४१

पुरुषास् त्व् अमी प्रायेण सिद्धाः ण् कामसूत्र-ज्ञः कथाख्यान-कुशलो बाल्यात् प्रभृति संसृष्टः प्रवृद्ध-यौवनः क्रीडन-कर्मादिनागत-विश्वासः प्रेषणस्य कर्तोचित-सम्भाषणः प्रियस्य कर्तान्यस्य भूत-पूर्वो दूतो मर्म-ज्ञ उत्तमया प्रार्थितः सख्या प्रच्छन्नं संसृष्टः सुभगाभिख्यातः सह-संवृद्धः प्रातिवेश्यः काम-शीलस् तथा-भूतश् च परिचारको धात्रेयिका-परिग्रहो नव-वरकः प्रेक्षोद्यान-त्याग- शीलो वृष इति सिद्ध-प्रतापः साहसिकः शूरो विद्या-रूप-गुणोपभोगैः पत्युर् अतिशयिता महार्ह-वेषोपचारश् चेति((१३५))। ॥५।१।५०॥