२५ कन्या-विस्रम्भण-प्रकरणम्

२५ कन्या-विस्रम्भण-प्रकरणम्

सङ्गतयोस् त्रि-रात्रम् अधः शय्या ब्रह्मचर्यं क्षार-लवण-वर्जम् आहारस् तथा सप्ताहं सतूर्य-मङ्गल-स्नानं प्रसाधनं सह-भोजनं च प्रेक्षा सम्बन्धिनां च पूजनम्। इति सार्ववर्णिकम्। ॥३।२।१॥

तस्मिन्न् एतां निशि वि-जने मृदुभिर् उपचारैर् उपक्रमेत। ॥३।२।२॥
त्रि-रात्रम् अ-वचनं हि स्तम्भम् इव नायकं पश्यन्ती कन्या निर्विद्येत परिभवेच् च तृतीयाम् इव प्रकृतिम्। इति बाभ्रवीयाः। ॥३।२।३॥
उपक्रमेत विस्रम्भयेच् च न तु ब्रह्मचर्यम् अतिवर्तेत। इति वात्स्यायानः। ॥३।२।४॥
उपक्रममाणश् च न प्रसह्य किं चिद् आचरेत्। ॥३।२।५॥
कुसुम-स-धर्माणो हि योषितः सु-कुमारोपक्रमाः। तास् त्व् अनधिगत-विश्वासैः प्रसभम् उपक्रम्यमाणः सम्प्रयोग-द्वेषिण्यो भवन्ति। तस्मात् साम्नैवोपचरेत्। ॥३।२।६॥
युक्त्यापि तु यतः प्रसरम् उपलभेत् तेनैवानु प्रविशेत्। ॥३।२।७॥
तत्-प्रियेणालिङ्गेनाचरितेन नाति-कालत्वात्। ॥३।२।८॥
पूर्व-कायेण चोपक्रमेत्। विषह्यत्वात्। ॥३।२।९॥
दीपालोके विगाढ-यौवनायाः पूर्व-संस्तुतायाः। बालाया अ-पूर्वायाश् चान्धकारे। ॥३।२।१०॥
अङ्गी-कृत-परिष्वङ्गायाश् च वदनेन ताम्बूल-दानम्। तद्-अ-प्रतिपद्यमानां च सान्त्वनैर् वाक्यैः शपथैः प्रतियाचितैः पाद-पतनैश् च ग्राहयेत्। व्रीडा-युक्तापि योषिद् अत्य्-अन्त-क्रुद्धापि न पाद-पतनम् अतिवर्तते इति सार्वत्रिकम्। ॥३।२।११॥
तद्-दान-प्रसङ्गेण मृदु विशदम् अ-काहलम् अस्याश् चुम्बनम्। ॥३।२।१२॥
तत्र सिद्धाम् आलापयेत्। ॥३।२।१३॥
तच्-छ्रवणार्थं यत् किं चिद् अल्पाक्षरम् अभिधेयम् अ-जानन्न् इव पृच्छेत्। ॥३।२।१४॥
तत्र निष्-प्रतिपत्तिम् अन्-उद्वेजयन् सान्त्वना-युक्तं बहुश एव पृच्छेत्। ॥३।२।१५॥
यत्रापि अ-वदन्तीं निर्बध्नीयात्। ॥३।२।१६॥
सर्वा एव हि कन्याः पुरुषेण प्रयुज्यमानं वचनं विषहन्ते। न तु लघु-मिश्राम् अपि वाचं वदन्ति। इति घोटकमुखः। ॥३।२।१७॥
निर्बध्यमाना तु शिरः-कम्पेन प्रतिवचनानि योजयेत्। कलहे तु न शिरः कम्पयेत्। ॥३।२।१८॥
इच्छसि मां नेच्छसि वा किं ते ऽहम् रुचितो न रुचितो वेति पृष्टा चिरं स्थित्वा निर्बध्यमाना तद्-आनुकुल्येन शिरः कम्पयेत्। प्रपञ्च्यमाना तु विवदेत्। ॥३।२।१९॥
संस्तुता चेत् सखीम् अनुकूलाम् उभयतो ऽपि विस्रब्धां ताम् अन्तरा कृत्वा कथां योजयेत्। तस्मिन्न् अधो-मुखी विहसेत्। तां चाति-वादिनीम् अधिक्षिपेद् विवदेच् च। सा तु परिहासार्थम् इदम् अनयोक्तम् इति चानुक्तम् अपि ब्रूयात्। तत्र ताम् अपनुद्य प्रतिवचनार्थम् अभ्यर्थ्यमाना तूष्णीम् आसीत। निर्बध्यमाना तु नाहम् एवं ब्रवीमीत्य् अ-व्यक्ताक्षरम् अनवसितार्थं वचनं ब्रूयात्। नायकं तु विहसन्ती कदा चित् कटाक्षैः प्रेक्षेत। इत्य् आलाप-योजनम्। ॥३।२।२०॥
