५१

उपमन्त्रितापि गम्येन सहसा न प्रतिजानीयात्। पुरुषाणां सु-लभावमानित्वात्। ॥६।१।२१॥
भाव-जिज्ञासार्थं परिचारक-मुखान् संवाहक-गायन-वैहासिकान् गम्ये तद्-भक्तान् वा प्रणिदध्यात्। ॥६।१।२२॥
तद्-अ-भावे पीठमर्दादीन्। तेभ्यो नायकस्य शौचा-शौचं रागापरागौ सक्ता-सक्ततां दाना-दाने च विद्यात्। ॥६।१।२३॥
सम्भावितेन च सह विट-पुरोगां प्रीतिं योजयेत्। ॥६।१।२४॥
लावक-कुक्कुट-मेष-युद्ध-शुक-शारिका-प्रलापन-प्रेक्षणक-कला-व्यपदेशेन पीठमर्दो नायकं तस्या उदवसितम् आनयेत्। ॥६।१।२५॥
तां वा तस्य। ॥६।१।२६॥
आगतस्य प्रीति-कौतुक-जननं किं चिद् द्रव्य-जातं स्वयम् इदम् अ-साधारणोपभोग्यम् इति प्रीति-दायं दद्यात्। ॥६।१।२७॥
यत्र च रमते तया गोष्ठ्यैनम् उपचारैश् च रञ्जयेत्। ॥६।१।२८॥
गते च स-परिहास-प्रलापां सोपायनां परिचारिकाम् अभीक्ष्णं प्रेषयेत्॥६।१।३० स-पीठमर्दायाश् च कारणापदेशेन स्वयं गमनम् ॥६।१।२९॥

# ५१च् इति गम्योपावर्तनम्((१६४))।
भवन्ति चात्र श्लोकाः। ॥६।१।३१॥
ताम्बूलानि स्रजश् चैव संस्कृतं चानुलेपनम्। आगतस्याहरेत् प्रीत्या कला-गोष्ठीश् च योजयेत्॥ ॥६।१।३१व्॥
द्रव्याणि प्रणये दद्यात् कुर्याच् च परिवर्तनम्। सम्प्रयोगस्य चाकूतम् निजेनैव प्रयोजयेत्॥ ॥६।१।३२व्॥
प्रीति-दायैर् उपन्यासैर् उपचारैश् च केवलैः। गम्येन सह संसृष्टा रञ्जयेत् तं ततः परम्((१६५))॥ ॥६।१।३३व्॥

इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठे ऽधिकरणे सहाय-गम्या-गम्य-चिन्ता गमन-कारणं गम्योपावर्तनं प्रथमो ऽध्यायः। ॥६।१च्॥