५८ अर्थानर्थानुबन्ध-संशय-विचार-प्रकरणम्

५८ अर्थानर्थानुबन्ध-संशय-विचार-प्रकरणम्

अर्थान् आचर्यमाणान् अनर्था अप्यनूद्भवन्त्य् अनुबन्धाः संशयाश् च((१७६))। ॥६।६।१॥
ते बुद्धि-दौर्बल्याद् अति-रागाद् अत्य्-अभिमानाद् अति-दम्भाद् अत्य्-आर्जवाद् अति-विश्वासाद् अति-क्रोधात् प्रमादात् साहसाद् दैव-योगाच् च स्युः। ॥६।६।२॥
तेषां फलं कृतस्य व्ययस्य निष्-फलत्वम् अन्-आयतिर् आगमिष्यतो ऽर्थस्य निवर्तनम् आप्तस्य निष्क्रमणं पारुष्यस्य प्राप्तिर् गम्यता शरीरस्य प्रघातः केशानां छेदनं पातनम् अङ्ग-वैकल्यापत्तिः। ॥६।६।३॥
तस्मात् तान् आदित एव परिजिहीर्षेद् अर्थ-भूयिष्ठांश् चोपेक्षेत। ॥६।६।४॥
अर्थो धर्मः काम इत्य् अर्थ-त्रिवर्गः। ॥६।६।५॥
अनर्थो ऽ-धर्मो द्वेष इत्य् अनर्थ-त्रिवर्गः। ॥६।६।६॥
तेष्व् आचर्यमाणेष्व् अन्यस्यापि निष्पत्तिर् अनुबन्धः। ॥६।६।७॥
सन्दिग्धायां तु फल-प्राप्तौ स्याद् वा न वेति शुद्ध-संशयः। ॥६।६।८॥
इदं वा स्याद् इदं वेति सङ्कीर्णः। ॥६।६।९॥
एकस्मिन् क्रियमाणे कार्ये कार्य-द्वयस्योत्पत्तिर् उभयतो-योगः। ॥६।६।१०॥
समन्ताद् उत्पत्तिः समन्ततो-योग इति तान् उदाहरिष्यामः। ॥६।६।११॥
विचारित-रूपो ऽर्थ-त्रिवर्गः। तद्-विपरीत एवानर्थ-त्रिवर्गः। ॥६।६।१२॥
यस्योत्तमस्याभिगमने प्रत्य्-अक्षतो ऽर्थ-लाभो ग्रहणीयत्वम् आयतिर् आगमः प्रार्थनीयत्वं चान्येषां स्यात् सो ऽर्थो ऽर्थानुबन्धः। ॥६।६।१३॥
लाभ-मात्रे कस्य चिद् अन्यस्य गमनं सो ऽर्थो निर्-अनुबन्धः। ॥६।६।१४॥
अन्यार्थ-परिग्रहे सक्ताद् आयति-च्छेदनम् अर्थस्य निष्क्रमणं लोक-विद्विष्टस्य वा नीचस्य गमनम् आयति-घ्नम् अर्थो ऽनर्थानुबन्धः। ॥६।६।१५॥
स्वेन व्ययेन शूरस्य महामात्रस्य प्रभवतो वा लुब्धस्य गमनं निष्-फलम् अपि व्यसन-प्रतीकारार्थं महतश् चार्थ-घ्नस्य निमित्तस्य प्रशमनम् आयति-जननं सो ऽनर्थो ऽर्थानुबन्धः। ॥६।६।१६॥
कदर्यस्य सुभग-मानिनः कृत-घ्नस्य वाति-सन्धान-शीलस्य स्वैर् अपि व्ययैस् तथाराधनम् अन्ते निष्-फलं सो ऽनर्थो निर्-अनुबन्धः। ॥६।६।१७॥
तस्यैव राज-वल्लभस्य क्रौर्य-प्रभावाधिकस्य तथैवाराधनम् अन्ते निष्-फलं निष्कासनं च दोष-करं सो ऽनर्थो ऽनर्थानुबन्धः। ॥६।६।१८॥
