३४ ज्येष्ठादि-वृत्त-प्रकरणम्

३४ ज्येष्ठादि-वृत्त-प्रकरणम्

जाड्य-दौःशील्य-दौर्भाग्येभ्यः प्रजान्-उत्पत्तेर् आभीक्ष्ण्येन दारिकोत्पत्तेर् नायक-चापलाद् वा सपत्न्य्-अधिवेदनम्। ॥४।२।१॥
तद् आदित एव भक्ति-शील-वैदग्ध्य-ख्यापनेन परिजिहीर्षेत्। प्रजा-नुत्पत्तौ च स्वयम् एव सापत्नके चोदयेत्। ॥४।२।२॥
अधिविद्यमाना च यावच् छक्ति-योगाद् आत्मनो ऽधिकत्वेन स्थितिं कारयेत्। ॥४।२।३॥
आगतां चैनां भगिनीवद् ईक्षेत। नयक-विदितं च प्रादोषिकं विधिमतीव यत्नाद् अस्याः कारयेत्। सौभाग्यजं वैकृतम् उत्सेकं वास्या नाद्रियेत। ॥४।२।४॥
भर्तरि प्रमाद्यन्तीम् उपेक्षेत। यत्र मन्येतार्थम् इयं स्वयम् अपि प्रतिपत्स्यत इति तत्रैनाम् आदरत एवानुशिष्यात्। ॥४।२।५॥
नायक-संश्रवे च रहसि विशेषान् अधिकान् दर्शयेत्। ॥४।२।६॥
तद्-अपत्येस्व् अ-विशेषः। परिजन-वर्गे ऽधिकानुकम्पा। मित्र-वर्गे प्रीतिः। आत्म-ज्ञातिषु नात्य्-आदरः। तज्-ज्ञातिषु चाति-सम्भ्रमः। ॥४।२।७॥
बह्वीभिस् त्व् अधिविन्ना अ-व्यवहितया संसृज्येत। ॥४।२।८॥
यां तु नायको ऽधिकां चिकीर्षेत् तां भूत-पूर्व-सुभगया प्रोत्साह्य कलहयेत्। ॥४।२।९॥
ततश् चानुकम्पेत। ॥४।२।१०॥
ताभिर् एकत्वेनाधिकां चिकिर्षीतां स्वयम् अ-विवदमाना दुर्-जनी-कुर्यात्। ॥४।२।११॥
नायकेन तु कलहिताम् एनां पक्षपातावलम्बनोपबृम्हिताम् आश्वासयेत्। ॥४।२।१२॥
कलहं च वर्धयेत्। ॥४।२।१३॥
मन्दं वा कलहम् उपलभ्य स्वयम् एव सन्धुक्षयेत्। ॥४।२।१४॥
यदि नायको ऽस्याम् अद्यापि सानुनय इति मन्येत तदा स्वयमेव सन्धौ प्रयतेत। ॥४।२।१५॥

इति ज्येष्ठा-वृत्तम्((१२१))। ॥४।२।१५च्॥