५९ सुभगं-करणादि-प्रकरणम्

५९ सुभगं-करणादि-प्रकरणम्

व्याख्यातं च काम-सूत्रम्। ॥७।१।१॥
तत्रोक्तेस् तु विधिभिर् अभिप्रेतम् अर्थम् अनधिगच्छन् औपनिषदिकम् आचरेत्। ॥७।१।२॥
रूपं गुणो वयस्-त्याग इति सुभगं-करणम्। ॥७।१।३॥
तगर-कुष्ठ-तालीस-पत्त्रकानुलेपनं सुभगं-करणम्। ॥७।१।४॥
एतैर् एव सु-पिष्टैर् वर्तिम् आलिप्याक्ष-तैलेन नरकपाले साधितम् अञ्जनं च। ॥७।१।५॥
पुनर् नवासहदेवीसारिवाकुरण्टोत्पल-पत्त्रैश् च सिद्धं तैलम् अभ्यञ्जनम्। ॥७।१।६॥
तद्-युक्ता एव स्रजश् च। ॥७।१।७॥
पद्मोत्पल-नागकेसराणां शोषितानां चूर्णं मधु-घृताभ्याम् अवलिह्य सुभगो भवति। ॥७।१।८॥
तान्य् एव नगरतालीस-तमाल-पत्त्र-युक्तान्य् अनुलिप्य। ॥७।१।९॥
मयूरस्याक्षि तरक्षोर् वा सुवर्णेनावलिप्य दक्षिण-हस्तेन धारयेद् ॥७।१।१०॥
इति सुभगं-करणम्((१८४))। ॥७।१।१०च्॥
तथा बादर-मणिं शङ्ख-मणिं च तथैव तेषु चाथर्वणान् योगान् गमयेत्। ॥७।१।११॥
विद्या-तन्त्राच् च विद्या-योगात् प्राप्त-यौवनां परिचारिकां स्वामी संवत्सर-मात्रम् अन्यतो वारयेत्। ततो वातितां बालां वामत्वाल् लालसी-भूतेषु गम्येषु यो ऽस्यै सङ्घर्षेण बहु दद्यात् तस्मै विसृजेद् इति सौभाग्य-वर्धनम्। ॥७।१।१२॥
गणिका प्राप्त-यौवनां स्वां दुहितरं तस्या विज्ञान-शील-रूपानुरूप्येण तान् अभिनिमन्त्र्य सारेण यो ऽस्या इदम् इदं च दद्यात् स पाणिं गृह्णीयाद् इति सम्भाष्य रक्षयेद् इति। ॥७।१।१३॥
सा च मातुर् अ-विदिता नाम नागरिक-पुत्रैर् धनिभिर् अत्य्-अर्थं प्रीयेत। ॥७।१।१४॥
तेषां कला-ग्रहणे गन्धर्व-शालायां भीक्षुकी-भवने तत्र तत्र च सन्दर्शन-योगाः। ॥७।१।१५॥
तेषां यथोक्त-दायिनां माता पाणिं ग्राहयेत्। ॥७।१।१६॥
तावद् अर्थम् अ-लभमाना तु स्वेनाप्य् एक-देशेन दुहित्र एतद् दत्तम् अनेनेति ख्यापयेत्। ॥७।१।१७॥
ऊढाया वा कन्या-भावं विमोचयेत्। ॥७।१।१८॥
प्रच्छन्नं वा तैः संयोज्य स्वयम् अ-जानती भूत्वा ततो विदितेष्व् एतं धर्मस्थेषु((१८५)) निवेदयेत्। ॥७।१।१९॥
सख्यैव तु दास्या वा मोचित-कन्या-भावां सु-गृहीत-काम-सूत्राम् आभ्यासिकेषु योगेषु प्रतिष्ठितां प्रतिष्ठिते वयसि सौभाग्ये च दुहितरम् अवसृजन्ति गणिका इति प्राच्योपचाराः। ॥७।१।२०॥
पाणि-ग्रहश् च संवत्सरम् अ-व्यभिचार्यस् ततो यथा कामिनी स्यात्। ॥७।१।२१॥
ऊर्ध्वम् अपि संवत्सरात् परिणीतेन निमन्त्र्यमाणा लाभम् अप्य् उत्सृज्य तां रात्रिं तस्यागच्छेत्। ॥७।१।२२॥
इति वेश्यायाः पाणि-ग्रहण-विधिः सौभाग्य-वर्धनं च। ॥७।१।२२च्॥
एतेन रङ्गोपजीविनां कन्या व्याख्याताः। ॥७।१।२३॥
तस्मै तु तां दद्युर् य एषां तूर्ये विशिष्टम् उपकुर्यात्। ॥७।१।२४॥

# ५९च् इति सु-भगं-करणम्((१८६))।