४७ ईश्वर-कामित-प्रकरणम्

४७ ईश्वर-कामित-प्रकरणम्

न राज्ञां महामात्राणां वा पर-भवन-प्रवेशो विद्यते।महाजनेन हि चरितम् एषां दृश्यते ऽनुविधीयते च। ॥५।५।१॥
सवितारम् उद्यन्तं त्रयो लोकाः पश्यन्ति अनूद्यन्ते च। गच्छन्तम् अपि पश्यन्त्य् अनुप्रतिष्ठन्ते च। ॥५।५।२॥
तस्माद् अ-शक्यत्वाद् गर्हणीयत्वाच् चेति न ते वृथा किं चिद् आचरेयुः। ॥५।५।३॥
अ-वश्यं त्व् आचरितव्ये योगान् प्रयुञ्जीरन्। ॥५।५।४॥
ग्रामाधिपतेर् आयुक्तकस्य हलोत्थवृत्ति-पुत्रस्य((१४५)) यूनो ग्रामीण-योषितो वचन-मात्र- साध्याः। ताश् चर्षण्य((१४६)) इत्य् आचक्षते विटाः। ॥५।५।५॥
ताभिः सह विष्टि-कर्मसु कोष्ठागार-प्रवेशे द्रव्याणां निष्क्रमण-प्रवेशनयोर् भवन-प्रतिसंस्कारे क्षेत्र-कर्मणि कर्पासोर्णातसी-शण-वल्कलादाने सूत्र-प्रतिग्रहे द्रव्याणां क्रय-विक्रय-विनिमयेषु तेषु तेषु च कर्मसु प्रयोगः। ॥५।५।६॥
तथा व्रज-योषिद्भिः गवाध्यक्षस्य। ॥५।५।७॥
विधवानाथा-प्रव्रजिताभिः सह सूत्राध्यक्षस्य। ॥५।५।८॥
मर्मज्ञात्वाद् रात्राव् अटने चाटन्तीभिर् नागरस्य। ॥५।५।९॥
क्रय-विक्रये पण्याध्यक्षस्य। ॥५।५।१०॥
अष्टमी-चन्द्रकौमुदी-सु-वसन्तकादिषु पत्तन-नगर-खर्वट-योषिताम् ईश्वर-भवने सहान्तः-पुरिकाभिः प्रायेण क्रीडा। ॥५।५।११॥
तत्र चापानकान्ते नगर-स्त्रियो यथा-परिचयम् अन्तः-पुरिकानां पृथक् पृथग् भोगावासकान् प्रविश्य कथाभिर् आसित्वा पूजिताः प्रतीताश् चोपप्रदोषं निष्क्रामयेयुः। ॥५।५।१२॥
तत्र प्रणिहिता राज-दासी प्रयोज्यायाः पूर्व-संसृष्टा तां तत्र सम्भाषेत। ॥५।५।१३॥
रामणीयक-दर्शनेन योजयेत्। ॥५।५।१४॥
प्राग् एव स्व-भवन-स्थां ब्रूयात्। अमुष्यां क्रीडायां तव राज-भवन-स्थानानि रामणीयकानि दर्शयिष्यामीति काले च योजयेत्। बहिः-प्रवाल-कुट्टिमं((१४७)) ते दर्शयिष्यामि। ॥५।५।१५॥
मणि-भूमिकां वृक्ष-वाटिकां मृद्वीका-मण्डपं((१४८)) समुद्र-गृह-प्रासादान् गूढ-भित्ति-सञ्चारांश् चित्र-कर्माणि क्रीडा-मृगान् यन्त्राणि शकुनान् व्याघ्र-सिंह-पञ्जरादीनि च यानि पुरस्ताद् वर्णितानि स्युः। ॥५।५।१६॥
एकान्ते च तद्-गतम् ईश्वरानुरागं श्रावयेत्। ॥५।५।१७॥
सम्प्रयोगे चातुर्यं चाभिवर्णयेत्। ॥५।५।१८॥
अ-मन्त्र-श्रवं च प्रतिपन्नां योजयेत्। ॥५।५।१९॥
अ-प्रतिपद्यमानां स्वयम् एवेश्वर आगत्योपचारैः सान्त्वितां रञ्जयित्वा सम्भूय च सानुरागं विसृजेत्। ॥५।५।२०॥
प्रयोज्यायाश् च पत्युर् अनुग्रहोचितस्य दारान् नित्यम् अन्तः-पुरम् औचित्यात् प्रवेशयेत्। तत्र प्रणिहिता राज-दासीति समानं पूर्वेण। ॥५।५।२१॥
अन्तः-पुरिका वा प्रयोज्यया सह स्व-चेटिका-सम्प्रेषणेन प्रीतिं कुर्यात्। प्रसृत-प्रीतिं च सापदेशं दर्शने नियोजयेत्। प्रविष्टां पूजितां पीतवतीं प्रणिहिता राज-दासीति समानं पूर्वेण। ॥५।५।२२॥
