५२ कान्तानुवृत्त-प्रकरणम्
संयुक्ता नायकेन तद्-रण्जनार्थम् एकचारिणी-वृत्तम् अनुतिष्ठेत्((१६६))। ॥६।२।१॥
रञ्जयेन् न तु सज्जेत सक्तवच् च विचेष्टेतेति सङ्क्षेपोक्तिः। ॥६।२।२॥
मातरि च क्रूर-शीलायाम् अर्थ-परायां चायत्ता स्यात्। ॥६।२।३॥
तद्-अ-भावे मातृकायाम्। ॥६।२।४॥
सा तु गम्येन नातिप्रीयेत। ॥६।२।५॥
प्रसह्य च दुहितरम् आनयेत्। ॥६।२।६॥
तत्र तु नायिकायाः सन्ततम् अ-रतिर् निर्वेदो व्रीडां भयं च। ॥६।२।७॥
न त्व् एव शासनातिवृत्तिः। ॥६।२।८॥
व्याधिं चैकम् अ-निमित्तम् अ-जुगुप्सितम् अ-चक्षुर्-ग्राह्यम् अ-नित्यं च ख्यापयेत्। ॥६।२।९॥
सति कारणे तद्-अपदेशं च नायकानभिगमनम्। ॥६।२।१०॥
निर्-माल्यस्य तु नायिका चेटिकां प्रेषयेत् ताम्बूलस्य च। ॥६।२।११॥
व्यवाये तद्-उपचारेषु विस्मयः। ॥६।२।१२॥
चतुःषष्ट्यां शिष्यत्वम्। ॥६।२।१३॥
तद्-उपदिष्टानां च योगानाम् आभीक्ष्ण्येनानुयोगः। ॥६।२।१४॥
तत्-सात्म्याद् रहसि वृत्तिः। ॥६।२।१५॥
मनोरथानाम् आख्यानम्। ॥६।२।१६॥
गुह्यानां वैकृत-प्रच्छादनम्। ॥६।२।१७॥
शयने परावृत्तस्यानुपेक्षणम्। ॥६।२।१८॥
आनुलोम्यं गुह्य-स्पर्शने। ॥६।२।१९॥
सुप्तस्य चुम्बनम् आलिङ्गनं च। ॥६।२।२०॥
प्रेक्षणम् अन्य-मनस्कस्य। राज-मार्गे च प्रासाद-स्थायास् तत्र विदिताया व्रीडा शाठ्य-नाशः। ॥६।२।२१॥
तद्-द्वेष्ये द्वेष्यता। तत्-प्रिये प्रियता। तद्-रम्य रतिः। तम् अनु हर्ष-शोकौ। स्त्रीषु जिज्ञासा। कोपश् चा-दीर्गः। ॥६।२।२२॥
स्व-कृतेष्व् अपि नख-दशन-चिह्नेष्व् अन्याशङ्का। ॥६।२।२३॥
अनुरगस्या-वचनम्। ॥६।२।२४॥
आकारतस् तु दर्शयेत्। ॥६।२।२५॥
मद-स्वप्न-व्याधिषु तु निर्वचनम्। ॥६।२।२६॥
श्लाघ्यानां नायक-कर्मणां च। ॥६।२।२७॥
तस्मिन् ब्रुवाणे वाक्यार्थ-ग्रहणम्। तद् अवधार्य प्रशंसाविषये भाषणम्। तद्-वाक्यस्य चोत्तरेण योजनम्। भक्तिमांश् चेत्। ॥६।२।२८॥
कथास्व् अनुवृत्तिर् अन्यत्र स-पत्न्याः। ॥६।२।२९॥
निःश्वासे जृम्भते स्खलिते पतिते वा तस्य चार्तिम् आशंसीत। ॥६।२।३०॥
क्षुत-व्याहृत-विस्मितेषु जीवेत्य् उदाहरणम्। ॥६।२।३१॥
दौर्मनस्ये व्याधि-दौर्हृदापदेशः। ॥६।२।३२॥
गुणतः परस्या-कीर्तनम्। ॥६।२।३३॥
न निन्दा समान-दोषस्य। ॥६।२।३४॥
दत्तस्य धारणम्। ॥६।२।३५॥
वृथापराधे तद्-व्यसने वालङ्कारस्या-ग्रहणम् अ-भोजनं च। ॥६।२।३६॥
तद्-युक्ताश् च विलापाः। ॥६।२।३७॥
तेन सह देश-मोक्षं रोचयेत् राजनि निष्क्रयं च। ॥६।२।३८॥
सामर्थ्यम् आयुष्यस् तद्-अवाप्तौ। ॥६।२।३९॥
तस्यार्थाधिगमे ऽभिप्रेत-सिद्धौ शरीरोपचये वा पूर्व-सम्भाषित इष्ट-देवतोपहारः। ॥६।२।४०॥
नित्यम् अलङ्कार-योगः। परिमितो ऽभ्यवहारः॥६।२।४२ गीते च नाम-गोत्रयोर् ग्रहणम्। ग्लान्याम् उरसि ललाटे च करं कुर्वीत। तत्-सुखम् उपलभ्य निद्रा-लाभः। ॥६।२।४१॥
