५३ अर्थागमोपाय-प्रकरणम्

५३ अर्थागमोपाय-प्रकरणम्

सक्ताद् वित्तादानं स्वाभाविकम् उपायतश् च। ॥६।३।१॥
तत्र स्वाभाविकं सङ्कल्पात् समधिकं वा लभमाना नोपायान् प्रयुञ्जीतेत्य् आचार्याः। ॥६।३।२॥
विदितम् अप्य् उपायैः परिष्कृतं द्वि-गुणं दास्यतीति वात्स्यायनः। ॥६।३।३॥
अलङ्कार-भक्ष्य-भोज्य-पेय-माल्य-वस्त्र-गन्ध-द्रव्यादीनां व्यवहारिषु कालिकम् उद्धारार्त्थम् अर्थ-प्रतिनयनेन। ॥६।३।४॥
तत्-समक्षं तद्-वित्त-प्रशंसा। ॥६।३।५॥
व्रत-वृक्षाराम-देवकुल-तडागोद्यानोत्सव-प्रीति-दाय-व्यपदेशः। ॥६।३।६॥
तद्-अभिगमन-निमित्तो रक्षिभिश् चौरैर् वालङ्कार-परिमोषः। ॥६।३।७॥
दाहात् कुड्य-च्छेदात् प्रमादाद् भवने चार्थ-नाशः। ॥६।३।८॥
तथा याचितालङ्काराणां नायकालङ्काराणां च तद्-अभिगमनार्थस्य व्ययस्य प्रणिधिभिर् निवेदनम्। ॥६।३।९॥
तद्-अर्थम् ऋण-ग्रहणम्। जनन्या सह तद्-उद्भवस्य व्ययस्य विवादः॥६।३।११ सुहृत्-कार्येष्व् अनभिगमनम् अनभिहार-हेतोः। ॥६।३।१०॥
तैश् च पूर्वम् आहृता गुरवो ऽभिहाराः पूर्वम् उपनीताः पूर्वं श्राविताः स्युः। ॥६।३।१२॥
उचितानां क्रियाणां विच्छित्तिः। ॥६।३।१३॥
नायकार्थं च शिल्पिषु कार्यम्। ॥६।३।१४॥
वैद्य-महामात्रयोर् उपकार-क्रिया कार्य-हेतोः। ॥६।३।१५॥
मित्राणां चोपकारिणां व्यसनेष्व् अभ्युपपत्तिः। ॥६।३।१६॥
गृह-कर्म सख्याः पुत्रस्योत्सञ्जनम् दोहदो व्याधिर् मित्रस्य दुःखापनयनम् इति। ॥६।३।१७॥
अलङ्कारैक-देश-विक्रयो नायकस्यार्थे। ॥६।३।१८॥
तया शीलितस्य चालङ्कारस्य भाण्डोपस्करस्य वा वणिजो विक्रयार्थं दर्शनम्। ॥६।३।१९॥
प्रति-गणिकानां च सदृशस्य भाण्डस्य व्यतिकरे प्रतिविशिष्टस्य ग्रहणम्। ॥६।३।२०॥
पूर्वोपकाराणाम् अ-विस्मरणम् अनुकीर्तनं च। ॥६।३।२१॥
प्रणिधिभिः प्रति-गणिकानां लाभातिशयं श्रावयेत्। ॥६।३।२२॥
तासु नायक-समक्षम् आत्मनो ऽभ्यधिकं लाभं भूतम् अ-भूतं वा व्रीडिता नाम वर्णयेत्। ॥६।३।२३॥
पूर्व-योगिनां च लाभातिशयेन पुनः सन्धाने यतमानानाम् आविष्-कृतः प्रतिषेधः। ॥६।३।२४॥
तत्-स्पर्धिनां त्याग-योगिनां निदर्शनम्। ॥६।३।२५॥
न पुनर् एष्यतीति बाल-याचितकम्। ॥६।३।२६॥

# ५३ इत्य् अर्थागमोपायाः((१६८))।