५७ लाभ-विशेष-प्रकरणम्
गम्य-बाहुल्ये बहु प्रति-दिनं च लभमाना नैकं प्रतिगृह्णीयात्। ॥६।५।१॥
देशं कालं स्थितिम् आत्मनो गुणान् सौभाग्यं चान्याभ्यो न्यूनातिरिक्तां चावेक्ष्य रजन्याम्((१७४)) अर्थं स्थापयेत्। ॥६।५।२॥
गम्ये दूतांश् च प्रयोजयेत्। तत्-प्रतिबद्धांश् च स्वयं प्रहिणुयात्। ॥६।५।३॥
द्विस् त्रिश् चतुर् इति लाभातिशय-ग्रहार्थम् एकस्यापि गच्छेत्। परिग्रहं च चरेत्। ॥६।५।४॥
गम्य-यौगपद्ये तु लाभ-साम्ये यद् द्रव्यार्थिनी स्यात् तद् दायिनि विशेषः प्रत्य्-अक्ष इत्य् आचार्याः। ॥६।५।५॥
अ-प्रत्य्-आदेयत्वात् सर्व-कार्याणां तन्-मूलत्वाद् हिरण्य-द इति वात्स्यायनः। ॥६।५।६॥
सुवर्ण-रजत-ताम्र-कांस्य-लोह-भाण्डोपस्कारास्तरण-प्रावरण-वासो-विशेष-गन्ध-द्रव्य- कटुक-भाण्ड-वृत-तैल-धान्य-पशु-जातीनां पूर्व-पूर्वतो विशेषः। ॥६।५।७॥
यत् तत्र साम्याद् वा द्रव्य-साम्ये मित्र-वाक्याद् अति-पातित्वाद् आयतितो गम्य-गुणतः प्रीतितश् च विशेषः। ॥६।५।८॥
रागि-त्यागिनोस् त्यागिनि विशेषः प्रत्यक्ष इत्य् आचार्याः। ॥६।५।९॥
शक्यो हि रागिणि त्याग आधातुम्। ॥६।५।१०॥
लुब्धो ऽपि हि रक्तस् त्यजति न तु त्यागी निर्बन्धाद् राज्यत इति वात्स्यायनः। ॥६।५।११॥
तत्रापि धनवद्-अ-धनवतोर् धनवति विशेषः। त्यागि-प्रयोजन-कर्त्रोः प्रयोजन-कर्तरि विशेषः प्रत्यक्ष इत्य् आचार्याः। ॥६।५।१२॥
प्रयोजन-कर्ता सकृत् कृत्वा कृतिनम् आत्मानं मन्यते त्यागी पुनर् अतीतं नापेक्षत इति वात्स्यायनः। ॥६।५।१३॥
तत्राप्य् आत्ययिकतो विशेषः। ॥६।५।१४॥
कृतज्ञ-त्यागिनोस् त्यागिनि विशेषः प्रत्यक्ष इत्य् आचार्याः। ॥६।५।१५॥
चिरम् आराधितो ऽपि त्यागी व्यलीकम् एकम् उपलभ्य प्रतिगणिकया वा मिथ्या-दूषितः श्रमम् अतीतं नापेक्षते। ॥६।५।१६॥
प्रायेण हि तेजस्विन ऋजवो ऽन्-आदृताश् च त्यागिनो भवन्ति। ॥६।५।१७॥
कृतज्ञस् तु पूर्व-श्रमापेक्षी न सहसा विरज्यते। परीक्षित-शीलत्वाच् च न मिथ्या दूष्यत इति वात्स्यायनः। ॥६।५।१८॥
तत्राप्य् आयतितो विशेषः। ॥६।५।१९॥
मित्र-वचनार्थागमयोर् अर्थागमे विशेषः प्रत्यक्ष इत्य् आचार्याः। ॥६।५।२०॥
सो पि ह्य् अर्थागामो भविता। मित्रं तु सकृद्-वाक्ये प्रतिहते कलुषितं स्याद् इति वात्स्यायनः। ॥६।५।२१॥
तत्राप्य् अतिपाततो विशेषः। ॥६।५।२२॥
तत्र कार्य-सन्दर्शनेन मित्रम् अनुनीय श्वो-भूते वचनम् अस्त्व् इति ततो ऽतिपातिनम् अर्थं प्रतिगृह्णीयात्। ॥६।५।२३॥
अर्थागमानर्थ-प्रतिघातयोर् अर्थागमे विशेषः प्रत्यक्ष इत्य् आचार्याः। ॥६।५।२४॥
अर्थः परिमितावच्छेदः अनर्थः पुनः सकृत्-प्रसृतो न ज्ञायते क्वावतिष्ठत इति वात्स्यायनः। ॥६।५।२५॥