औत्सङ्गे चास्योपवेशनं स्वपनं च। गमनं वियोगे। ॥६।२।४३॥
तस्मात् पुत्रार्थिनी स्यात्। आयुषो नाधिक्यम् इच्छेत्। ॥६।२।४४॥
एतस्या-विज्ञातम् अर्थं रहसि न ब्रूयात्। ॥६।२।४५॥
व्रतम् उपवासं चास्य निर्वर्तयेत् मयि दोष इति। अ-शक्ये स्वयम् अपि तद्-रूपा स्यात्। ॥६।२।४६॥
विवादे तेनाप्य् अ-शक्यम् इत्य् अर्थ-निर्देशः। ॥६।२।४७॥
तदीयम् आत्मीयं वा स्वयम् अ-विशेषेण पश्येत्। ॥६।२।४८॥
तेन विना गोष्ठ्य्-आदीनाम् अ-गमनम् इति। ॥६।२।४९॥
निर्-माल्य-धारणे श्लाघा उच्छिष्ट-भोजने च। ॥६।२।५०॥
कुल-शील-शिल्प-जाति-विद्या-वर्ण-वित्त-देश-मित्र-गुण-वयो-माधुर्य-पूजा। ॥६।२।५१॥
गीतादिषु चोदनम् अभिज्ञस्य। ॥६।२।५२॥
भय-शीतोष्ण-वर्षाण्य् अनपेक्ष्य तद्-अभिगमनम्। ॥६।२।५३॥
स एव च मे स्याद् इत्य् और्ध्वदेहिकेषु वचनम्। ॥६।२।५४॥
तद्-इष्ट-रस-भाव-शीलानुवर्तनम्। ॥६।२।५५॥
मूल-कर्माभिशङ्का। ॥६।२।५६॥
तद्-अभिगमने च जनन्या सह नित्यो विवादः। ॥६।२।५७॥
बलात्कारेण च यद्य् अन्यत्र तया नीयेत तदा विषम् अनशनं शस्त्रं रज्जुम् इति कामयेत। ॥६।२।५८॥
प्रत्यायनं च प्रणिधिभिर् नायकस्य। स्वयं वात्मनो वृत्ति-ग्रहणम्। ॥६।२।५९॥
न त्व् एवार्थेषु विवादः। ॥६।२।६०॥
मात्रा विना किं चिन् न चेष्टेत। ॥६।२।६१॥
प्रवासे शीघ्रागमनाय शाप-दानम्। ॥६।२।६२॥
प्रोषिते मृजानियमश् चालङ्कारस्य प्रतिषेधः। मङ्गलं त्व् अपेक्ष्यम्। एकं शङ्ख-वलयं वा धारयेत्। ॥६।२।६३॥
स्मरणम् अतीतानाम्। गमनम् ईक्षणिकोपश्रुतीनाम्। नक्षत्र-चन्द्र-सूर्य-ताराभ्यः स्पृहणम्। ॥६।२।६४॥
इष्टस्वप्नप्रदर्शने तत्-सङ्गमो ममास्त्व् इति वचनम्। ॥६।२।६५॥
उद्वेगो ऽन्-इष्टे सान्ति-कर्म च। ॥६।२।६६॥
प्रत्यागते काम-पूजा। ॥६।२।६७॥
देवतोपहाराणां करणम्। ॥६।२।६८॥
सखीभिः पूर्ण-पात्रस्याहरणम्। ॥६।२।६९॥
वायस-पूजा च। ॥६।२।७०॥
प्रथम-समागमानन्तरं चैतद् एव वायस-पूजा-वर्जम्। ॥६।२।७१॥
सक्तस्य चानुमरणं ब्रूयात्। ॥६।२।७२॥
निसृष्ट-भावः समान-वृत्तिः प्रयोजन-कारी निर्-आशङ्को निर्-अपेक्षो ऽर्थेष्व् इति सक्त-लक्षणानि। ॥६।२।७३॥
तद् एतन् निदर्शनार्थं दत्तक-शासनाद् उक्तम्। अन्-उक्तं च लोकतः शीलयेत् पुरुष-प्रकृतितश् च। ॥६।२।७४॥
भवतश् चात्र श्लोकौ ॥६।२।७५॥
सूक्ष्मत्वाद् अति-लोभाच् च प्रकृत्याज्ञानतस् तथा। काम-लक्ष्म तु दुर्-जानं स्त्रीणां तद्-भावितैर् अपि॥ ॥६।२।७५व्॥
कामयन्ते विरज्यन्ते रञ्जयन्ति त्यजन्ति च। कर्षयन्त्यो ऽपि सर्वार्थाञ् ज्ञायन्ते नैव योषितः((१६७))॥ ॥६।२।७६व्॥
इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठे ऽधिकरणे कान्तानुवृत्तं द्वितीयो ऽध्यायः। ॥६।२च्॥