एभ्य एव च कारणेभ्यः स्व-दारान् रक्षेत्। ॥५।६।३९॥
कामोपधा-शुद्धान्((१५६)) रक्षिणो ऽन्तः-पुरे स्थापयेद् इत्य् आचार्याः। ॥५।६।४०॥
ते हि भयेन चार्थेन चान्यं प्रयोजयेयुस् तस्मात् काम-भयार्थोपधा-शुद्धान् इति गोणिकापुत्रः((१५७))। ॥५।६।४१॥
अ-द्रोहो धर्मस् तम् अपि भयाज् जह्याद् अतो धर्म-भयोपधा-शुद्धान् इति वात्स्यायनः। ॥५।६।४२॥
वाक्याभिधायिनीभिश् च गूढाकाराभिः प्रमादभिर् आत्म-दारान्((१५८)) उपदध्याच् छौचा-शौच-परिज्ञानार्थम् इति बाभ्रवीयाः ॥५।६।४३॥
दुष्टानां युवतिषु सिद्धत्वान् ना-कस्माद् अ-दुष्ट-दूषणम् आचरेद् इति वात्स्यायनः((१५९))। ॥५।६।४४॥
अति-गोष्ठी निर्-अङ्कुशत्वं भर्तुः स्वैरता पुरुषैः सहा-नियन्त्रणता प्रवासे ऽवस्थानं विदेशे निवासः स्व-वृत्त्य्-उपघातः स्वैरिणी-संसर्गः पत्युर् ईर्ष्यालुता चेति स्त्रीणां विनाश-कारणानि। ॥५।६।४५॥
सन्दृश्य शास्त्रतो योगान् पारदारिक-लक्षितान्। न याति च्छलनां कश् चिद् स्व-दारान् प्रति शास्त्रवित्॥ ॥५।६।४६व्॥
पाक्षिकत्वात् प्रयोगाणाम् अपायानां च दर्शनात्। धर्मार्थयोश् च वैलोम्यान् नाचरेत् पारदारिकम्॥ ॥५।६।४७व्॥
तद् एतद् दार-गुप्त्य्-अर्थम् आरब्धं श्रेयसे नृणाम्। प्रजानां दूषणायैव न विज्ञेयो ऽस्य संविधिः((१६०))॥ ॥५।६।४८व्॥
इति श्रिवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमे ऽधिकरणे ईश्वर्कामितं पञ्चमो ऽध्यायः॥ ॥५।६च्॥