मन्दापदेशा((८७)) गुणवत्य् अपि कन्या धन-हीना कुलीनापि समानैर् अ-याच्यमाना मातापितृ-वियुक्ता वा ज्ञाति-कुल-वर्तिनी वा प्राप्त-यौवना पाणि-ग्रहणं स्वयम् अभीप्सेत। ॥३।४।३६॥
सा तु गुणवन्तं शक्तं सु-दर्शनं बाल-प्रीत्याभियोजयेत्। ॥३।४।३७॥
यं वा मन्येत मातापित्रोर् अ-समीक्षया स्वयम् अप्य् अयम् इन्द्रिय-दौर्बल्यान् मयि प्रवर्तिष्यत इति प्रिय-हितोपचारैर् अभीक्ष्ण-सन्दर्शनेन च तम् आवर्जयेत्। ॥३।४।३८॥
माता चैनां सखीभिर् धात्रेयिकाभिश् च सह तद्-अभिमुखीं कुर्यात्। ॥३।४।३९॥
पुष्प-गन्ध-ताम्बूल-हस्ताया वि-जने वि-काले च तद्-उपस्थानम्। कला-कौशल-प्रकाशने वा संवाहने शिरसः पीडने चौचित्य-दर्शनम्। प्रयोज्यस्य सात्म्य-युक्ताः कथा-योगाः बालायाम् उपक्रमेषु यथोक्तम् आचरेत्((८८))। ॥३।४।४०॥
न चैवान्तरापि((८९)) पुरुषं स्वयम् अभियुञ्जीत। स्वयम् अभियोगिनी हि युवतिः सौभाग्यं जहातीत्य् आचार्याः। ॥३।४।४१॥
तत्-प्रयुक्तानां त्व् अभियोगानाम् आनुलोम्येन ग्रहणम्। ॥३।४।४२॥
परिष्वक्ता((९०)) च न विकृतिं भजेत्। श्लक्ष्णम्((९१)) आकारम् अ-जानतीव प्रतिगृहीयात्। वदन-ग्रहणे बलात्-कारः। ॥३।४।४३॥
रति-भावनाम् अभ्यर्थ्यमानायाः कृच्छ्राद् गुह्य-संस्पर्शनम्। ॥३।४।४४॥
अभ्यर्थितापि नातिविवृता स्वयं स्यात्। अन्यत्रा-निश्चय-कालात्((९२))। ॥३।४।४५॥
यदा तु मन्येतानुरक्तो मयि न व्यावर्तयिष्यत इति तदैवैनम् अभियुञ्जानं बाल-भाव- मोक्षाय त्वरेत्। ॥३।४।४६॥
विमुक्त-कन्या-भावा च विश्वास्येषु प्रकाशयेत्। ॥३।४।४७॥
इति प्रयोज्यस्योपावर्तनम्((९३))। ॥३।४।४७च्॥