४३ परिचय-कारणाभियोग-प्रकरणम्

४३ परिचय-कारणाभियोग-प्रकरणम्

यथा कन्या स्वयम् अभि-योग-साध्या न तथा दूत्या। पर-स्त्रियस् तु सूक्ष्म-भावा दूती-साध्या न तथात्मनेत्य् आचार्याः। ॥५।२।१॥
सर्वत्र शक्ति-विषये स्वयं साधनम् उपपन्नतरकं दुर्-उपपादत्वात् तस्य दूती-प्रयोग इति वात्स्यायनः। ॥५।२।२॥
प्रथम-साहसा अ-नियन्त्रण-सम्भाषाश् च स्वयं प्रतार्याः। तद्-विपरीताश्((१३७)) च दूत्येति प्रायो-वादः। ॥५।२।३॥
स्वयम् अभियोक्ष्यमाणस् त्व् आदाव् एव परिचयं कुर्यात्। ॥५।२।४॥
तस्याः स्वाभाविकं दर्शनं प्रायत्निकं च। ॥५।२।५॥
स्वाभाविकम् आत्मनो भवन-सन्निकर्षे प्रायत्निकं मित्र-ज्ञाति-महामात्र-वैद्य-भवन- सन्निकर्षे विवाह-यज्ञोत्सव-व्यसनोद्यान-गमनादिषु। ॥५।२।६॥
दर्शने चास्याः सततं साकारं प्रेक्षणं केश-संयमनं नखाच्छुरणम् आभरण-प्रह्लादनम् अधरौष्ठ-विमर्दनं तास् ताश् च लीला वयस्यैः सह प्रेक्षमाणायास् तत्-सम्बद्धाः परापदेशिन्यश् च कथास् त्यागोपभोग-प्रकाशनं सख्युर् उत्सङ्ग-निषण्णस्य साङ-भङ्गं जृम्भणम् एक-भ्रू-क्षेपणं मन्द-वाक्यता तद्-वाक्य-श्रवणं ताम् उद्दिश्य बालेनान्य-जनेन वा सहान्योपदिष्टा व्यर्था कथा तस्यां स्वयं मनोरथावेदनम् अन्यापदेशेन ताम् एवोद्दिश्य बाल-चुम्बनम् आलिङ्गनं च जिह्वया चास्य ताम्बूल-दानं प्रदेशिन्या हनु-देश-घट्टनं तत् तद्-यथा- योगं यथावकाशं च प्रयोक्तव्यम्। ॥५।२।७॥
तस्याश् चाङ्क-गतस्य बालस्य लालनं बाल-क्रीडनकानां चास्य दानं ग्रहणं तेन सन्निकृष्टत्वात् कथा-योजनं तत्-सम्भाषण-क्षमेण जनेन च प्रीतिम् आसाद्य कार्यं तद्-अनुबन्धं च गमनागमनस्य योजनं संश्रये चास्यास् ताम् अ-पश्यतो नाम काम-सूत्र-सङ्कथा। ॥५।२।८॥
प्रसृते तु परिचये तस्या हस्ते न्यासं निक्षेपं च निदध्यात्। तत् प्रति-दिनं प्रति-क्षणं चैकदेशतो गृह्णीयात्। सौगन्धिकं पूग-फलानि च। ॥५।२।९॥
ताम् आत्मनो दारैः सह विस्रम्भ-गोष्ठ्यां विविक्तासने च योजयेत्। ॥५।२।१०॥
नित्य-दर्शनार्थं विश्वासनार्थं च॥५।२।१२ सुवर्णकार-मणिकार-वैकटिक-नीली-कुसुम्भ-रञ्जकादिषु च कामार्थिन्यां सहात्मनो वश्यैश् चैषां तत्-सम्पादने स्वयं प्रयतेत। ॥५।२।११॥
तद्-अनुष्ठान-निरतस्य लोक-विदितो दीर्घ-कालं सन्दर्शन-योगः। ॥५।२।१३॥
तस्मिंश् चान्येषाम् अपि कर्मणाम् अनुसन्धानम्। ॥५।२।१४॥
येन कर्मणा द्रव्येण कौशलेन चार्थिनी स्यात् तस्य प्रयोगम् उत्पत्तिम् आगमम् उपायं विज्ञानं चात्मायत्तं दर्शयेत्। ॥५।२।१५॥
पूर्व-प्रवृत्तेषु लोक-चरितेषु द्रव्य-गुण-परीक्षासु च तया तत्-परिजनेन च सह विवादः। ॥५।२।१६॥
तत्र निर्दिष्टानि पणितानि तेष्व् एनां प्राश्निकत्वेन योजयेत्। ॥५।२।१७॥
तया तु विवदमानो ऽत्य्-अन्ताद्भूतमिति ब्रूयाद्। ॥५।२।१८॥

इति परिचय-कारणानि((१३८))। ॥५।२।१८च्॥