एवं धर्म-कामयोर् अप्य् अनुबन्धान् योजयेत्। ॥६।६।१९॥
परस्परेण च युक्त्या सङ्किरेद् ॥६।६।२०॥
इत्य् अनुबन्धाः((१७७))। ॥६।६।२०च्॥
परितोषितो ऽपि दास्यति न वेत्य् अर्थ-संशयः। ॥६।६।२१॥
निष्पीडितार्थम् अ-फलम् उत्सृजन्त्या अर्थम् अ-लभमानाया धर्मः स्यान् न वेति धर्म-संशयः। ॥६।६।२२॥
अभिप्रेतम् उपलभ्य परिचारकम् अन्यं वा क्षुद्रं गत्वा काअः स्यान् न वेति काम-संशयः। ॥६।६।२३॥
प्रभाववान् क्षुद्रो ऽनभिगतो ऽनर्थं करिष्यति न वेत्य् अनर्थ-संशयः। ॥६।६।२४॥
अत्य्-अन्त-निष्-फलः सक्तः परित्यक्तः पितृ-लोकं यायात् तत्रा-धर्मः स्यान् न वेत्य् अ-धर्म-संशयः। ॥६।६।२५॥
रागस्यापि विवक्षायाम् अभिप्रेतमन्-उपलभ्य विरागः स्यान् न वेति द्वेष-संशयः। ॥६।६।२६॥
इति शुद्ध-संशयाः। ॥६।६।२६च्॥
अथ सङ्कीर्णाः((१७८))। ॥६।६।२७॥
आगन्तोर् अ-विदित-शीलस्य वल्लभ-संश्रयस्य प्रभविष्णोर् वा समुपस्थितस्याराधनम् अर्थो ऽनर्थ इति संशयः। ॥६।६।२८॥
श्रोत्रियस्य ब्रह्मचारिणो दीक्षितस्य व्रतिनो लिङ्गिनो वा मां दृष्ट्वा जात-रागस्य मुमूर्षोर् मित्र-वाक्याद् आनृशंस्याच् च गमनं धर्मो ऽ-धर्म इति संशयः॥६।६।३० लोकाद् एवा-कृत-प्रत्ययाद् अ-गुणो गुणवान् वेत्य् अनवेक्ष्य गमनं कामो द्वेष इति संशयः। ॥६।६।२९॥
सङ्किरेच् च परस्परेण। ॥६।६।३१॥
इति सङ्कीर्ण-संशयाः। ॥६।६।३१च्॥
यत्र परस्याभिगमने ऽर्थः सक्ताच् च सङ्घर्षतः स उभयतो ऽर्थः। ॥६।६।३२॥
यत्र स्वेन व्ययेन निष्-फलम् अभिगमनं सक्ताच् चा-मर्षिताद् वित्त-प्रत्यादानं स उभयतो ऽनर्थः। ॥६।६।३३॥
यत्राभिगमने ऽर्थो भविष्यति न वेत्य् आशङ्का सक्तो ऽपि सङ्घर्षाद् दास्यति न वेति स उभयतो ऽर्थ-संशयः। ॥६।६।३४॥
यत्राभिगमने व्ययवति पूर्वो विरुद्धः क्रोधाद् अपकारं करिष्यति न वेति सक्तो वामर्षितो दत्तं प्रत्य्-आदास्यति न वेति स उभयतो ऽनर्थ-संशयः। ॥६।६।३५॥
इत्य् औद्दालकेर् उभयतो-योगाः। ॥६।६।३५च्॥
बाभ्रवीयास् तु((१७९))। ॥६।६।३६॥
यत्राभिगमने ऽर्थो ऽनभिगमने च सक्ताद् अर्थः स उभयतो-ऽर्थः। ॥६।६।३७॥
यत्राभिगमने निष्-फलो व्ययो ऽनभिगमने च निष्-प्रतीकारो ऽनर्थः स उभयतो-ऽनर्थः ॥६।६।३८॥
यत्राभिगमने निर्-व्ययो दास्यति न वेति संशयो ऽनभिगमने सक्तो दास्यति न वेति स उभयतो-ऽर्थ-संशयः। ॥६।६।३९॥
