५६ विशीर्ण-प्रतिसन्धान-प्रकरणम्
वर्तमानं निष्पीडितार्थम् उत्सृजन्ती पूर्व-संसृष्टेन सह सन्दध्यात्। ॥६।४।१॥
स चेद् अवसितार्थो वित्तवान् सानुरागश् च ततः सन्धेयः। ॥६।४।२॥
अन्यत्र गतस् तर्कयितव्यः। स कार्य-युक्त्या षड्-विधः। ॥६।४।३॥
इतः स्वयम् अपसृतस् ततो ऽपि स्वयम् एवापसृतः [१]॥६।४।५ इतस् ततश् च निष्कासितापसृतः [२।] ॥६।४।४॥
इतः स्वयम् अपसृतस् ततो निष्कासितापसृतः [३]। ॥६।४।६॥
इतः स्वयम् अपसृतस् तत्र स्थितः [४]। ॥६।४।७॥
इतो निष्कासितापसृतस् ततः स्वयम् अपसृतः [५]। ॥६।४।८॥
इतो निष्कासितापसृतस् तत्र स्थितः [६]। ॥६।४।९॥
इतस् ततश् च स्वयम् एवापसृत्योपजपति चेद् उभयोर् गुणान् अपेक्षी चल-बुद्धिर् अ-सन्धेयः [१]। ॥६।४।१०॥
इतस् ततश् च निष्कासितापसृतः स्थिर-बुद्धिः। स चेद् अन्यतो बहु लभमानया निष्कासितः स्यात् स-सारो ऽपि तया रोषितो ममा-मर्षाद् बहु दास्यतीति सन्धेयः [२अ]। ॥६।४।११॥
निःसारतया कदर्यतया वा त्यक्तो न श्रेयान् [२ब्]। ॥६।४।१२॥
इतः स्वयम् अपसृतस् ततो निष्कासितापसृतो यद्य् अतिरिक्तम् आदौ च दद्यात् ततः प्रतिग्राह्यः [३]। ॥६।४।१३॥
इतः स्वयम् अपसृत्य तत्र स्थित उपजपंस् तर्कयितव्यः। ॥६।४।१४॥
विशेषार्थी चागतस् ततो विशेषम् अ-पस्यन्न् आगन्तु-कामो मयि मां जिज्ञासितु-कामः सा आगत्य सानुरागत्वाद् दास्यति। तस्यां वा दोषान् दृष्ट्वा मयि भूयिष्ठान् गुणान् अधुना पश्यति स गुण-दर्शी भूयिष्ठं दस्याति [४अ]। ॥६।४।१५॥
बालो वा नैकत्र-दृष्टिर् अतिसन्धान-प्रधानो वा हरिद्रा-रागो वा यत्-किं-चन-कारी वेत्य् अवेत्य सन्दध्यान् न वा [४ब्]। ॥६।४।१६॥
इतो निष्कासितापसृतस् ततः स्वयम् उपसृत उपजपंस् तर्कयितव्यः। ॥६।४।१७॥
अनुरागाद् आगन्तु-कामः स बहु दास्यति। मम गुणैर् भावितो यो ऽन्यस्यां न रमते [५अ]। ॥६।४।१८॥
पूर्वम् अ-योगेन वा मया निष्कासितः स मां शीलयित्वा वैरं निर्यातयितु-कामो धनम् अभियोगाद् वा मयास्यापहृतं तद्-विश्वास्य प्रतीपम् आदातु-कामो निर्वेष्टु-कामो वा मां वर्तमानाद् भेदयित्वा त्यक्तु-काम इत्य् अ-कल्याण-बुद्धिर् अ-सन्धेयः [५ब्]। ॥६।४।१९॥
अन्यथा-बुद्धिः कालेन लम्भयितव्यः [५च्]। ॥६।४।२०॥
इतो निष्कासितस् तत्र स्थित उपजपन्न् एतेन व्याख्यातः [६]। ॥६।४।२१॥
तेषूपजपत्स्व् अन्यत्र स्थितः स्वयम् उपजपेत्। ॥६।४।२२॥
