कृत-परिचयां दर्शितेङिताकारां कन्याम् इवोपायतो ऽभियुञ्जीतेति। प्रायेण तत्र सूक्ष्मा अभियोगाः। कन्यानाम् अ-सम्प्रयुक्तत्वात्। इतरासु तान् एव स्फुटम् उपदध्यात्। सम्प्रयुक्तत्वात्। ॥५।२।१९॥
सन्दर्शिताकारायां निर्भिन्न-सद्-भावायां समुपभोग-व्यतिकरे तदीयान्य् उपयुञ्जीत। ॥५।२।२०॥
तत्र महार्ह-गन्धम् उत्तरीयं कुसुमं स्याद् अङ्गुलीयकं च। तद्-धस्ताद् गृहीत-ताम्बूलया गोष्ठी-गमनोद्यतस्य केश-हस्त-पुष्प-याचनम्। ॥५।२।२१॥
तत्र महार्ह-गन्धं स्पृहणीयं स्व-नख-दशन-पद-चिह्नितं साकारं दद्यात्। ॥५।२।२२॥
अधिकैर् अधिकैश् चाभियोगैः साध्वस-विच्छेदनम्। ॥५।२।२३॥
क्रमेण च विविक्त-देशे गमनम् आलिङ्गनं चुम्बनं ताम्बूलस्य ग्राहणं दानान्ते द्रव्याणां परिवर्तनं गुह्य-देशाभिमर्शनं चेत्य् अभियोगाः। ॥५।२।२४॥
यत्र चैकाभियुक्ता न तत्रापराम् अभियुञ्जीत। ॥५।२।२५॥
तत्र या वृद्धानुभूत-विषया प्रियोपग्रहैश् च ताम् उपगृह्णीयात्। ॥५।२।२६॥
श्लोकाव् अत्र भवतः ॥५।२।२७॥
अन्यत्र दृष्ट-सञ्चारस् तद्-भर्ता यत्र नायकः। न तत्र योषितं कां चित् सुप्रापाम् अपि लङ्घयेत्॥ ॥५।२।२७व्॥
शङ्कितां रक्षितां भीतां स-श्वश्रूकां च योषितम्। न तर्कयेत मेधावी जानन् प्रत्ययम् आत्मनः((१३९))॥ ॥५।२।२८व्॥
इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमे ऽधिकरणे परिचय-कारणान्य् अभियोगाः द्वितीयो ऽध्यायः। ॥५।२च्॥