अन्तः-पुराणां च वृत्तम् एतेष्व् एव प्रकरणेषु लक्षयेत्((१२६))। ॥४।२।५५॥
माल्यानुलेपन-वासांशि चासां कञ्चुकीया महत्तरिका वा राज्ञो निवेदयेयुर् देवीभिः प्रहितम् इति। ॥४।२।५६॥
तद् आदाय राजा निर्माल्यम् आसां प्रतिप्राभृतकं दद्यात्। ॥४।२।५७॥
अलङ्कृतश् च स्व्-अलङ्कृतानि चापराह्ने सर्वाण्य् अन्तःपुराण्य् ऐकध्येन पश्येत्। ॥४।२।५८॥
तासां यथा-कालं यथार्हं च स्थान-मानानुवृत्तिः स-परिहासाश् च कथाः कुर्यात्। ॥४।२।५९॥
तद्-अनन्तरं पुनर्भुवस् तथैव पश्येत्। ॥४।२।६०॥
तत्पो वेश्या आभ्यन्तरिका नाटकीयाश् च। ॥४।२।६१॥
तासां यथोक्त-कक्षाणि स्थानानि। ॥४।२।६२॥
वासकपाल्यस् तु यस्या वासको यस्याश् चातीतो यस्याश् च ऋतुस् तत्-परिचारिकानुगता दिवा शय्योत्थितस्य राज्ञस् ताभ्यां प्रहितम् अङ्गुलीयकाङ्कम् अनुलेपनम् ऋतुं वासकं च निवेदयेयुः। ॥४।२।६३॥
तत्र राजा यद् गृह्णीयात् तस्या वासकम् आज्ञापयेत्। ॥४।२।६४॥
उत्सवेषु च सर्वासाम् अनुरूपेण पूजापानकं च। सङ्गीत-दर्शनेषु च॥४।२।६६ अन्तः-पुर-चारिणीनां बहिर् अ-निष्क्रमो बाह्यानां चा-प्रवेशः। अन्यत्र विदित-शौचाभ्यः। अ-परिक्लिष्टश् च कर्मयोगः। ॥४।२।६५॥
इत्य् आन्तःपुरिकम्((१२७))। ॥४।२।६६च्॥