सक्तं तु पूर्वोपकारिणम् अप्य् अल्प-फलं व्यालीकेनानुपालयेत्। ॥६।३।३९॥
अ-सारं तु निष्प्रतिपत्तिकम् उपायतो ऽपवाहयेत्। अन्यम् अवष्टभ्य। ॥६।३।४०॥
तद्-अन्-इष्ट-सेवा। निन्दिताभ्यासः। ओष्ठ-निर्भोगः। पादेन भूमेर् अभिघातः। अ-विज्ञात-विषयस्य सङ्कथा। तद्-विज्ञातेष्व् अ-विस्मयः कुत्सा च। दर्प-विघातः अधिकैः सह संवासः। अनपेक्षणम्। समान-दोषाणां निन्दा। रहसि चावस्थानम्। ॥६।३।४१॥
जुगुप्सा। परिष्वङ्गे भुजमय्या सूच्या व्यवधानम्। स्तब्धता गात्राणाम्। सक्थ्नोर् व्यत्यासः। निद्रा-परत्वं च। श्रान्तम् उपलभ्य चोदना। अ-शक्तौ हासः। शक्ताव् अनभिनन्दनम्। दिवापि। भावम् उपलभ्य महाजनाभिगमनम्। ॥६।३।४२॥
वाक्येषु च्छल-ग्रहणम्। अ-नर्मणि हासः। नर्मणि चान्यम् अपदिश्य हसति वदति तस्मिन् कटाक्षेण परिजनस्य प्रेक्षणं ताडनं च। आहत्य चास्य कथाम् अन्याः कथाः। तद्-व्यालीकानां व्यसनानां चा-परिहार्याणाम् अनुकीर्तनम्। मर्मणां च चेटिकयोपक्षेपणम्। ॥६।३।४३॥
आगते चा-दर्शनम्। अ-याच्य-याचनम्। अन्ते स्वयं मोक्षश् चेति परिग्रहकस्येति दत्तकस्य। ॥६।३।४४॥
भवतश् चात्र श्लोकौ ॥६।३।४५॥
परीक्ष्य गम्यैः संयोगः संयुक्तस्यानुरञ्जनम्। रक्ताद् अर्थस्य चादानम् अन्ते मोक्षश् च वैशिकम्॥ ॥६।३।४५व्॥
एवम् एतेन कल्पेन स्थिता वेश्या परिग्रहे। नातिसन्धीयते गम्यैः करोत्य् अर्थांश् च पुष्कलान्((१७१))॥ ॥६।३।४६व्॥
इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठे ऽधिकरणे ऽर्थागमोपाया विरक्त-लिङ्गानि विरक्त-प्रतिपत्तिर् निष्कासन-क्रमास् तृतीयो ऽध्यायः। ॥६।३च्॥