३९ स्त्री-पुरुष-शीलावस्थापन-प्रकरणम्

३९ स्त्री-पुरुष-शीलावस्थापन-प्रकरणम्

((१२९))

व्याख्यात-कारणाः पर-परिग्रहोपगमाः((१३०))। ॥५।१।१॥
तेषु साध्यत्वम् अनत्ययं गम्यत्वम् आयतिं वृत्तिं चादित एव परीक्षेत। ॥५।१।२॥
यदा तु स्थानात् स्थानान्तरं कामं प्रतिपद्यमानं पश्येत् तदात्म-शरीरोपघात-त्राणार्थं पर-परिग्रहान् अभ्युपगच्छेत्। ॥५।१।३॥
दश तु कामस्य स्थानानि। ॥५।१।४॥
[१]चक्षुः-प्रीतिर् [२]मनः-सङ्गः [३]सङ्कल्पोत्पत्तिर् [४]निद्राच्छेदस् [५]तनुता [६]विषयेभ्यो व्यावृत्तिर् [७]लज्जा-प्रनाश [८]उन्मादो [९]मूर्च्छा [१०]मरणम् इति तेषां लिङ्गानि। ॥५।१।५॥
तत्राकृतितो लक्षणतश् च युवत्याः शीलं सत्यं शौचं साध्यतां चण्डवेगतां च लक्षयेद् इत्य् आचार्याः। ॥५।१।६॥
व्यभिचाराद् आकृति-लक्षण-योगानाम् इङ्गिताकाराभ्याम् एव प्रवृत्तिर् बोद्धव्या योषित इति वात्स्यायनः। ॥५।१।७॥
यं किं चिद् उज्ज्वलं पुरुषं दृष्त्वा स्त्री कामयते। तथा पुरुषो ऽपि योषिताम्। अपेक्षया तु न प्रवर्तते इति गोणिकापुत्रः। ॥५।१।८॥
तत्र स्त्रियं प्रति विशेषः। ॥५।१।९॥
न स्त्री धर्मम् अ-धर्मं चापेक्षते कामयत एव। कार्यापेक्षया तु नाभियुङ्क्ते। ॥५।१।१०॥
स्वभावाच् च पुरुषेणाभियुज्यमाना चिकीर्षन्त्य् अपि व्यावर्तते। ॥५।१।११॥
पुनः पुनर् अभियुक्ता सिद्ध्यति। ॥५।१।१२॥
पुरुषस् तु धर्म-स्थितिम् आर्य-समयं चापेक्ष्य कामयमानो ऽपि व्यावर्तते। ॥५।१।१३॥
तथा-बुद्धिश् चाभियुज्यमानो ऽपि न सिद्ध्यति। ॥५।१।१४॥
निष्-कारणम् अभियुङ्क्ते। अभियुज्यापि पुनर् नाभियुङ्क्ते। सिद्धायां च माध्यस्थ्यं गच्छति। ॥५।१।१५॥
सु-लभाम् अवमन्यते। दुर्-लभाम् आकङ्क्षत इति प्रायोवादः((१३१))। ॥५।१।१६॥