४६ दूती-कर्म-प्रकरणम्
दर्शितेङ्गिताकारं तु प्रविरल-दर्शनाम्((१४२)) अ-पूर्वां च दूत्योपसर्पयेत्। ॥५।४।१॥
सैनां शीलतो ऽनुप्रविश्याख्यान-कपटैः सुभगं-करण-योगैर् लोक-वृत्तान्तैः कवि-कथाभिः पारदारिक-कथाभिश् च तस्याश् च रूप-विज्ञान-दाक्षिण्य-शीलानुप्रशंसाभिश् च तां रञ्जयेत्। ॥५।४।२॥
कथम् एवं-विधायास् तवायम् इत्थं-भूतः पतिर् इति चानुशयं ग्राहयेत्। ॥५।४।३॥
न तव सुभगे दास्यम् अपि कर्तुं युक्त इति ब्रूयात्। ॥५।४।४॥
मन्द-वेगताम् ईर्ष्यालुतां शठताम् अ-कृत-ज्ञतां चासम्भोग-शीलतां कदर्यतां चपलताम् अन्यानि च यानि तस्मिन् गुप्तान्य् अस्या अभ्याशे सति सद्-भावे ऽतिशयेन भाषेत। ॥५।४।५॥
येन च दोषेणोद्विग्नां लक्षयेत् तेनैवानुप्रविशेत्। ॥५।४।६॥
यदासौ मृगी तदा नैव शशता-दोषः। ॥५।४।७॥
एतेनैव बडव-हस्तिनी-विषयश् चोक्तः। ॥५।४।८॥
नायिकाया एव तु विश्वास्यताम् उपलभ्य दूतीत्वेनोपसर्पयेत् प्रथम-साहसायां सूक्ष्म-भावायां चेति गोणिकापुत्रः। ॥५।४।९॥
सा नायकस्य चरितम् अनुलोमतां कामितानि च कथयेत्। ॥५।४।१०॥
प्रसृत-सद्भावायां च युक्त्या कार्य-शरीरम् इत्थं वदेत्। ॥५।४।११॥
शृणु विचित्रम् इदं सुभगे त्वां किल दृष्त्वामुत्रासाव् इत्थं गोत्र-पुत्रो नायकश् चित्तोन्मादम् अनुभवति। प्रकृत्या सु-कुमारः कदा चिद् अन्यत्रापरिक्लिष्ट-पूर्वस् तपस्वी। ततो ऽधुना शक्यम् अनेन मरणम् अप्य् अनुभवितुम् इति वर्णयेत्। ॥५।४।१२॥
तत्र सिद्धा द्वितीये ऽहनि वाचि वक्त्रे दृष्ट्यां च प्रसादम् उपलक्ष्य पुनर् अपि कथां प्रवर्तयेत्। ॥५।४।१३॥
शृण्वत्यां चाहल्याविमारक-शाकुन्तलादीन्य् अन्यान्य् अपि लौकिकानि च कथयेत् तद्-युक्तानि। ॥५।४।१४॥
वृषतां चतुःषष्टि-विज्ञतां सौभाग्यं च नायकस्य। श्लाघनीयतां चास्य प्रच्छन्नं सम्प्रयोगं भूतम् अ-भूत-पूर्वं वा वर्णयेत्। ॥५।४।१५॥
आकारं चास्य लक्षयेत्। ॥५।४।१६॥
स-विहसितं दृष्ट्वा सम्भाषते। ॥५।४।१७॥
आसने चोपनिमन्त्रयते। ॥५।४।१८॥
क्वासितं क्व शयितं क्व भुक्तं क्व चेष्टितं किं वा कृतम् इति पृच्छति। ॥५।४।१९॥
विविक्ते दर्शयत्य् आत्मानम्। ॥५।४।२०॥
आख्यानकानि नियुङ्क्ते॥५।४।२२ चिन्तयन्ती निःश्वासीति विजृम्भते च। ॥५।४।२१॥
प्रीति-दायं च ददाति। ॥५।४।२३॥
इष्टेषूत्सवेषु च स्मरति। ॥५।४।२४॥
पुनर्-दर्शनानुबन्धं विसृजति। ॥५।४।२५॥
साधु-वादिनी सती किम् इदम् अ-शोभनम् अभिधत्स इति कथाम् अनुबध्नाति। ॥५।४।२६॥
नायकस्य शाठ्य-चापल्य-सम्बद्धान् दोषान् ददाति। ॥५।४।२७॥
