४८ अन्तः-पुरिका-वृत्त-प्रकरणम्

४८ अन्तः-पुरिका-वृत्त-प्रकरणम्

नान्तः-पुराणां रक्षण-योगात् पुरुष-सन्दर्शनं विद्यते पत्युश् चैकत्वाद् अन्-एक-साधारणत्वाच् चा-तृप्तिः। तस्मात् तानि प्रयोगत एव परस्-परं रञ्जयेयुः। ॥५।६।१॥
धात्रेयिकां सखीं दासीं वा पुरुषवद् अलङ्कृत्याकृति-संयुक्तैः कन्द-मूल-फलावयवैर् अपद्रव्यैर् वात्माभिप्रायं निवर्तयेयुः। ॥५।६।२॥
पुरुष-प्रतिमा अ-व्यक्त-लिङ्गाश् चाधिशयीरन्। ॥५।६।३॥
राजानश् च कृपा-शीला विनापि भाव-योगाद् आयोजितापद्रव्या यावद् अर्थम् एकया रात्र्या बह्वीभिर् अपि गच्छन्ति। यस्यां तु प्रीतिर् वासक ऋतुर् वा तत्राभिप्रायतः प्रवर्तन्त इति प्राच्योपचाराः। ॥५।६।४॥
स्त्री-योगेणैव पुरुषाणाम् अप्य् अ-लब्ध-वृत्तीनां वियोनिषु विजातिषु स्त्री-प्रतिमासु केवलोपमर्दनाच् चाभिप्राय-निवृत्तिर् व्याख्याता। ॥५।६।५॥
योषावेषांश् च नागरकान् प्रायेणान्त-पुरिकाः परिचारिकाभिः सह प्रवेशयन्ति। ॥५।६।६॥
तेषाम् उपावर्तने धात्रेयिकाश् चाभ्यन्तर-संसृष्टा आयतिं दर्शयन्त्यः प्रयतेरन्। ॥५।६।७॥
सुख-प्रवेशिताम् अपसार-भूमिं विशलतां वेश्मनः प्रमादं रक्षिणाम् अ-नित्यतां परिजनस्य वर्णयेयुः। ॥५।६।८॥
न चा-सद्-भूतेनार्थेन प्रवेशयितुं जनम् आवर्तयेयुर् दोषात्। ॥५।६।९॥
नागरकस् तु सु-प्रापम् अप्य् अन्तः-पुरम् अपाय-भूयिष्ठत्वान् न प्रविशेद् इति वात्स्यायनः। ॥५।६।१०॥
सापसारं तु प्रमद-वनावगाढं विभक्त-दीर्घ-काक्ष्यम् अल्प-प्रमत्त-रक्षकं प्रोषित-राजकं कारणानि समीक्ष्य बहुष आहूयमानो ऽर्थ-बुद्ध्या कक्ष्या-प्रवेशं च दृष्ट्वा ताभिर् एव विहितोपायः प्रविशेत्। ॥५।६।११॥
शक्ति-विषये च प्रति-दिनं निष्क्रामेत्। ॥५।६।१२॥
बहिश् च रक्षिभिर् अन्यद् एव कारणम् अपदिश्य संसृजेत। ॥५।६।१३॥
अन्तश्-चारिण्यां च परिचारिकायां विदितार्थायां सक्तम् आत्मानं रूपयेत्। तद्-अ-लाभाच् च शोकम् अन्तः-प्रवेशिनीभिश् च दूती-कल्पं सकलम् आचरेत्। ॥५।६।१४॥
राज-प्रनिधींश् च बुध्येत। ॥५।६।१५॥
दूत्यास् त्व् अ-सञ्चारे यत्र गृहीताकारायाः प्रयोज्याया दर्शन-योगस् तत्रावस्थानम्। ॥५।६।१६॥
तस्मिन्न् अपि तु रक्षिषु परिचारिका-व्यपदेशः। ॥५।६।१७॥
चक्षुर् अनुबध्नन्त्याम् इङ्गिताकार-निवेदनम्॥५।६।१९ यत्र सम्पातो ऽस्यास् तत्र चित्र-कर्मणस् तद्-युक्तस्य व्यर्थानां गीत-वस्तुकानां क्रीडनकानां कृत-चिह्नानाम् आपीनकानाम्((१५३)) अङ्गुलीयकस्य च निधानम्। ॥५।६।१८॥
प्रत्य्-उत्तरं तया दत्तं प्रपश्येत्। ततः प्रवेशने यतेत। ॥५।६।२०॥
