४२

यथात्मनः सिद्धतां पश्येद् एवं योषितो ऽपि। ॥५।१।५१॥
अ-यत्न-साध्या योषितस् त्व् इमाः ण् अभियोग-मात्र-साध्याः। द्वार-देशावस्थायिनी। प्रासादाद् राज-मार्गावलोकिनी। तरुण-प्रातिवेश्य-गृहे गोष्ठी-योजिनी। सतत-प्रेक्षिणी। प्रेक्षिता पार्श्व-विलोकिनी। निष्-कारणं स-पत्न्याधिविन्ना। भर्तृ-द्वेषिणी विद्विष्टा च। परिहार-हीना। निर्-अपत्या। ॥५।१।५२॥
ज्ञाति-कुल-नित्या। विपन्नापत्या। गोष्ठी-योजिनी। प्रीति-योजिनी। कुशीलव-भार्या। मृत-पतिका बाला। दरिद्रा बहूपभोगा। ज्येष्ठ-भार्या बहु-देवरका। बहु-मानिनी न्यून-भर्तृका। कौशलाभिमानिनी भर्तुर् मौर्ख्येणोद्विग्ना। अ-विशेषतया लोभेन। ॥५।१।५३॥
कन्या-काले यत्नेन वारिता कथं चिद् अ-लब्धाभियुक्ता च सा तदानीम्। समान-बुद्धि-शील- मेधा-प्रतिपत्ति-सात्म्या। प्रकृत्या पक्षपातिनी। अनपराधे विमानिता।तुल्य-रुपाभिश् चाधः कृता। प्रोषित-पतिकेति। ईर्ष्यालु-पूति-चोक्ष-क्लीब-दीर्घ-सूत्र-कापुरुष-कुब्ज-वामन- विरूप-मणिकार-ग्राम्य-दुर्-गन्धि-रोगि-वृद्ध-भार्याश् चेति। ॥५।१।५४॥
श्लोकाव् अत्र भवतः। ॥५।१।५५॥
इच्छा स्वभावतो जाता क्रियया परिबृंहिता। बुद्ध्या संशोधितोद्वेगा स्थिरा स्याद् अनपायिनी॥ ॥५।१।५५व्॥
सिद्धताम् आत्मनो ज्ञात्वा लिङ्गान्य् उन्नीय योषिताम्। व्यावृत्ति-कारणोच्छेदी नरो योषित्सु सिध्यति((१३६))॥ ॥५।१।५६व्॥

इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमे ऽधिकरणे स्त्री-पुरुष-शीलावस्थापनं व्यावर्तन-कारणानि स्त्रीषु सिद्धाः पुरुषा अ-यत्न-साध्या योषितः प्रथमो ऽध्यायः। ॥५।१च्॥