विधवा त्व् इन्द्रिय-दौर्बल्याद् आतुरा भोगिनं गुण-सम्पन्नं च या पुनर् विन्देत् सा पुनर्भूः। ॥४।२।३१॥
यतस् तु स्वेच्छया पुनर् अपि निष्क्रमणं निर्-गुणो ऽयम् इति तदान्यं काङ्क्षेद् इति बाभ्रवीयाः। ॥४।२।३२॥
सौख्यार्थिनी सा किलान्यं पुनर् विन्देत। ॥४।२।३३॥
गुणेषु सोपभोगेषु सुख-साकल्यं तस्मात् ततो विशेष इति गोनर्दीयः। ॥४।२।३४॥
आत्मनश् चित्तानुकूल्याद् इति वात्स्यायनः। ॥४।२।३५॥
सा बान्धवैर् नायकाद् आपानकोद्यान-श्रद्धा-दान-मित्र-पूजनादि व्यय-सहिष्णु कर्म लिप्सेत। ॥४।२।३६॥
आत्मनः सारेण वालङ्कारं तदीयम् आत्मीयं वा बिभृयात्। ॥४।२।३७॥
प्रीति-दायेष्व् अ-नियमः। ॥४।२।३८॥
स्वेच्छया च गृहान् निर्गच्छती प्रीति-दायाद् अन्यन् नायक-दत्तं जीयेत। निष्कास्यमाना तु न किं चिद् दद्यात्। ॥४।२।३९॥
सा प्रभविष्णुर् इव तस्य भवनम् आप्नुयात्। ॥४।२।४०॥
कुलजासु तु प्रीत्या वर्तेत। ॥४।२।४१॥
दाक्षिण्येन परिजने सर्वत्र स-परिहासा मित्रेषु प्रतिपत्तिः। कलासु कौशलम् अधिकस्य च ज्ञानम्। ॥४।२।४२॥
कलह-स्थानेषु च नायकं स्वयम् उपलभेत। ॥४।२।४३॥
रहसि च कलया चतुःषष्ट्यानुवर्तेत। स-पत्नीनां च स्वयम् उपकुर्यात्। तासाम् अपत्येष्व् आभारण-दानम्। तेषु स्वामिवद् उपचारः। मण्डनकानि वेषानादरेण कुर्वीत। परिजने मित्रवर्गे चाधिकं विश्राणनम्((१२३))। समाजापानकोद्यान-यात्रा-विहार-शीलता च। ॥४।२।४४॥
इति पुनर्भूवृत्तम्((१२४))। ॥४।२।४४च्॥