यत्र चास्य नियतं गमनम् इति विद्यात् तत्र प्रछन्नस्य प्राग् एवावस्थानम्। ॥५।६।२१॥
रक्षि-पुरुष-रूपो वा तद्-अनुज्ञात-वेलायां प्रविशेत्। ॥५।६।२२॥
आस्तरण-प्रावरण-वेष्टितस्य वा प्रवेश-निर्हारौ। ॥५।६।२३॥
पुटा-पुट-योगैर् वा नष्टच्छाया-रूपः। ॥५।६।२४॥
तत्रायं प्रयोगः ण् नकुल-हृदयं चोरकतुम्बी-फलानि सर्पाक्षीणि चान्तर्धूमेन पचेत्। ततो ऽञ्जनेन सम-भागेन पेषयेत्। अनेनाभ्यक्त-नयनो नष्ट-च्छाया-रूपश् चरति [अन्यैष् च जल-ब्रह्म-क्षेम-शिरः-प्रणीतैर् बाह्य-पानकैर् वा। ॥५।६।२५॥
रात्रि-कौमुदीषु च दीपिका-सम्बाधे सुरङ्गया वा। ॥५।६।२६॥
तत्रैतद् भवति((१५४))। ॥५।६।२७॥
द्रव्याणाम् अपि निर्हारे पानकानां प्रवेशने। आपानकोत्सवार्थे ऽपि चेटिकानां च सम्भ्रमे॥ ॥५।६।२७व्॥
व्यत्यासे वेश्मनां चैव रक्षिणां च विपर्यये। उद्यान-यात्रा-गमने यात्रातश् च प्रवेशने॥ ॥५।६।२७व्॥
दीर्घ-कालोदयां यात्रां प्रोषिते चापि राजनि। प्रवेशनं भवेत् प्रायो यूनां निष्क्रमणं तथा॥ ॥५।६।२७व्॥
परस्परस्य कार्याणि ज्ञात्वा चान्तःपुरालयाः। एक-कार्यास् ततः कुर्युः शेषाणाम् अपि भेदनम्॥ ॥५।६।२८व्॥
दूषयित्वा ततो ऽन्योन्यम् एक-कार्यार्पणे स्थिरः। अ-भेद्यतां गतः सद्यो यथेष्टं फलम् अश्नुते॥ ॥५।६।२८व्॥
तत्र राज-कुल-चारिण्य एव लक्षण्यान् पुरुषान् अन्तः-पुरं प्रवेशयन्ति नाति-सु-रक्षत्वाद् अपरान्तिकानाम्। ॥५।६।२९॥
क्षत्रिय-सञ्ज्ञकैर् अन्तः-पुर-रक्षिभिर् एवार्थं साधयन्त्य् आभीरकाणाम्। ॥५।६।३०॥
प्रेष्याभिः सह तद्-वेषान् नागरक-पुत्रान् प्रवेशयन्ति वात्सगुल्मकानाम्। ॥५।६।३१॥
स्वैर् एव पुत्रैर् अन्तः-पुराणि काम-चारैर् जननी-वर्जम् उपयुज्यन्ते वैदर्भकानाम्। ॥५।६।३२॥
तथा प्रवेशिभिर् एव ज्ञाति-सम्बन्धिभिर् नान्यैर् उपयुज्यन्ते स्त्रैराजकानाम्। ॥५।६।३३॥
ब्राह्मणैर् मित्रैर् भृत्यैर् दास-चेटैश् च गौडानाम्। ॥५।६।३४॥
परिस्पन्दाः कर्मकराश् चान्तः-पुरेष्व् अ-निषिद्द्धा अन्ये ऽपि तद्-रूपाश् च सैन्धवानाम्। ॥५।६।३५॥
अर्थेन रक्षिणम् उपगृह्य साहसिकाः संहताः प्रविशन्ति हैमवतानाम्। ॥५।६।३६॥
पुष्प-दान-नियोगान् नगर-ब्राह्मणा राज-विदितम् अन्तः-पुराणि गच्छन्ति। पटान्तरितश् चैषाम् आलापः। तेन प्रसङ्गेन व्यतिकरो भवति बङ्ग-अङ्ग-कलिङ्गकानाम्। ॥५।६।३७॥
संहत्य नवदशेत्य् एकैकं युवानं प्रच्छादयन्ति प्राच्यानाम् इति। एवं पर-स्त्रियः प्रकुर्वीत। ॥५।६।३८॥

इत्य् अन्तः-पुरिका-वृत्तम्((१५५))। ॥५।६।३८च्॥