तत्र व्यावर्तन-कारणानि((१३२))। ॥५।१।१७॥
पत्याव् अनुरागः। ॥५।१।१८॥
अपत्यापेक्षा। ॥५।१।१९॥
अतिक्रान्तवयस्त्वम्। ॥५।१।२०॥
दुःखाभिभवः। ॥५।१।२१॥
विरहान्-उपलम्भः। ॥५।१।२२॥
अवज्ञयोपमन्त्रयत इति क्रोधः। ॥५।१।२३॥
अ-प्रतर्क्य इति सङ्कल्प-वर्जनम्। ॥५।१।२४॥
गमिष्यतीत्य् अन्-आयतिर् अन्यत्र प्रसक्त-मतिर् इति च। ॥५।१।२५॥
असंवृताकार इत्य् उद्वेगः। ॥५।१।२६॥
मित्रेषु निसृष्त-भाव इति तेष्व् अपेक्षा। ॥५।१।२७॥
शुष्काभियोगीत्य् आशङ्का। ॥५।१।२८॥
तेजस्वीति साध्वसम्। ॥५।१।२९॥
चण्ड-वेगः समर्थो वेति भयं मृग्याः। ॥५।१।३०॥
नागरकः कलासु विचक्षण इति व्रीडा। ॥५।१।३१॥
सखित्वेनोपचरित इति च। ॥५।१।३२॥
अ-देश-काल-ज्ञ इत्य् असूया। ॥५।१।३३॥
परिभव-स्थानम् इत्य् अ-बहु-मानः। ॥५।१।३४॥
आकारितो ऽपि नावबुध्यत इत्य् अवज्ञा। ॥५।१।३५॥
शसो मन्द-वेग इति च हस्तिन्याः। ॥५।१।३६॥
मत्तो ऽस्य मा भूद् अन्-इष्टम् इत्य् अनुकम्पा। ॥५।१।३७॥
आत्मनि दोष-दर्शनान् निर्वेदः। ॥५।१।३८॥
विदिता सती स्व-जन-बहिष्-कृता भविष्यामीति भयम्। ॥५।१।३९॥
पलित इत्य् अन्-आदरः। ॥५।१।४०॥
पत्या प्रयुक्तः परीक्षत इति विमर्शः। ॥५।१।४१॥
धर्मापेक्षा चेति। ॥५।१।४२॥
तेषु यदात्मनि लक्षयेत् तदादित एव परिच्छिन्द्यात्। ॥५।१।४३॥
आर्यत्व-युक्तानि राग-वर्धनात्। ॥५।१।४४॥
अ-शक्ति-जान्य् उपाय-प्रदर्शनात्। ॥५।१।४५॥
बहु-मान-कृतान्य् अति-परिचयात्। ॥५।१।४६॥
परिभव-कृतान्य् अति-शौण्डीर्याद्((१३३)) वैचक्षण्याच् च। ॥५।१।४७॥
तत्-परिभव-जानि प्रणत्या॥ ॥५।१।४८॥
भय-युक्तान्य् आश्वसनाद् इति((१३४))। ॥५।१।४९॥