३७

दुर्भगा तु सापत्नक-पीडिता या तासाम् अधिकम् इव पत्याव् उपचरेत् ताम् आश्रयेत्। प्रकाश्यानि च कला-विज्ञानानि दर्शयेत्। दौर्भाग्याद् रहस्यानाम् अ-भावः। ॥४।२।४५॥
नायकापत्यानां धात्रेयिकानि कुर्यात्। ॥४।२।४६॥
तन्-मित्राणि चोपगृह्य तैर् भक्तिम् आत्मनः प्रकाशयेत्। ॥४।२।४७॥
धर्म-कृत्येषु च पुरश्-चारिणी स्याद् व्रतोपवासयोश् च। ॥४।२।४८॥
परिजने दाक्षिण्यम्। न चाधिकम् आत्मानं पश्येत्। ॥४।२।४९॥
शयने तत्-सात्म्येनात्मनो ऽनुराग-प्रत्यानयनम्। ॥४।२।५०॥
न चोपालभेत वामतां च न दर्शयेत्। ॥४।२।५१॥
यया च कलहितः स्यात् कामं ताम् आवर्तयेत्। ॥४।२।५२॥
यां च प्रच्छन्नां कामयेत् ताम् अनेन सह सङ्गमयेद् गोपयेच् च। ॥४।२।५३॥
यथा च पतिव्रतात्वम् अ-शाठ्यं नायको मन्येत तथा प्रतिविदध्यात्। ॥४।२।५४॥

इति दुर्भगा-वृत्तम्((१२५))। ॥४।२।५४च्॥