एवं जात-परिचया चा-निर्वदन्ती तत्-समीपे याचितं ताम्बूलं विलेपनं स्रजं निदध्यात्। उत्तरीये वास्य निबध्नीयात्। ॥३।२।२१॥
यथा-युक्ताम् आच्छुरितकेन((७३)) स्तन-मुकुलयोर्((७४)) उपरि स्पृशेत्। ॥३।२।२२॥
वार्यमाणश् च त्वम् अपि मां परिष्वजस्व ततो नैवम् आचरिष्यामीति स्थित्या परिष्वञ्जयेत्। स्वं च हस्तम् आ नाभिदेशात् प्रसार्य निर्वर्तयेत्। क्रमेण चैनाम् उत्सङ्गम् आरोप्याधिकम् अधिकम् उपक्रमेत्। अ-प्रतिपद्यमानां च भीषयेत्। ॥३।२।२३॥
अहं खलु तव दन्तपदान्य् अधरे करिष्यामि स्तन-पृष्ठे च नख-पदम्। आत्मनश् च स्वयं कृत्वा त्वया कृतम् इति ते सखी-जनस्य पुरतः कथयिष्यामि। सा त्वं किम् अत्र वक्ष्यसीति बाल-विभीषिकैर् बाल-प्रत्यायनैश् च शनैर् एनां प्रतारयेत्। ॥३।२।२४॥
द्वितीयस्यां तृतीयस्यां च रात्रौ किं चिद् अधिकं विस्रम्भितां हस्तेन योजयेत्। ॥३।२।२५॥
सर्वाङ्गिकं चुम्बनम् उपक्रमेत। ॥३।२।२६॥
ऊर्वोश् चोपरि विन्यस्त-हस्तः संवाहन-क्रियायां सिद्धायां क्रमेणोरु-मूलम् अपि संवाहयेत्। निवारिते संवाहने को दोष इत्य् आकुलयेद् एनाम्। तच् च स्थिरी-कुर्यात्। तत्र सिद्धाया गुह्य-देशाभिमर्शनम्। ॥३।२।२७॥
रशन-वियोजनं नीवी-विस्रंसनं वसन-परिवर्तनम् ऊरु-मूल-संवाहनं च। एते चास्यान्यापदेशाः। युक्त-यन्त्रां रञ्जयेत्। न त्व् अ-काले व्रत-खण्डनम्। ॥३।२।२८॥
अनुशिष्याच् च। आत्मानुरागं दर्शयेत्। मनोरथांश् च पूर्व-कालिकान् अनुवर्णयेत्। आयत्यां च तद्-आनुकूल्येन प्रवृत्तिं प्रतिजानीयात्। स-पत्नीभ्यश् च साध्वसम् अवच्छिन्द्यात्। कालेन च क्रमेण विमुक्त-कन्या-भावाम् अन्-उद्वेजयन्न् उपक्रमेत। इति कन्या-विस्रम्भनम्। ॥३।२।२९॥
भवन्ति चात्र श्लोकाः। ॥३।२।३०॥
एवं चित्तानुरागो बालाम् उपायेन प्रसाधयेत्। तथास्य सानुरक्ता च सु-विस्रब्धा प्रजायते॥ ॥३।२।३०व्॥
नत्य्-अन्तम् आनुलोम्येन न चाति-प्रातिलोम्यतः। सिद्धिं गच्छति कन्यासु तस्मान् मध्येन साधयेत्॥ ॥३।२।३१व्॥
आत्मनः प्रीति-जननं योषितां मान-वर्धनम्। कन्या-विस्रम्भणं वेत्ति यः स तासां प्रियो भवेत्॥ ॥३।२।३२व्॥
अति-लज्जान्वीतेत्य् एवं यस् तु कन्याम् उपेक्षते। सो ऽनभिप्राय-वेदीति पशुवत् परिभूयते॥।३।२।३४व् सहसा वाप्य् उपक्रान्ता कन्या-चित्तम् अ-विन्दता। भयं वित्रासम् उद्वेगं सद्यो द्वेषं च गच्छति॥ ॥३।२।३३व्॥
सा प्रीति-योगम् अ-प्राप्ता तेनोद्वेगेन दूषिता। पुरुष-द्वेषिणी वा स्याद् विद्विष्टा वा ततो ऽन्य-गा((७५))॥ ॥३।२।३५व्॥

इति श्रीवात्स्यायनीये काम-सूत्रे कन्या-सम्प्रयुक्तके तृतीये ऽधिकरणे कन्या-विस्रम्भणं द्वितीयो ऽध्यायः। ॥३।२॥