व्यालीकार्थं निष्कासितो मयासाव् अन्यत्र गतो यत्नाद् आनेतव्यः। ॥६।४।२३॥
इतः प्रवृत्त-सम्भाषो वा ततो भेदम् अवाप्स्यति। ॥६।४।२४॥
तद्-अर्थाभिघातं करिष्यति। ॥६।४।२५॥
अर्थागम-काले वास्य। स्थान-वृद्धिर् अस्य जाता। लब्धम् अनेनाधिकरणम्। दारैर् वियुक्तः पारतन्त्र्याद् व्यावृत्तः। पित्रा भ्रात्रा वा विभक्तः। ॥६।४।२६॥
अनेन वा प्रतिबद्धम् अनेन सन्धिं कृत्वा नायकं धनिनम् अवाप्स्यामि। ॥६।४।२७॥
विमानिता वा भार्यया तम् एव तस्यां विक्रमयिष्यामि। ॥६।४।२८॥
अस्य वा मित्रं मद्-द्वेषिणींस-पत्नीं कामयते तद् अमुना भेदयिष्यामि। ॥६।४।२९॥
चल-चित्ततया वा लाघवम् एनम् आपादयिष्यामीति। ॥६।४।३०॥
तस्य पीठमर्दादयो मातुर् दौःशील्येन नायिकायाः सत्य् अप्य् अनुरागे विवशायाः पूर्वं निष्कासनं वर्णयेयुः। ॥६।४।३१॥
वर्तमानेन चा-कामायाः संसर्गं विद्वेषं च। ॥६।४।३२॥
तस्याश् च साभिज्ञानैः पूर्वानुरागैर् एनं प्रत्यापयेयुः। ॥६।४।३३॥
अभिज्ञानं च त-कृतोपकार-सम्बद्धं स्याद् ॥६।४।३४॥
# ५६ इति विशीर्ण-प्रतिसन्धानम्((१७२))।
अ-पूर्व-पूर्व-संसृष्टयोः पूर्व-संसृष्टः श्रेयान्। स हि विदित-शीलो दृष्ट-रागश् च सूपचारो भवतीत्य् आचार्याः। ॥६।४।३५॥
पूर्व-संसृष्टः सर्वतो निष्पीडितार्थत्वान् नात्य्-अर्थम् अर्थ-दो दुःखं च पुनर् विश्वासयितुम्। अ-पूर्वस् तु सुखेनानुरज्यत इति वात्स्यायनः। ॥६।४।३६॥
तथापि पुरुष-प्रकृतितो विशेषः। ॥६।४।३७॥
भवन्ति चात्र श्लोकाः ॥६।४।३८॥
अन्यां भेदयितुं गम्याद् अन्यतो गम्यम् एव वा। स्थितस्य चोपघातार्थं पुनः सन्धानम् इष्यते॥ ॥६।४।३८व्॥
बिभेत्य् अन्यस्य संयोगाद् व्यालीकानि च नेक्षते। अति-सक्तः पुमान् यत्र बयाद् बहु ददाति च॥ ॥६।४।३९व्॥
अ-सक्तम् अभिनन्देत सक्तं परिभवेत् तथा। अन्य-दूतानुपाते च यः स्याद् अति-विशारदः॥ ॥६।४।४०व्॥
तत्रोपयायिनं पूर्वं नारी कालेन योजयेत्। भवेच् चा-च्छिन्न-सन्धाना न च सक्तं परित्यजेत्॥ ॥६।४।४१व्॥
सक्तं तु वशिनं नारी सम्भाव्याप्य् अन्यतो व्रजेत्। ततश् चार्थम् उपादाय सक्तम् एवानुरञ्जयेत्॥ ॥६।४।४२व्॥
आयतिं प्रसमीक्ष्यादौ लाभं प्रीतिं च पुष्कलाम्। सौहृदं प्रतिसन्दध्याद् विशीर्णं स्त्री विचक्षणा((१७३))॥ ॥६।४।४३व्॥
इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठे ऽधिकरणे विशीर्ण-प्रतिसन्धानं चतुर्थो ऽध्यायः॥ ॥६।४च्॥