तत्रापि गुरु-लाघव-कृतो विशेषः। ॥६।५।२६॥
एतेनार्थ-संशयाद् अनर्थ-प्रतीकारे विशेषो व्याख्यातः। ॥६।५।२७॥
देव-कुल-तडागारामाणां करणम् स्थलीनाम् अग्नि-चैत्यानां निबन्धनम् गो-सहस्राणां पात्रान्तरितं ब्राह्मणेभ्यो दानम् देवतानां पूजोपहार-प्रवर्तनम् तद्-व्यय-सहिष्णोर् वा धनस्य परिग्रहणम् इत्य् उत्तम-गणिकानां लाभातिशयः। ॥६।५।२८॥
सार्वाङ्गिको ऽकङ्कार-योगो गृहस्योदारस्य करणम्। महार्हैर् भाण्डैः परिचारकैश् च गृह-परिच्छादस्योज्ज्वलतेति रूप-जीवानां लाभातिशयः। ॥६।५।२९॥
नित्यं शुक्लम् आच्छादनम् अपक्षुदम् अन्न-पानं नित्यं सौगन्धिकेन ताम्बूलेन च योगः स-हिरण्य-भागम् अलङ्करणम् इति कुम्भ-दासीनां लाभातिशयः। ॥६।५।३०॥
एतेन प्रदेशेन मध्यमाधमानाम् अपि लाभातिशयान् सर्वासाम् एव योजयेद् इत्य् आचार्याः। ॥६।५।३१॥
देश-काल-विभाव-सामर्थ्यानुराग-लोक-प्रवृत्ति-वशाद् अ-नियत-लाभाद् इयम् अ-वृत्तिर् इति वात्स्यायनः। ॥६।५।३२॥
गम्यम् अन्यतो निवारयितु-कामा सक्तम् अन्यस्याम् अपहर्तु-कामा वा अन्यां वा लाभतो वियुयुक्षमाणा-गम्य-संसर्गाद् आत्मनः स्थानं वृद्धिम् आयतिम् अभिगम्यतां च मन्यमाना अनर्थ-प्रतीकारे वा साहाय्यम् एनं कारयितु-कामा सक्तस्य वान्यस्य व्यलीकार्थिनी पूर्वोपकारम् अ-कृतम् इव पश्यन्ती केवल-प्रीत्य्-अर्थिनी वा कल्याण-बुद्धेर् अल्पम् अपि लाभं प्रतिगृह्णीयात्। ॥६।५।३३॥
आयत्य्-अर्थिनी तु तम् आश्रित्य चानर्थं प्रतिचिकीर्षन्ती नैव प्रतिगृह्णीयात्। ॥६।५।३४॥
त्यक्ष्याम्य् एनम् अन्यतः प्रतिसन्धास्यामि गमिष्यति दारैर् योक्ष्यते नाशयिष्यत्य् अनर्थान् अङ्कुश-भूत उत्तराध्यक्षो ऽस्यागमिष्यति स्वामी पिता वा स्थान-भ्रंशो वास्य भविष्यति चल-चित्तश् चेति मन्यमाना तदात्वे तस्माल् लाभम् इच्छेत्॥६।५।३६ प्रतिज्ञातम् ईश्वरेण प्रतिग्रहं लप्स्यते अधिकरणं स्थानं वा प्राप्स्यति वृत्ति-कालो ऽस्य वा आसन्नः वाहनम् अस्यागमिष्यति स्थल-पत्त्रं वा सस्यम् अस्य पक्ष्यते कृतम् अस्मिन् न नश्यति नित्यम् अ-विसंवादको वेत्य् आयत्याम् इच्छेत्। परिग्रह-कल्पं वाचरेत्। ॥६।५।३५॥
भवन्ति चात्र श्लोकाः ॥६।५।३७॥
कृच्छ्राधिगत-वित्तांश् च राज-वल्लभ-निष्ठुरान्। आयत्यां च तदात्वे च दूराद् एव विवर्जयेत्॥ ॥६।५।३७व्॥
अ-अर्थो वर्जने येषां गमने ऽभ्युदयस् तथा। प्रयत्नेनापि तान् गृह्य सापदेशम् उपक्रमेत्॥ ॥६।५।३८व्॥
प्रसन्ना ये प्रयच्छन्ति स्व्-अल्पे ऽप्य् अ-गणितं वसु। स्थूल-लक्षान् महोत्साहांस् तान् गच्छेत् स्वैर् अपि व्ययैः((१७५))॥ ॥६।५।३९व्॥
इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठे ऽधिकरणे लाभ-विशेषाः पञ्चमो ऽध्यायः। ॥६।५च्॥