।२८॥
एतेनैव रात्रौ धूमं कृत्वा तद्-धूम-तिरस्-कृतं सौवर्णं चन्द्रमसं दर्शयति। ॥७।१।२९॥
एतैर् एव चूर्णितैर् वानर-पुरीष-मिश्रितैर् यां कन्याम् अवकिरेत् शान्यस्मै न दीयते। ॥७।१।३०॥
वचागण्डकानि सहकार-तैल-लिप्तानि शिशपा-वृक्ष-स्कन्धम् उत्कीर्य षण्-मासं निदध्यात् ततः षड्भिर् मासैर् अपनीतानि देवकान्तम् अनुलेपनं वशी-करणं चेत्य् आचक्षते। ॥७।१।३१॥
तथा खदिर-सार-जानि शकलानि तनूनि यं वृक्षम् उत्कीर्य षण्-मासं निदध्यात् तत् पुष्प-गन्धानि भवन्ति गन्धर्व-कान्तम् अनुलेपनं वशी-करणं चेत्य् आचक्षते। ॥७।१।३२॥
प्रियङ्गवस् तगर-मिश्राः सहकार-तैल-दिग्धा नाग-वृक्षम् उत्कीर्य षण्-मासं निहिता नाग-कान्तम् अनु-लेपनं वशी-करणम् इत्य् आचक्षते॥७।१।३४ उष्ट्रास्थि भृगराज-रसेन भावितं दग्धम् अञ्जनं नलिकायां निहितम् उष्ट्रास्थि-शलाकयैव स्नातो ऽञ्जन-सहितं पुण्यं चक्षुष्यं वशी-करणं चेत्य् आचक्षते। ॥७।१।३३॥
एतेन श्येन-भास-मयूरास्थि-मयान्य् अञ्जनानि व्याख्यातानि((१८७))। ॥७।१।३५॥