५० सहाय-गम्या-गम्य-गमन-कारण-चिन्ता-प्रकरणम्
वेश्यानां पुरुषाधिगमे रतिर् वृत्तिश् च सर्गात्। ॥६।१।१॥
रतितः प्रवर्तनं स्वाभाविकं कृत्रिमम् अर्थार्थम्। ॥६।१।२॥
तद् अपि स्वाभाविकवद् रूपयेत्। ॥६।१।३॥
काम-परासु हि पुंसां विश्वास-योगात्। ॥६।१।४॥
अ-लुब्धतां च ख्यापयेत् तस्य निदर्शनार्थम्। ॥६।१।५॥
न चान्-उपायेनार्थान् साधयेद् आयति-संरक्षणार्थम्। ॥६।१।६॥
नित्यम् अलङ्कार-योगिनी राज-मार्गावलोकिनी दृश्यमाना न चातिवृत्ता तिष्ठेत्। पण्य-स- धर्मत्वात्। ॥६।१।७॥
यैर् नायकम् आवर्जयेद् अन्याभ्यश् चावच्छिन्द्याद् आत्मनश् चानर्थं प्रतिकुर्याद् अर्थं च साधयेन् न च गम्यैः परिभूयेत तान् सहायान् कुर्यात्। ॥६।१।८॥
ते त्व् आरक्षक-पुरुषा धर्माधिकरणस्था((१६१)) दैव-ज्ञा विक्रान्ताः शूराः समान-विद्याः कला-ग्राहिणः पीठमर्द-वीट-विदूषक-मालाकार-गान्धिक-शौण्डिक-रजक-नापित- भिक्षुकास् तेच ते च कार्य-योगात्। ॥६।१।९॥
केवलार्थास् त्व् अमी गम्याः ण् स्व-तन्त्रः पूर्वे वयसि वर्तमानो वित्तवान् अ-परोक्ष-वृत्तिर् अधिकरणवान् अ-कृच्छ्राधिगत-वित्तः। सङ्घर्षवान् सन्ततायः सुभग-मानी श्लाघनकः पण्डकश्((१६२)) च पुं-शब्दार्थी। समान-स्पर्धी स्व-भावतस् त्यागी। राजनि महामात्रे वा सिद्धो दैव-प्रमाणो वित्तावमानी गुरूणां शासनातिगः स-जातानां लक्ष्य-भूतः स-वित्त एक-पुत्रो लिङ्गी प्रच्छन्न-कामः शूरो वैद्यश् चेति। ॥६।१।१०॥
प्रीति-यशो-ऽर्थास् तु गुणतो ऽधिगम्याः। ॥६।१।११॥
महा-कुलीनो विद्वान् सर्व-समय-ज्ञः कविर् आख्यान-कुशलो वाग्मी प्रगल्भो विविध-शिल्प- ज्ञो वृद्ध-दर्शी स्थूल-लक्षो महोत्साहो दृढ-भक्तिर् अनसूयकस् त्यागी मित्र-वत्सलो घटा-गोष्ठी-प्रेक्षणक-समाज-समस्या-क्रीडन-शीलो नीरुजो ऽ-व्यङ्ग-शरीरः प्राणवान् अ-मद्य-पो वृषो मैत्रः स्त्रीणां प्रनेता लालयिता च। न चासां वश-गः स्व-तन्त्र- वृत्तिर् अ-निष्ठुरो ऽन्-ईर्ष्यालुर् अनवशङ्की चेति नायक-गुणाः। ॥६।१।१२॥
नायिकायाः पुना रूप-यौवन-लक्षण-माधुर्य-योगिनी गुणेष्व् अनुरक्ता न तथार्थेषु प्रीति-संयोग-शीला स्थिर-मतिर् एक-जातीया विशेषार्थिनी नित्यम् अ-कदर्य-वृत्तिर् गोष्ठी-कला-प्रिया चेति नायिका-गुणाः। ॥६।१।१३॥
नायिका पुनर् बुद्धि-शीलाचार आर्जवं कृत-ज्ञता दीर्घ-दूर-दर्शित्वं अ-विसंवादिता देश-काल-ज्ञता नागरकता दैन्यातिहास-पैशुन्य-परिवाद-क्रोध-लोभ-स्तम्भ-चापल- वर्जनं पूर्वाभिभाषिता काम-सूत्र-कौशलं तद्-अङ्ग-विद्यासु चेति साधारण-गुणाः। ॥६।१।१४॥
गुण-विपर्यये दोषाः। ॥६।१।१५॥
क्षयी रोगी कृमि-शक्र्द् वायसास्यः प्रिय-कलत्रः परुष-वाक् कदर्यो निर्घृणो गुरु-जन-परित्यक्तः स्तेनो दम्भ-शीलो मूल-कर्मणि प्रसक्तो मानापमानयोर् अनपेक्षी द्वेष्यैर् अप्य् अर्थ-हार्यो विलज्ज इत्य् अ-गम्याः। ॥६।१।१६॥
रागो भयम् अर्थः सङ्घर्षो वैर-निर्यातनं जिज्ञासा पक्षः खेदो धर्मो यशो ऽनुकम्पा सुहृद्-वाक्यं ह्रीः प्रिय-सादृश्यं धन्यता रागापनयः साजात्यं साहवेश्यं सातत्यम् आयतिश् च गमन-कारणानि भवन्तीत्य् आचार्याः। ॥६।१।१७॥
अर्थो ऽनर्थ-प्रतीघातः प्रीतिश् चेति वात्स्यायनः। ॥६।१।१८॥
अर्थस् तु प्रीत्या न बाधितः। अस्य प्राधान्यात्। ॥६।१।१९॥
भयादिषु तु गुरु-लाघवं परीक्ष्यम् ॥६।१।२०॥
# ५०च् इति सहाय-गम्यागम्य-[गमन-]कारण-चिन्ता((१६३))।