पूर्व-प्रवृत्तं च तत्-सन्दर्शनं कथाभियोगं च स्वयम् अ-कथयन्ती तयोच्यमानम् आकाङ्क्षति। ॥५।४।२८॥
नायक-मनोरथेषु च कथ्यमानेषु स-परिभवं नाम हसति। न च निर्वदतीति। ॥५।४।२९॥
दूत्य् एनां दर्शिताकारां नायकाभिज्ञानैर् उपबृंहयेत्। ॥५।४।३०॥
अ-संस्तुतां तु गुण-कथनैर् अनुराग-कथाभिश् चावर्जयेत्। ॥५।४।३१॥
नासंस्तुतादृष्टाकारयोर् दूत्यम् अस्तीत्य् औद्दालकिः। ॥५।४।३२॥
अ-संस्तुतयोर् अपि संसृष्टाकारयोर् अस्तीति बाभ्रवीयाः। ॥५।४।३३॥
संस्तुतयोर् अप्य् अ-संसृष्टाकारयोर् अस्तीति गोणिकापुत्रः। ॥५।४।३४॥
अ-संस्तुतयोर् अ-दृष्टाकारयोर् अपि दूती-प्रत्ययाद् इति वात्स्यायनः। ॥५।४।३५॥
तासां मनो-हराण्य् उपायनानि ताम्बूलम् अनुलेपनं स्रजम् अङ्गुलीयकं वासो वा तेन प्रहितं दर्शयेत्। ॥५।४।३६॥
तेषु नायकस्य यथार्थं नख-दशन-पदानि तानि तानि च चिह्नानि स्युः। ॥५।४।३७॥
वाससि च कुङ्कुमाङ्कम् अञ्जलिं निदद्यात्। ॥५।४।३८॥
पत्र-च्छेद्यानि नानाभिप्रायाकृतीनि दर्शयेत्। लेख-पत्त्र-गर्भाणि कर्ण-पत्त्राण्य् आपीडांश् च। ॥५।४।३९॥
तेषु स्व-मनोरथाख्यापनम्। प्रतिप्राभृत-दाने((१४३)) चैनां नियोजयेत्। ॥५।४।४०॥
एवं कृत-परस्पर-परिग्रहयोश् च दूती-प्रत्ययः समागमः। ॥५।४।४१॥
स तु देवताभिगमने यात्रायाम् उद्यान-क्रीडायां जलावतरणे विवाहे यज्ञ-व्यसनोत्सवेष्व् अग्न्य्-उत्पाते चौर-विभ्रमे जनपदस्य चक्रारोहणे प्रेक्ष-व्यापारेषु तेषु तेषु च कार्येष्व् इति बाभ्रवीयाः। ॥५।४।४२॥
सखी-भिक्षुकी-क्षपणिका-तापसी-भवनेषु सुखोपाय इति गोणिकापुत्रः। ॥५।४।४३॥
तस्या एव तु गेहे विदित-निष्क्रम-प्रवेशे चिन्तितात्यय-प्रतीकारे प्रवेशनम् उपपन्नं निष्क्रमणम् अ-विज्ञात-कालं च तन् नित्यं सुखोपायं चेति वात्स्यायनः। ॥५।४।४४॥
निसृष्टार्था[१] परिमितार्था[२] पत्र-हारी[३] स्वयन्दूती[४] मूढ-दूती[५] भार्या-दूती[६] मूक-दूती[७] वात-दूती[८] चेति दूती-विशेषाः। ॥५।४।४५॥
नायकस्य नायिकायाश् च यथामनीषितम् अर्थम् उपलभ्य स्व-बुद्ध्या कार्य-सम्पादिनी निसृष्टार्था[१]। ॥५।४।४६॥
सा प्रायेण संस्तुत-सम्भाषणयोः। ॥५।४।४७॥
नायिकया प्रयुक्ता अ-संस्तुत-सम्भाषणयोर् अपि। ॥५।४।४८॥
कौतुकाच् चानुरूपौ युक्ताव् इमौ परस्परस्येत्य् अ-संस्तुतयोर् अपि। ॥५।४।४९॥
कार्यैकदेशम् अभियोगैकदेशं चोपलभ्य शेषं सम्पादयतीति परिमितार्था[२]। ॥५।४।५०॥
सा दृष्ट-परस्पराकारयोः प्रविरल-दर्शनयोः। ॥५।४।५१॥
सन्देश-मात्रं प्रापयतीति पत्र-हारी[३]। ॥५।४।५२॥