यत्राभिगमने व्ययवति पूर्वो विरुद्धः प्रभाववान् प्राप्स्यते न वेति संशयो ऽनभिगमने च क्रोधाद् अनर्थं करिष्यति न वेति स उभयतो-ऽनर्थ-संशयः। ॥६।६।४०॥
एतेषाम् एव व्यतिकरे ऽन्यतो ऽर्थो ऽन्यतो ऽनर्थः अन्यतो ऽर्थो ऽन्यतो ऽर्थ-संशयः अन्यतो ऽर्थो ऽन्यतो ऽनर्थ-संशयः। ॥६।६।४१॥
इति षट्-सङ्कीर्ण-योगाः। ॥६।६।४१च्॥
तेषु सहायैः सह विमृश्य यतो ऽर्थ-भूयिष्ठो ऽर्थ-संशयो गुरुर् अनर्थ-प्रशमो वा ततः प्रवर्तेत। ॥६।६।४२॥
एवं धर्म-कामाव् अप्य् अनयैव युक्त्योदाहरेत्((१८०))। सङ्किरेच् च परस्परेण व्यतिषञ्जयेच् च ॥६।६।४३॥
इत्य् उभयतो-योगाः। ॥६।६।४३च्॥
सम्भूय च विटाः परिगृह्णान्त्य् एकाम् असौ गोष्ठी-परिग्रहः। ॥६।६।४४॥
सा तेषाम् इतस् ततः संसृज्यमाना प्रत्य्-एकं सङ्घर्षाद् अर्थं निर्वर्तयेत्। ॥६।६।४५॥
सु-वसन्तकादिषु च योगे यो मे इमम् अमुं च सम्पादयिष्यति तस्याद्य गमिष्यति मे दुहितेति मात्रा वाचयेत्। ॥६।६।४६॥
तेषां च सङ्घर्षजे ऽभिगमने कार्याणि लक्षयेत्। ॥६।६।४७॥
एकतो ऽर्थः सर्वतो ऽर्थः एकतो ऽनर्थः सर्वतो ऽनर्थः। अर्धतो ऽर्थः सर्वतो ऽर्थः अर्धतो ऽनर्थः सर्वतो ऽनर्थः। ॥६।६।४८॥
इति समन्ततो योगाः। ॥६।६।४८च्॥
अर्थ-संशयम् अनर्थ-संशयं च पूर्ववद् योजयेत्। सङ्किरेच् च तथा धर्म-कामाव् अपि। ॥६।६।४९॥
इत्य् अर्थानर्थानुबन्ध-संशय-विचाराः((१८१))। ॥६।६।४९च्॥
कुम्भदासी परिचारिका कुलटा स्वैरिणी नटी शिल्पकारिका प्रकाशविनष्टा रूपाजीवा गणिका चेति वेष्या-विशेषाः। ॥६।६।५०॥
सर्वासां चानुरूपेण गम्याः सहायास् तस्-उपरञ्जनम् अर्थागमोपाया निष्कासनं पुनः सन्धानं लाभ-विशेषानुबन्धा अर्थानर्थानुबन्ध-संशय-विचाराश् च ॥६।६।५१॥

# ५८ इति वैशिकम्((१८२))।
भवतश् चात्र श्लोकौ ॥६।६।५२॥
रत्य्-अर्थाः पुरुषा येन रत्य्-अर्थाश् चैव योषितः। शास्त्रस्यार्थ-प्रधानत्वात् तेन योगो ऽत्र योषिताम्॥ ॥६।६।५२व्॥
सन्ति राग-परा नार्यः सन्ति चार्थ-परा अपि। प्राक् तत्र वर्णितो रागो वेश्या-योगाश् च वैशिके((१८३))॥ ॥६।६।५३व्॥

इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठे ऽधिकरणे ऽथानर्थानुबन्ध-संशय-विचारा वेश्या-विशेषाश् च षष्ठो ऽध्यायः॥ ॥६।६च्॥