३२ एक-चारिणी-वृत्त-प्रकरणम्

३२ एक-चारिणी-वृत्त-प्रकरणम्

भार्यैकचरिणी गूढ-विश्रम्भा((१०७)) देववत् पतिम् आनुकुल्येन वर्तेत। ॥४।१।१॥
तन्-मतेन कुटुम्ब-चिन्ताम् आत्मनि सन्निवेशयेत्। ॥४।१।२॥
वेश्म च शुचि सु-सम्मृष्ट-स्थानं विरचित-विविध-कुसुमं श्लक्ष्ण-भूमि-तलं हृद्य-दर्शनं((१०८)) त्रिषवणाचरित-बलि-कर्म पूजित-देवतायतनं कुर्यात्। ॥४।१।३॥
न ह्य् अतो ऽन्यद् गृहस्थानां चित्त-ग्राहकम् अस्तीति गोनर्दीयः। ॥४।१।४॥
गुरुषु भृत्य-वर्गेषु नायक-भगिनीषु((१०९)) तत्-पतिषु च यथार्हं प्रतिपत्तिः((११०))। ॥४।१।५॥
परिपूतेषु च हरित-शाक-वप्रान् इक्षु-स्तम्बाञ् जीरक-सर्षपाजमोद-शतपुष्पा-तमाल-गुल्मांश् च कारयेत्((१११))। ॥४।१।६॥
कुब्जकामलक-मल्लिका-जाती-कुरण्टक-नवमालिका-तगर-नन्द्यावर्तजपा-गुल्मान् अन्यांश् च बहु-पुष्पान् बाल-कोशीरक-पातालिकांश् च वृक्ष-वाटिकायां च स्थण्डिलाणि मनो-ज्ञानि कारयेत्((११२))। ॥४।१।७॥
मध्ये कूपं वापीं दीर्घिकां वा खानयेत्। ॥४।१।८॥
भिक्षुकी-श्रमाणा-क्षपणा-कुलटा-कुहकेक्षणिका-मूल-कारिकाभिर् न संसृज्येत। ॥४।१।९॥
भोजने च रुचितम् इदम् अस्मै द्वेष्यम् इदं पथ्यम् इदम् अ-पथ्यम् इदम् इति च विन्द्यात्। ॥४।१।१०॥
स्वरं बहिर् उपश्रुत्य भवनम् आगच्छतः किं कृत्यम् इति ब्रुवती सज्जा((११३)) भवन-मध्ये तिष्ठेत्। ॥४।१।११॥
परिचारिकम् अपनुद्य स्वयं पादौ प्रक्षालयेत्। ॥४।१।१२॥
नायकस्य च न विमुक्त-भूषणं विजने सन्दर्शने तिष्ठेत्। ॥४।१।१३॥
अति-व्ययम् अ-सद्-व्ययं वा कुर्वाणं रहसि बोधयेत्। ॥४।१।१४॥
आवाहे विवाहे यज्ञे गमनं सखीभिः सह गोष्ठीं देवताभिगमन्म् इत्य् अनुज्ञाता कुर्यात्। ॥४।१।१५॥
सर्व-क्रीडासु च तद्-आनुलोम्येन प्रवृत्तिः। ॥४।१।१६॥
पश्चात् संवेशनं पूर्वम् उत्थानम् अनवबोधनं च सुप्तस्य। ॥४।१।१७॥
महानसं च सु-गुप्तं स्याद् दर्शनीयं च। ॥४।१।१८॥
नायकापचारेषु किं चित् कलुषिता नात्य्-अर्थं निर्वदेत्। ॥४।१।१९॥
साधिक्षेप-वचनं त्व् एनं मित्र-जन-मध्य-स्थम् एकाकिनं वाप्य् उपालभेत। न च मूल-कारिका स्यात्। ॥४।१।२०॥
न ह्य् अतो ऽन्यद् अ-प्रत्यय-कारणम् अस्तीति गोनर्दीयः। ॥४।१।२१॥
दुर्-व्याहृतं दुर्-निरीक्षितम् अन्यतो मन्त्रणं द्वार-देशावस्थानं निरीक्षणं वा निष्कुटेषु((११४)) मन्त्रणं विविक्तेषु चिरम् अवस्थानम् इति वर्जयेत्। ॥४।१।२२॥
स्वेद-दन्त-पङ्क-दुर्-गन्धांश् च बुध्येतेति विराग-कारणम्। ॥४।१।२३॥
