४५ भाव-परीक्षाप्रकरणम्
अभियुञ्जानो योषितः प्रवृत्तिं परीक्षेत। तया भावः परीक्षितो भवति। अभियोगांश् च प्रतिगृह्णीयात्। ॥५।३।१॥
मन्त्रम् अ-व्र्ण्वानां दूत्यैनां साधयेत्। ॥५।३।२॥
अ-प्रतिगृह्याभियोगं पुनर् अपि संसृज्यमानां द्विधा-भूत-मानसां विद्यात्। तां क्रमेण साधयेत्। ॥५।३।३॥
अ-प्रतिगृह्याभियोगं स-विशेषम् अलङ्कृता च पुनर् दृशेत तथैव तम् अभिगच्छेच् च विविक्ते बलाद् ग्रहणीयां विद्यात्। ॥५।३।४॥
बहून् अपि विषहते ऽअभियोगान् न चिरेणापि प्रयच्छत्य् आत्मानं सा शुष्क-प्रतिग्राहिणी परिचय-विघटन-साध्या। ॥५।३।५॥
मनुष्य-जातेश् चित्ता-नित्यत्वात्। ॥५।३।६॥
अभियुक्तापि परिहरति न च संसृज्यते। न च प्रत्याचष्टे। तस्मिन्न् आत्मनि च गौरवाभिमानात्। सातिपरिचयात् कृच्छ्र-साध्या। मर्म-ज्ञया दूत्या तां साधयेत्। ॥५।३।७॥
सा चेद् अभियुज्यमाना पारुष्येण प्रत्यादिशत्य् उपेक्ष्या। ॥५।३।८॥
परुषयित्वापि तु प्रीति-योजिनीं साधयेत्। ॥५।३।९॥
कारणात् संस्पर्शनं सहते नावबुध्यते नाम द्विधा-भूत-मनसा सातत्येन क्षान्त्या वा साध्या। ॥५।३।१०॥
समीपे शयानायाः सुप्तो नाम करम् उपरि विन्यसेत्। सापि सुप्तेवोपेक्षते। जाग्रती त्व् अपनुदेद् भूयो ऽभियोगाकाङ्क्षिणी। ॥५।३।११॥
एतेन पादस्योपरि पादन्यासो व्याख्यातः((१४०))। ॥५।३।१२॥
तस्मिन् प्रसृते भूयः सुप्त-संश्लेषणम् उपक्रमेत्। ॥५।३।१३॥
तद् अ-सहमानाम् उत्थितां द्वितीये ऽहनि प्रकृति-वर्तिनीम् अभियोगार्थिनीं विद्यात्। अ-दृश्यमानां तु दूती-साध्याम्। ॥५।३।१४॥
चिरम् अ-दृष्टापि प्रकृतिस्थैव संसृज्यते कृत-लक्षणां तां दर्शिताकाराम् उपक्रमेत्॥५।३।१६ अ-नभियुक्ताप्य् आकारयति। विविक्ते चात्मानं दर्शयति। स-वेपथु-गद्गदं वदति। स्विन्न-कर-चरनाङ्गुलिः स्विन्न-मुखी च भवति। शिरः-पीडने संवाहने चोर्वोर् आत्मानं नायके नियोजयति। ॥५।३।१५॥
आतुरासंवाहिका चैकेन हस्तेन संवाहयन्ती द्वितीयेन बाहुना स्पर्शम् आवेदयति श्लेषयति च। विस्मित-भावा। ॥५।३।१७॥
निद्रान्धा वा परिस्पृश्योरुभ्यां बाहुभ्याम् अपि तिष्ठति। अलिकैकदेशम् ऊर्वोर् उपरि पातयति। ऊरु-मूल-संवाहने नियुक्ता न प्रतिलोमयति। तत्रैव हस्तम् एकम् अ-विचलं न्यस्यति। अङ्ग-सन्दंशेन च पीडितं चिराद् अपनयति। ॥५।३।१८॥
प्रतिगृह्यैवं नायकाभियोगान् पुनर् द्वितीये ऽहनि संवाहनायोपगच्छति। ॥५।३।१९॥
नात्यर्थं संसृज्यते। न च परिहरति। ॥५।३।२०॥
विविक्ते भावं दर्शयति निष्कारणं चा-गूढम् अन्यत्र प्रछन्न-प्रदेशात्। ॥५।३।२१॥
सन्निकृष्ट-परिचारकोपभोग्या सा चेद् आकारितापि तथैव स्यात् सा मर्मज्ञया दूत्या साध्या। ॥५।३।२२॥
व्यावर्तमाना तु तर्कणीया ॥५।३।२३॥
इति भाव-परीक्षा((१४१))। ॥५।३।२३च्॥
भवन्ति चात्र श्लोकाः ॥५।३।२४॥
आदौ परिचयं कुर्यात् ततश् च परिभाषणम्। परिभाषण-सम्मिश्रं मिथश् चाकारवेदनम्॥ ॥५।३।२४व्॥
प्रत्युत्तरेण पश्येच् चेद् आकारस्य परिग्रहम्। ततो ऽभियुञ्जीत नरः स्त्रियं विगत-साध्वसः॥ ॥५।३।२५व्॥
आकारेणात्मनो भावं या नारी प्राक् प्रयोजयेत्। क्षिप्रम् एवाभियोज्या सा प्रथमे त्व् एव दर्शने॥ ॥५।३।२६व्॥
श्लक्ष्णम् आकारिता या तु दर्शयेत् स्फुटम् उत्तरम्। सापि तत्-क्षण-सिद्धेति विज्ञेया रति-लालसा॥ ॥५।३।२७व्॥
धीरायाम् अ-प्रगल्भायां परीक्षिण्यां च योषिति। एष सूक्ष्मो विधिः प्रोक्ताः सिद्धा एव स्फुटं स्त्रियः॥ ॥५।३।२८व्॥
इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमे ऽधिकरणे भाव-परीक्षा तृइतीयो ऽध्यायः। ॥५।३च्॥