३३ प्रवास-चर्य्या-प्रकरणम्
प्रवासे मङ्गल-मात्राभरणा देवतोपवास-परा वार्तायां स्थिता गृहान् अवेक्षेत। ॥४।१।४२॥
शय्या च गुरु-जन-मूले। तद्-अभिमता कार्य-निष्पत्तिः। नायकाभिमतानां चार्थानाम् अर्जने प्रतिसंस्कारे च यत्नः। ॥४।१।४३॥
नित्य-नैमित्तिकेषु कर्मसूचितो व्ययः। तद्-आरब्धानां च कर्मणां समापने मतिः। ॥४।१।४४॥
ज्ञाति-कुलस्यानभिगमनम् अन्यत्र व्यसनोत्सवाभ्याम्((११८))। तत्रापि नायक-परिजनाधिष्ठिताया नातिकालम् अवस्थानम् अ-परिवर्तित-प्रवास-वेषता च। ॥४।१।४५॥
गुरु-जनानुज्ञातानां करणम् उपवासानाम्। परिचारकैः शुचिभिर् आज्ञाधिष्ठितैर् अनुमतेन क्रय-विक्रय-कर्मणा सारस्यापूरणं तनू-करणं च शक्त्या व्ययानाम्। ॥४।१।४६॥
आगते च प्रकृतिस्थाया एव प्रथमतो दर्शनं दैवत-पूजनम् उपहाराणां चाहरणम्। ॥४।१।४७॥
इति प्रवास-चर्या((११९))। ॥४।१।४७च्॥
भवतश् चात्र श्लोकौ। ॥४।१।४८॥
सद्-वृत्तम्((१२०)) अनुवर्तेत नायकस्य हितैषिणी। कुल-योषा पुनर्भूर् वा वेश्या वाप्य् एकचारिणी॥ धर्मम् अर्थं तथा कामं लभन्ते स्थानम् एव च। निः-सपत्नं च भर्तारं नार्यः सद्-वृत्तम् आश्रिताः॥ ॥४।१।४८व्॥
इति श्रीवात्स्यायनीये कामसूत्रे भार्याधिकारिके चतुर्थे ऽधिकरणे एकचारिणी-वृत्तं प्रवास-चार्या च प्रथमो ऽध्यायः। ॥४।१च्॥