२८ एक-पुरुषाभियोग-प्रकरणम्

२८ एक-पुरुषाभियोग-प्रकरणम्

दर्शितेङ्गिताकारां कन्याम् उपायतो ऽभियुञ्जीत। ॥३।४।१॥
द्यूते क्रीडनकेषु च विवदमानः साकारम् अस्याः पाणिम् अवलम्बेत। ॥३।४।२॥
यथोक्तं च स्पृष्टकादिकम्((८१)) आलिङ्गन-विधिं विदध्यात्। ॥३।४।३॥
पत्त्र-च्छेद्य-क्रियायां च स्वाभिप्राय-सूचकं मिथुनम् अस्या दर्शयेत्। ॥३।४।४॥
एवम् अन्यद् विरलशो((८२)) दर्शयेत्। ॥३।४।५॥
जल-क्रीडायां तद्-दूरतो ऽप्सु निमग्नः समीपम् अस्या गत्वा स्पृष्ट्वा चैनां तत्रैवोन्मज्जयेत्। ॥३।४।६॥
नवपत्त्रिकादिषु च स-विशेष-भाव-निवेदनम्। ॥३।४।७॥
आत्म-दुःखस्यानिर्वेदेन कथनम्। ॥३।४।८॥
स्वप्नस्य च भाव-युक्तस्यान्यापदेशेन। ॥३।४।९॥
प्रेक्षणके स्व-जन-समाजे वा समीपोपवेशनम्। तत्रान्यापदिष्टं स्पर्शनम्। ॥३।४।१०॥
अपाश्रयार्थं च चरणेन चरणस्य पीडनम्। ॥३।४।११॥
ततः शनकैर् एकैकाम् अङ्गुलिम् अभिस्पृशेत्। ॥३।४।१२॥
पादाङुष्ठेन च नखाग्राणि घट्टयेत्। ॥३।४।१३॥
तत्र सिद्धः पदात् पदम् अधिकम् आकाङ्क्षेत्। ॥३।४।१४॥
क्षान्त्य्-अर्थं च तद् एवाभ्यसेत्। ॥३।४।१५॥
पाद-शौचे पादाङ्गुलि-सन्दंशेन तद्-अङ्गुलि-पीडनम्। ॥३।४।१६॥
द्रव्यस्य समर्पणे प्रतिग्रहे वा तद्-गतो विकारः। ॥३।४।१७॥
आचमनान्ते चोदकेनासेकः। ॥३।४।१८॥
विजने तमसि च द्वन्द्वम् आसीनः क्षान्तिं कुर्वीत। समान-देश-शय्यायां च। ॥३।४।१९॥
तत्र यथार्थम् अन्-उद्वेजयतो भाव-निवेदनम्। ॥३।४।२०॥
विविक्ते च किं चिद् अस्ति कथयितव्यम् इत्य् उक्त्वा निर्वचनं भावं च तत्रोपलक्षयेत्। यथा पारदारिके वक्ष्यामः। ॥३।४।२१॥
विदित-भावस् तु व्याधिम् अपदिश्यैनां वार्ता-ग्रहणार्थं स्वम् उदवसितम् आनयेत्। ॥३।४।२२॥
आगतायाश् च शिरः-पीडने नियोगः। पाणिम् अवलम्ब्य चाश्याः साकारं नयनयोर् ललाटे च निदध्यात्। ॥३।४।२३॥
औशाधापदेशार्थं चास्याः कर्म विनिर्दिशेत्। ॥३।४।२४॥
इदं त्वया कर्तव्यम्। न ह्य् एतद्-ऋते कन्याया अन्येन कार्यम् इति गच्छन्तीं पुनर् आगमनानुबन्धम् एनां विसृजेत्। ॥३।४।२५॥
अस्य च योगस्य त्रिरात्रं त्रिसन्ध्यं च प्रयुक्तिः। ॥३।४।२६॥
अभीक्ष्ण-दर्शनार्थम् आगतायाश् च गोष्ठीं वर्धयेत्। ॥३।४।२७॥
अन्याभिर् अपि सह विश्वासनार्थम् अधिकम् अधिकं चाभियुञ्जीत। न तु वचा निर्वदेत्। ॥३।४।२८॥
दूर-गत-भावो ऽपि हि कन्यासु न निर्वेदेन सिध्यातीति घोटकमुखः। ॥३।४।२९॥
यदा तु बहु-सिद्धां मन्येत तदैवोपक्रमेत्॥३।४।३१ प्रदोषे निशि तमसि च योषितो मन्द-साध्वसाः((८३)) सु-रत-व्यवसायिन्यो रागवत्यश् च भवन्ति। न तु पुरुषं प्रत्याचक्षते। तस्मात् तत्-कालं प्रयोजयितव्या इति प्रायोवादः। ॥३।४।३०॥
एक-पुरुषाभियोगानां त्व् अ-सम्भवे गृहीतार्थया धात्रेयिकया सख्या वा तस्याम् अन्तर्-भूतया तम् अर्थम् अ-निर्वदन्त्या सहैनाम् अङ्कम् आनाययेत्। ततो यथोक्तम् अभियुञ्जीत। ॥३।४।३२॥
स्वां वा परिचारिकाम् आदाव् एव सखीत्वेनास्याः प्रणिदध्यात्। ॥३।४।३३॥
यज्ञे विवाहे यात्रायाम् उत्सवे व्यसने प्रेक्षणक-व्यापृते((८४)) जने तत्र तत्र च दृष्टेङ्गिताकारां परीक्षित-भावाम् एकाकिनीम् उपक्रमेत। ॥३।४।३४॥
न हि दृष्ट-भावा योषितो देशे काले च प्रयुज्यमाना((८५)) व्यावर्तन्त इति वात्स्यायनः। ॥३।४।३५॥

# २८ इत्य् एकपुरुषाभियोगः((८६))।