वि-रक्तं च नित्यम् एव प्रकृति-विक्रियातो विद्यान् मुख-वर्णाच् च। ॥६।३।२७॥
ऊनम् अतिरिक्तं वा ददाति। ॥६।३।२८॥
प्रतिलोमैः सम्बध्यते। ॥६।३।२९॥
व्यपदिश्यान्यत् करोति। ॥६।३।३०॥
उचितम् आच्छिनत्ति। ॥६।३।३१॥
प्रतिज्ञातं विस्मरति। अन्यथा वा योजयति। ॥६।३।३२॥
स्व्-पक्षैः सञ्ज्ञया भाषते। ॥६।३।३३॥
मित्र-कार्यम् अपदिश्यान्यत्र शेते। ॥६।३।३४॥
पूर्व-संसृष्टायाश् च परिजनेन मिथः कथयति। ॥६।३।३५॥
तस्य सार-द्रव्याणि प्राग् अवबोधाद् अन्यापदेशेन हस्ते कुर्वीत। ॥६।३।३६॥
तानि चास्या हस्ताद् उत्तम-र्णः प्रसह्य गृह्णीयात्। ॥६।३।३७॥
विवदमानेन सह धर्मस्थेषु((१६९)) व्यवहरेद् ॥६।३।३८॥
# ५४ इति विरक्त-प्रतिपत्तिः((१७०))।