२७

तान् इङ्गिताकारान् वक्ष्यामः((७९))॥३।३।२६ सम्मुखं तं तु न वीक्षते। वीक्षिता व्रीडां दर्शयति। रुच्यम् आत्मनो ऽङ्गम् अपदेशेन प्रकाशयति। प्रमत्तं प्रच्छन्नं नायकम् अतिक्रान्तं च वीक्षते। ॥३।३।२५॥
पृष्टा च किं चित् स-स्मितम् अ-व्यक्ताक्षरम् अनवसितार्तं च मन्दं मन्दम् अधो-मुखी कथयति। तत्-समीपे चिरं स्थानम् अभिनन्दति। दूरे स्थिता पश्यतु माम् इति मन्यमाना परिजनं स-वदन-विकारम् आभाषते। तं देशं न मुञ्चति। ॥३।३।२७॥
यत् किं चिद् दृष्ट्वा विहसितं करोति। तत्र कथाम् अवस्थानार्थम् अनुबध्नाति। बालस्याङ्क-गतस्यालिङ्गनं चुम्बनं च करोति। परिचारिकायास् तिलकं च रचयति। परिजनान् अवष्टभ्य तास् ताश् च लीला दर्शयति। ॥३।३।२८॥
तन्-मित्रेषु विश्वासिति। वचनं चैषां बहु मन्यते करोति च। तत्-परिचारकैः सह प्रीतिं सङ्कथां द्यूतम् इति च करोति। स्व-कर्मसु च प्रभविष्णुर् इवैतान् नियुङ्क्ते। तेषु च नायक-सङ्कथाम् अन्यस्य कथयत्स्व् अवहितातां शृणोति। ॥३।३।२९॥
धात्रेयिका चोदिता नायकयोदवसितं प्रविशति। ताम् अन्तरा कृत्वा तेन सह द्यूतं क्रीडाम् आलापं चायोजयितुम् इच्छति। अनलङ्कृता दर्शन-पथं परिहरति। कर्ण-पत्त्रम् अङ्गुलीयकं स्रजं वा तेन याचिता स-धीरम् एव गात्राद् अवतार्य सख्या हस्ते ददाति। तेन च दत्तं नित्यं धारयति। अन्य-वर-सङ्कथासु विषण्णा भवति। तत्-पक्षकैश् च सह न संसृज्यत इति। ॥३।३।३०॥
भवतश् चात्र श्लोकौ। ॥३।३।३१॥
दृष्ट्वैतान् भाव-संयुक्तान् आकारान् इङ्गितानि च। कन्यायाः सम्प्रयोगार्थं तांस् तान् योगान् विचिन्तयेत्॥ ॥३।३।३१व्॥
बाल-क्रीडनकैर् बाला कलाभिर् यौवने स्थिता। वत्सला चापि सङ्ग्राह्या विश्वास्य-जन-सङ्ग्रहात्((८०))। ॥३।३।३२व्॥

इति श्रीवात्स्यायनीये काम-सूत्रे कन्या-सम्प्रयुक्तके तृतीये ऽधिकरणे बाकोपक्रमा इङिताकार-सूचनं तृतीयो ऽध्यायः। ॥३।३च्॥