भवन्ति चात्र श्लोकाः। ॥३।४।४८॥
कन्याभियुज्यमाना तु यं मन्येताश्रयं सुखम्। अनुकूलं च वश्यं च तस्य कुर्यात् परिग्रहम्॥ ॥३।४।४८व्॥
अनपेक्ष्य गुणान् यत्र रूपम् औचित्यम् एव च। कुर्वीत धन-लोभेन पतिं सापत्नकेष्व् अपि॥ ॥३।४।४९व्॥
तत्र युक्त-गुणं वश्यं शक्तम् बलवद् अर्थिनम्। उपायैर् अभियुञ्जानं कन्या न प्रतिलोभयेत्॥ ॥३।४।५०व्॥
वरं वश्यो दरिद्रो ऽपि निर्-गुणो ऽप्य् आत्म-धारणः। गुणैर् युक्तो ऽपि न त्व् एवं बहु-साधारणः॥ ॥३।४।५१व्॥
प्रायेण धनिनां दारा बहवो निर्-अवग्रहाः। बाह्ये सत्य् उपभोगे ऽपि निर्विस्रम्भा बहिः-सुखाः॥ ॥३।४।५२व्॥
नीचो यस् त्व् अभियुञ्जीत पुरुषः पलितो ऽपि वा। वि-देश-गति-शीलश् च न स संयोगम् अर्हति॥ ॥३।४।५३व्॥
यदृच्छयाभियुक्तो यो दम्भ-द्यूताधिको ऽपि। स-पत्नीकश् च सापत्यो न स संयोगम् अर्हति॥ ॥३।४।५४व्॥
गुण-साम्ये ऽभियोक्तॄणाम् एको वरयिता वरः। तत्राभियोक्तरि श्रैष्ठ्यम् अनुरागात्मको हि सः((९४))॥ ॥३।४।५५व्॥
इति श्रीवात्स्यायनीये काम-सूत्रे कन्या-सम्प्रयुक्तके तृतीये ऽधिकरणे एक-पुरुषाभियोगा अभियोगतश् च कन्यायाः प्रतिपत्तिश् चतुर्थो ऽध्यायः। ॥३।४च्॥