भवन्ति चात्र श्लोकाः। ॥४।२।६७॥
पुरुषस् तु बहून् दरान् समाहृत्य समो भवेत्। न चावज्नां चरेद् आसु व्यालिकान् न सहेत च॥ ॥४।२।६७व्॥
एकस्यां या रति-क्रीडा वैकृतं वा शरीरजम्। विस्रम्भाद् वाप्य् उपालम्भस् तम् अन्यासु न कीर्तयेत्॥ ॥४।२।६८व्॥
न दद्यात् प्रसरं स्त्रीणां स-पत्न्याः कारणे क्व चित्। तथोपालभमानां च दोषैस् ताम् एव योजयेत्॥ ॥४।२।६९व्॥
अन्यां रहसि विस्रम्भैर् अन्यां प्रत्यक्ष-पूजनैः। बहु-मानैस् तथा चन्याम् इत्य् एवं रञ्जयेत् स्त्रियः॥ ॥४।२।७०व्॥
उद्यान-गमनैर् भोगैर् दानैस् तज्-ज्ञाति-पूजनैः। रहस्यैः प्रीति-योगैश् चेत्य् एकैकाम् अनुरञ्जयेत्॥ ॥४।२।७१व्॥
युवतिश् च जित-क्रोधा यथा-शास्त्र-प्रवर्तिनी। करोति वश्यं भर्तारं स-पत्नीश् चाधितिष्ठति((१२८))॥ ॥४।२।७२व्॥
इति श्रीवात्यायनीये कामसूत्रे भार्याधिकारिके चतुर्थे ऽधिकरणे सपत्नीषु ज्येष्ठा-वृत्तं कनिष्ठा-वृत्तं पुनर्भू-वृत्तं दुर् -भागा-वृत्तम् आन्तःपुरिकं पुरुषस्य भ्वीषु प्रतिपत्तिर् द्वितीयो ऽध्यायः॥ ॥४।२च्॥