बहु-भूषणं विविध-कुसुमानुलेपनं विविधाङ्ग-राग-समुज्ज्वलं वास इत्य् आभिगामिको वेषः। ॥४।१।२४॥
प्रतनु-श्लक्ष्णाल्प-दुकूलता परिमितम् आभरणं सु-गन्धिता नात्य्-उल्वणम्((११५)) अनुलेपनम्। तथा शुक्लान्य् अन्यानि पुष्पाणीति वैहारिको वेषः। ॥४।१।२५॥
नायकस्य व्रतम् उपवासं च स्वयम् अपि करणेनानुवर्तेत। वारितायां च नाहम् अत्र निर्बन्धनीयेति तद्-वचसो निवर्तनम्। ॥४।१।२६॥
मृद्-विदल-काष्ठ-चर्म-लोह-भाण्डानां च काले सम्-अर्घ-ग्रहणम्((११६))। ॥४।१।२७॥
तथा लवण-स्नेहयोश् च गन्ध-द्रव्य-कटुक-भाण्डौषधानां च दुर्-लभानां भवनेषु प्रच्छन्नं निधानम्। ॥४।१।२८॥
मूलकालुक-पालङ्की-दमनकाम्रातकैर्वारुक-त्रपु-सवार्ताक-कूष्माण्डालाबु-सूरण-शुकनासा- स्वयम्गुप्ता-तिल-पर्णिकाग्निमन्थ-लशुन-पलाण्डु-प्रभृतीनां सर्वौषधीनां च बीज-ग्रहणं काले वापश् च। ॥४।१।२९॥
स्वस्य च सारस्य परेभ्यो नाख्यानं भर्तृ-मन्त्रितस्य च। ॥४।१।३०॥
समानाश् च स्त्रियः कौशलेनोज्ज्वलतया पाकेन मानेन तथोपचारैर् अतिशयीत। ॥४।१।३१॥
सांवत्सरिकम् आयं सङ्ख्याय तद्-अनुरूपं व्ययं कुर्यात्। ॥४।१।३२॥
भोजनावशिष्टाद् गो-रसाद् घृत-करणम् तथा तेल-गुडयोः। कर्पासस्य च सूत्र-कर्तनम् सूत्रस्य वानम्। शिक्य-रज्जु-पाश-वल्कल-सङ्ग्रहणम्। कुट्टन-कण्डनावेक्षणम्। आम-चामण्ड-तुषक-खकुट्य्-अङ्गाराणाम् उपयोजनम्। भृत्य-वेतन- भरण-ज्ञानम्। कृषि-पशु-पालन-चिन्ता-वाहन-विधान-योगाः। मेष-कुक्कुट-लावक- शुक-शारिका-परभृत-मयूर-वानर-मृगाणाम् अवेक्षणम्। दैवसिकाय-व्यय-पिण्डी- करणम् इति च विद्यात्। ॥४।१।३३॥
तज्-जघन्यानां च जीर्ण-वाससां सञ्चयस् तैर् विविध-रागैः शुद्धैर् वा कृत-कर्मणां परिचारकाणाम् अनुग्रहो मानार्थेषु च दानम् अन्यत्र वोपयोगः॥४।१।३५ सुरा-कुम्भीनाम् आसव-कुम्भीनां च स्थापनं तद्-उपयोगः क्रय-विक्रयाव् आय-व्यायावेक्षणम्। ॥४।१।३४॥
नायक-मित्राणां च स्रग्-अनुलेपन-ताम्बूल-दानैः पूजनं न्यायतः। ॥४।१।३६॥
श्वश्रू-स्वशुर-परिचर्या तत्-पारतन्त्र्यम् अन्-उत्तर-वादिता परिमिता-प्रचण्डालाप-करणम् अन्-उच्चैर् हासः तत्-प्रिया-प्रियेषु स्व-प्रिया-प्रियेष्व् इव वृत्तिः। ॥४।१।३७॥
भोगेष्व् अन्-उत्सेकः। ॥४।१।३८॥
परिजने दाक्षिण्यम्। ॥४।१।३९॥
नायकस्या-निवेद्य न कस्मै चिद् दानम्। ॥४।१।४०॥
स्व-कर्मसु भृत्य-जन-नियमनम् उत्सवेषु चास्य पूजनम्। ॥४।१।४१॥

इत्य् एकचारिणी-वृत्तम्((११७))। ॥४।१।४१च्॥