३१ विवाह-योग-प्रकरणम्

३१ विवाह-योग-प्रकरणम्

प्राचुर्येण((९५)) कन्याया विविक्त-दर्शनस्यालाभे धात्रेयिकां प्रिय-हिताभ्याम् उपगृह्योपसर्पेत्। ॥३।५।१॥
सा चैनाम् अ-विदिता नाम नायकस्य भूत्वा तद्-गुणैर् अनुरञ्जयेत्। तस्याश् च रुच्यान् नायक-गुणान् भूयिष्ठम् उपवर्णयेत्। ॥३।५।२॥
अन्येषां वरयितॄणां दोषान् अभिप्राय-विरुद्धान् प्रतिपादयेत्॥३।५।४ मातापित्रोश् च गुणानभिज्ञतां लुब्धतां च चपलतां च बान्धवानाम्। ॥३।५।३॥
याश् चान्या अपि समान-जातीयाः कन्याः शकुन्तलाद्याः स्व-बुद्ध्या भर्तारं प्राप्य सम्प्रयुक्ता मोदन्ते स्म((९६)) ताश् चास्या निदर्शयेत्। ॥३।५।५॥
महा-कुलेषु सापत्नकैर् बाध्यमाना विद्विष्टाः दुःखिताः परित्यक्ताश् च दृश्यन्ते। ॥३।५।६॥
आयतिं चास्य वर्णयेत्। ॥३।५।७॥
सुखम् अन्-उपहतम् एक-चारितायां नायकानुरागं च वर्णयेत्। ॥३।५।८॥
स-मनोरथायाश् चास्या अपायं साध्वसं व्रीडां च हेतुभिर् अवच्छिन्द्यात्। ॥३।५।९॥
दूती-कल्पं च सकलम् आचरेत्((९७))। ॥३।५।१०॥
त्वाम् अ-जानतीम् इव नायको बलाद् ग्रहीष्यतीति तथा सु-परिगृहीतं स्याद् इति योजयेत्। ॥३।५।११॥
प्रतिपन्नाम् अभिप्रेतावकाश-वर्तिनीं नायकः श्रोत्रियागाराद् अग्निम् आनय्य कुशान् आस्तीर्य यथा-स्मृति हुत्वा च त्रिः परिक्रमेत्। ॥३।५।१२॥
ततो मातरि पितरि च प्रकाशयेत्। ॥३।५।१३॥
अग्नि-साक्षिका हि विवाहा न निवर्तन्त इत्य् आचार्य-समयः। ॥३।५।१४॥
दूषयित्वा चैनां शनैः स्व-जने प्रकाशयेत्। ॥३।५।१५॥
तद्-बान्धवाश् च यथा कुलस्याघं परिहरन्तो दण्ड-भयाच्((९८)) च तस्मा एवैनां दद्युस् तथा योजयेत्। ॥३।५।१६॥
अनन्तरं च प्रीत्य्-उपग्रहेण रागेण तद्-बान्धवान् प्रीणयेद्((९९)) इति। ॥३।५।१७॥
गान्धर्वेण विवाहेन वा चेष्टेत। ॥३।५।१८॥
अ-प्रतिपद्यमानायाम् अन्तश्-चारिणीम् अन्यां कुल-प्रमदां पूर्व संसृष्टां प्रीयमाणां चोपगृह्य तया सह विषह्यम् अवकाशम् एनाम् अन्य-कार्यापदेशेनानाययेत्। ॥३।५।१९॥
ततः श्रोत्रियागाराद् अग्निम् इति समानं पूर्वेण((१००))। ॥३।५।२०॥
आसन्ने च विवाहे मातरम् अस्यास् तद्-अभिमत-दोषैर् अनुशयं((१०१)) ग्राहयेत्। ॥३।५।२१॥
ततस् तद्-अनुमतेन प्रातिवेश्या-भावने((१०२)) निशि नायकम् आनाय्य श्रोत्रियागाराद् अग्निम् इति सम्~आनं पूर्वेण। ॥३।५।२२॥
भ्रातरम् अस्या वा समान-वयसं वेश्यासु पर-स्त्रीषु वा प्रसक्तम् अ-सुकरेण साहाय्य-दानेन प्रियोपग्रहश् च सु-दीर्घ-कालम् अनुरञ्जयेत्। अन्ते च स्वाभिप्रायं ग्राहयेत्। ॥३।५।२३॥
प्रायेण हि युवानः समान-शील-व्यसन-वयसां वयस्यानाम् अर्थे जीवितम् अपि त्यजन्ति। ततस् तेनैवान्य-कार्यात् ताम् आनाययेत्। विषह्यं सावकाशम्((१०३)) इति समानं पूर्वेण। ॥३।५।२४॥
अष्टमी-चन्द्रिकादिषु च धात्रेयिका मदनीयम् एनां पाययित्वा किं चिद् आत्मनः कार्यम् उद्दिश्य नायकस्य विषह्यं देशम् आनयेत्। तत्रैनां मदात् सञ्ज्ञाम् अ-प्रतिपद्यमानां दूषयित्वेति समानं पूर्वेण। ॥३।५।२५॥
सुप्तां चैकचारिणीं धात्रेयिकां वारयित्वा सञ्ज्ञाम् अ-प्रतिपद्यमानां दूषयित्वेति समानं पूर्वेण((१०४))। ॥३।५।२६॥
ग्रामान्तरम् उद्यानं वा गच्छन्तीं विदित्वा सु-सम्भृत-सहायो नायकस् तदा रक्षिणो वित्रास्य हत्वा वा कन्याम् अपहरेत्((१०५))। ॥३।५।२७॥
इति विवाह-योगाः। ॥३।५।२७च्॥
पूर्वः पूर्वः प्रधानं स्याद् विवाहो धर्मतः स्थितेः। पूर्वाभावे ततः कार्यो यो य उत्तर उत्तरः॥ ॥३।५।२८व्॥
व्यूढानां हि विवाहानाम् अनुरागः फलं यतः। मध्यमो ऽपि हि सद्-योगो गान्धर्वस् तेन पूजितः॥ ॥३।५।२९व्॥
सुखत्वाद् अ-बहु-क्लेशाद् अपि चावरणाद् इह। अनुरागात्मकत्वाच् च गान्धर्वः प्रवरो मतः((१०६))॥ ॥३।५।३०व्॥

इति श्रीवात्स्यायनीये काम-सूत्रे कन्या-सम्प्रयुक्तके तृतीये ऽधिकरणे विवाह-योगाः पञ्चमो ऽध्यायः॥ ॥३।५च्॥