३५

कनिष्ठा तु मातृवत् स-पत्नीं पश्येत्। ॥४।२।१६॥
ज्ञाति-दायम् अपि तस्या अ-विदितं नोपयुञ्जीत। ॥४।२।१७॥
आत्म-वृत्तान्तांस् तद्-अधिष्ठितान् कुर्यात्। ॥४।२।१८॥
अनुज्ञाता पतिम् अधिशयीत। ॥४।२।१९॥
न वा तस्या वचनम् अन्यस्याः कथयेत्। ॥४।२।२०॥
तद्-अपत्यानि स्वेभ्यो ऽधिकानि पश्येत्॥४।२।२२ रहसि पतिम् अधिकम् उपचरेत्। ॥४।२।२१॥
आत्मनश् च सपत्नी-विकार-जं दुःखं नाचक्षीत। ॥४।२।२३॥
पत्युष् च स-विशेषकं गूढं मानं लिप्सेत्। ॥४।२।२४॥
अनेन खलु पथ्य-दानेन जीवामीति ब्रूयात्। ॥४।२।२५॥
तत् तु श्लाघया रागेण वा बाहिर् नाचक्षीत। ॥४।२।२६॥
भिन्न-रहस्या हि भर्तुर् अवज्ञां लभते। ॥४।२।२७॥
ज्येष्ठा-भयाच् च निगूढ-सम्मानार्थिनी स्याद् इति गोनर्दीयः। ॥४।२।२८॥
दुर्-भागम् अनपत्यां च ज्येष्ठाम् अनुकम्पेत नायकेन चानुकम्पयेत्। ॥४।२।२९॥
प्रसह्य त्व् एनाम् एकचारिणी-वृत्तम् अनुतिष्ठेत् ॥४।२।३०॥

इति कनिष्ठा-वृत्तम्((१२२))। ॥४।२।३०च्॥