सा प्रगाढ-सद्भावयोः संसृष्टयोश् च देश-काल-सम्बोधनार्थम्। ॥५।४।५३॥
दौत्येन प्रहितान्यया स्वयम् एव नायकम् अभिगच्छेद् अजानती नाम तेन सहोपभोगं स्वाप्ने वा कथयेत्। गोत्र-स्खलितं भार्यां चास्य निन्देत्। त्द्-व्यपदेशेन स्वयम् ईर्ष्यां दर्शयेत्। नख-दशन-चिह्नितं वा किं चिद् दद्यात्। भवते ऽहम् आदौ दातुं सङ्कल्पितेति चाभिदधीत। मम भार्याया का रमणीयेति विविक्ते पर्यनुयुञ्जीत सा स्वयं-दूती[४]। ॥५।४।५४॥
तस्य विविक्ते दर्शनं प्रतिग्रहश् च। ॥५।४।५५॥
प्रतिग्रह-च्छलेनान्याम् अभिसन्धायास्याः सन्देशाश्रवण-द्वारेण नायकं साधयेत् तां चोपहन्यात् सापि स्वयं-दूती[४]। ॥५।४।५६॥
एतया नायको ऽप्य् अन्य-दूतश् च व्याख्यातः। ॥५।४।५७॥
नायक-भार्यां मुग्धां विश्वास्यायन्त्रणयानुप्रविश्य नायकस्य चेष्टितानि पृच्छेत्। योगाञ् शिक्षयेत्। साकारं मण्डयेत्। कोपम् एनां ग्राहयेत्। एवं च प्रतिपद्यस्वेति श्रावयेत्। स्वयं चास्यां नख-दशनपदानि निर्वर्तयेत्। तेन द्वारेण नायाकम् आकारयेत् सा मूढ-दूती[५]। ॥५।४।५८॥
तस्यास् तयैव प्रत्युत्तराणि योजयेत्। ॥५।४।५९॥
स्व-भार्यां वा मूढं प्रयोज्य तया सह विश्वासेन योजयित्वा तयैवाकारयेत्। आत्मनश् च वैचक्षण्यं प्रकाशयेत्। सा भार्या-दुती[६] तस्यास् तयैवाकार-ग्रहणम्। ॥५।४।६०॥
बालां वा परिचारिकाम् अ-दोष-ज्ञाम् अ-दुष्टेनोपायेन प्रहिणुयात्। तत्र स्रजि कर्णपत्त्रे वा गूढ-लेख-निधानं नख-दशन-पदम् वा सा मूक-दूती[७]। तस्यास् तयैव प्रत्युत्तर-प्रार्थनम्। ॥५।४।६१॥
पूर्व-प्रस्तुतार्थ-लिङ्ग-सम्बद्धम् अन्य-जना-ग्रहणीयं लौकिकार्थं व्यर्थं वा वचनम् उदासीना या श्रावयेत् सा वात-दूती[८]। तस्या अपि तयैव प्रत्युत्तर-प्रार्थनम् ॥५।४।६२॥
इति तासां विशेषाः॥५।४।६३ भवन्ति चात्र श्लोकाः ॥५।४।६२च्॥
विधवेक्षणिका दासी भिक्षुकी शिल्प-कारिका। प्रविशत्य् आसु विश्वासं दूती-कार्यं च विन्दति॥ ॥५।४।६३व्॥
सङ्क्षेपेण दूती-कर्माण्य् आह ॥५।४।६४॥
विद्वेषं ग्राहयेत् पत्यौ रमणीयानि वर्णयेत्। चित्रान् सुरत-सम्भोगान् अन्यासाम् अपि दर्शयेत्॥ ॥५।४।६४व्॥
नायकस्यानुरागं च पुनश् च रति-कौशलम्। प्रार्थनां चाधिक-स्त्रीभिर् अवष्टम्भं च वर्णयेत्॥ ॥५।४।६५व्॥
अ-सङ्कल्पितम् अप्य् अर्थम् उत्सृष्टं दोष-कारणात्। पुनर् आवर्तयत्य् एव दूती वचन-कौशलात्((१४४))॥ ॥५।४।६६व्॥
इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमे ऽधिकरणे दूती-कर्माणि चतुर्थो ऽध्यायः। ॥५।४च्॥