२६ बालोपक्रमणम्

धन-हीनस् तु गुण-युक्तो ऽपि मध्यस्थ-गुणो हीनापदेशो वा सधनो वा प्रातिवेश्यः मातृ-पितृ-भ्रातृषु च परतन्त्रः बाल-वृत्तिर् उचित-प्रवेशो वा कन्याम् अलभ्यत्वान् न वरयेत्। ॥३।३।१॥
बाल्यात् प्रभृति चैनां स्वयम् एवानुरञ्जयेत्। ॥३।३।२॥
तथा-युक्तश् च मातुल-कुलानुवर्ती दक्षिणपथे बाल एव मात्रा पित्रा च वियुक्तः परिभूत-कल्पो धनोत्कर्षाद् अ-लभ्यां मातुल-दुहितरम् अन्यस्मै वा पूर्व-दत्तां साधयेत्। ॥३।३।३॥
अन्याम् अपि बाह्यां स्पृहयेत्। ॥३।३।४॥
बालायाम् एवं सति धर्माधिगमे संवननं((७६)) श्लाघ्यम् इति घोटकमुखः। ॥३।३।५॥
तया सह पुष्पावचयं ग्रथनं गृहकं दुहितृका-क्रीडायोजनं भक्त-पान-करणम् इति कुर्वीत। परिचयस्य वयसश् चानुरूप्यात्। ॥३।३।६॥
आकर्ष-क्रीडा पट्टिका-क्रीडा मुष्टि-द्यूत-क्षुल्लकादि-द्यूतानि मध्यमाङ्गुलि-ग्रहणं षट्-पाषाणकादीनि च देश्यानि तत्-सात्म्यात् तद्-अप्त-दास-चेटिभिस् तया च सहानुक्रीडेत। ॥३।३।७॥
क्ष्वेदितकानि सु-निमिलित-काम् आरब्धिकां लवण-वीथिकाम् अनिल-ताडितकां गोधूम-पञ्जिकाम् अङ्गुलि-ताडिकां सखीभिर् अन्यानि च देश्यानि। ॥३।३।८॥
यां च विश्वास्याम् अस्यां मन्येत तया सह निर्-अन्तरां प्रीतिं कुर्यात्। परिचयांश् च बुध्येत। ॥३।३।९॥
धात्रेयिकां चास्याः प्रिय-हिताभ्याम् अधिकम् उपगृह्णीयात्। सा हि प्रीयमाणा विदिताकाराप्य् अ-प्रत्यादिशन्ती तं तां च योजयितुं शक्नुत्यात्। अनभिहितापि प्रत्याचार्यकम्। ॥३।३।१०॥
अ-विदिताकारापि हि गुणान् एवानुरागात् प्रकाशयेत्। यथा प्रयोज्यानुरज्येत। ॥३।३।११॥
यत्र यत्र च कौतुकं प्रयोज्यायास् तद् अनु प्रविश्य साधयेत्। ॥३।३।१२॥
क्रीडनक-द्रव्याणि यान्य् अ-पूर्वाणि यान्य् अन्यासां विरलशो विद्येरंस् तान्य् अस्या अ-यत्नेन सम्पादयेत्। ॥३।३।१३॥
तत्र कन्दुकम् अन्-एक-भक्ति-चित्रम् अल्प-कालान्तरितम् अन्यद् अन्यच् च सन्दर्शयेत्। तथा सूत्र-दारु-गवल-गज-दन्तमयीर् दुहितृका मधूच्छिष्ट-पिष्ट-मृन्मयीश् च। ॥३।३।१४॥
भक्त-पाकार्थम् अस्या महानसिकस्य च दर्शनम्। ॥३।३।१५॥
काष्ठ-मेढ्रकयोश् च संयुक्तयोश् च स्त्री-पुंसयोर् अजैडकानां((७७)) देव-कुल-गृहकाणां च शुक-परभृत-मदन-सारिका-लाव-कुक्कुट-तिरि-पिञ्जरकाणां च विचित्राकृति-संयुक्तानां जल-भाजनानां च यन्त्रिकाणां वीणिकानां पटोलिकानाम् अलक्तक-मनःशिला-हरिताल-हिङ्गुलक-श्यामवर्णकादीनां तथा चन्दन-कुङ्कुमयोः पूग-फलानां पत्त्राणां काल-युक्तानां च सक्ति-विषये प्रच्छन्नं दानं प्रकाश-द्रव्याणां च प्रकाशम्। यथा च सर्वाभिप्राय-संवर्धकम् एनं मन्येत तथा प्रयतितव्यम्। ॥३।३।१६॥
प्रछन्न-दानस्य तु कारणम् आत्मनो गुरु-जनाद् भयं ख्यापयेत्। देयस्य चान्येन स्पृहणीयत्वम् इति। ॥३।३।१८॥
वर्धमानानुरागं चाख्यानके मनः कुर्वतीम् अन्वर्थाभिः कथाभिश् चित्त-हारिणीभिश् च रञ्जयेत्। ॥३।३।१९॥
विस्मयेषु प्रसह्यमानाम् इन्द्र-जालैः प्रयोगैर् विस्मापयेत्। कलासु कौतुकिनीं तत्-कौशलेन गीत-प्रियां श्रुति-हरैर् गीतैः। आश्व-युज्याम् अष्टमी-चन्द्रके कौमुद्याम् उतसवेषु यात्रायां ग्रहणे गृहाचारे वा विचित्रैर् आपीडैः कर्ण-पत्त्र-भङ्गैः सिक्थक-प्रधानैर् वस्त्राङ्गुलीयक-भूषण-दानैश् च। नो चेद् दोष-कराणि मन्येत। ॥३।३।२०॥
अन्य-पुरुष-विशेषाभिज्ञतया धात्रेयिकास्याः पुरुष-प्रवृत्तौ चातुः-षष्टिकान् योगान् ग्राहयेत्। ॥३।३।२१॥
तद्-ग्रहणोपदेशेन च प्रयोज्यायां रति-कौशलम् आत्मनः प्रकाशयेत्। ॥३।३।२२॥
उदार-वेषश् च स्वयम् अन्-उपहत-दर्शनश् च स्यात्। भावं च कुर्वतीम् इङ्गिताकारैः सूचयेत्। ॥३।३।२३॥
यवतयो हि संसृष्टम् अभीक्ष्ण-दर्शनं च पुरुषं प्रथमं कामयन्ते। कामयमाना अपि तु नाभियुञ्जत इति प्रायो-वादः। ॥३।३।२४॥

इति बालायाम् उपक्रमाः((७८))। ॥३।३।२४च्॥