यस्मिन् वा विज्ञाने प्रयोज्या विख्याता स्यात् तद्-दर्शनार्थम् अन्तः-पुरिका सोपचारं ताम् आह्वयेत्। प्रविष्टां प्रणिहिता राज-दासीति समानं पूर्वेण। ॥५।५।२३॥
उद्भूतानर्थस्य भीतस्य वा भार्यां भिक्षुकी ब्रूयात् असाव् अन्तः-पुरिका राजनि सिद्धा गृहीत-वाक्या मम वचनं शृणोति। स्व-भावतश् च कृपा-शीला ताम् अनेनोपायेनाधिगमिष्यामि। अहम् एव ते प्रवेशं कारयिष्यामि। सा च ते भर्तुर् महान्तम् अनर्थं निवर्तयिष्यतीति प्रतिपन्नां द्विस् त्रिर् इति प्रवेशयेत्। अन्तः-पुरिका चास्या अ-भयं दद्यात्। अ-भय-श्रवणाच् च सम्प्रहृष्टां प्रणिहिता राज-दासीति समानं पूर्वेण॥५।५।२५ एतया वृत्त्य्-अर्थिनां महामात्राभितप्तानां बलाद् विगृहीतानां व्यवहारे दुर्-बलानां स्व-भोगेना-सन्तुष्टानां राजनि प्रीति-कामानां राज्य-जनेषु पङ्क्तिम् इच्छतां स-जातैर् बाध्यमानानां स-जातान् बाधितु-कामानां सूचकानाम् अन्येषाम् कार्य-वशिनां जाया व्याख्याताः। ॥५।५।२४॥
अन्येन वा प्रयोज्यां सह संसृष्टां सङ्ग्राह्य दास्यम् उपनीतां क्रमेणान्तः-पुरं प्रवेशयेत्। ॥५।५।२६॥
प्रणिधिना चायतिम् अस्याः सन्दूष्य राजनि विद्विष्ट इति कलत्रावग्रहोपायेनैनाम् अन्तः-पुरं प्रवेशयेत्। इति प्रच्छन्न-योगाः((१४९))। एते राज-पुत्रेषु प्रायेण। ॥५।५।२७॥
न त्व् एवं पर-भवनम् ईश्वरः प्रविशेत्। ॥५।५।२८॥
आभीरं कोट्ट-राजं((१५०)) पर-भवन-गतं भ्रातृ-प्रयुक्तो रजको जघान। काशि-राजं जयसेनम् अश्वाध्यक्ष इति। ॥५।५।२९॥
प्रकाश-कामितानि तु देश-प्रवृत्ति-योगात्। ॥५।५।३०॥
प्रत्ता जनपद-कन्या दशमे ऽहनि किं चिद् औपायनिकम् उपगृह्य प्रविशन्त्य् अन्तः-पुरम् उपभुक्ता एव विसृज्यन्त इत्य् आन्ध्राणाम्((१५१))। ॥५।५।३१॥
महामात्रेश्वराणाम् अन्तः-पुराणि निशि सेवार्थं राजानम् उपगच्छन्ति वात्सगुल्मकानाम्। ॥५।५।३२॥
रूपवतीर् जनपद-योषितः प्रीत्य्-अपदेशेन मासं मासार्धं वातिवासयन्त्य् अन्तः-पुरिका वैदर्भाणाम्। ॥५।५।३३॥
दर्शनीयाः स्व-भार्याः प्रीति-दायम् एव महामात्र-राजभ्यो ददत्य् अपरान्तकानाम्। ॥५।५।३४॥
राज-क्रीडार्थं नगर-स्त्रियो जनपद-स्त्रियश् च सङ्घश एकशश् च राजकुलं प्रविशन्ति सौराष्ट्रकाणाम् इति। ॥५।५।३५॥
श्लोकाव् अत्र भवतः ॥५।५।३६॥
एते चान्ये च बहवः प्रयोगाः पारदारिकाः। देशे देशे प्रवर्तन्ते राजभिः सम्प्रवर्तिताः॥ ॥५।५।३६व्॥
न त्व् एवैतान् प्रयुञ्जीत राजा लोक-हिते रतः। निगृहीतारि-षड्-वर्गस् तथा विजयते महीम्((१५२))॥ ॥५।५।३७व्॥

इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमे ऽधिकरणे ईश्वर-कामितम् पञ्चमो ऽध्यायः। ॥५।५च्॥