२३ वरण-संविधान-प्रकरणम्
स-वर्नायाम् अनन्यपूर्वायां शास्त्रतो ऽधिगतायां धर्मो ऽर्थः पुत्राः सम्बन्धः पक्ष-वृद्धिर् अन्-उपस्कृता((६०)) रतिश् च((६१))। ॥३।१।१॥
तस्मात् कन्याम् अभिजनोपेतां माता-पितृमतीं त्रि-वर्षात् प्रभृति न्यून-वयसं श्लाघ्याचारे धनवति पक्षवति कुले सम्बन्धि-प्रिये सम्बन्धिभिर् आकुले प्रसूतां प्रभूत-मातृ-पितृ-पक्षां रूप-शील-लक्षण-सम्पन्नाम् अ-न्यूनाधिका-विनष्ट-दन्त-नख- कर्ण-केषाक्षि-स्तनीम् अ-रोगि-प्रकृति-शरीरां तथा-विध एव श्रुतवाञ् शीलयेत्((६२))। ॥३।१।२॥
या गृहीत्वा कृतिनम् आत्मानं मन्येत न च समानैर् निन्द्येत तस्यां प्रवृत्तिर् इति घोटकमुखः। ॥३।१।३॥
तस्या वरणे माता-पितरौ सम्बन्धिनश् च प्रयतेरन्। मित्राणि च गृहीत-वाक्यान्य् उभय-सम्बद्धानि। ॥३।१।४॥
तान्य् अन्येषां वरयितॄणां दोषान् प्रत्यक्षान् आगमिकांश् च श्रावयेयुः। कौलान् पौरुषेयान् अभिप्राय-संवर्धकांश् च नायक-गुणान्। विशेषतश् च कन्या-मातुर् अनुकूलांस् तदात्वायति-युक्तान् दर्शयेयुः। ॥३।१।५॥
दैव-चिन्तक-रूपश् च शकुन-निमित्त-ग्रह-लग्न-बल-लक्षण-दर्शनेन नायकस्य भविष्यन्तम् अर्थ-संयोगं कल्याणम् अनुवर्णयेत्। ॥३।१।६॥
अपरे पुनर् अस्यान्यतो विशिष्टेन कन्या-लाभेन कन्या-मातरम् उन्मादयेयुः। ॥३।१।७॥
दैव-निमित्त-शकुनोपश्रुतीनाम् आनुलोम्येन कन्यां वरयेद् दद्याच् च। ॥३।१।८॥
न यदृच्छया केवल-मानुषायेति घोटकमुखः। ॥३।१।९॥
सुप्तां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत्। ॥३।१।१०॥
अ-प्रशस्त-नामधेयां च गुप्तां दत्तां घोनां((६३)) पृषताम्((६४)) ऋषभां((६५)) विनतां विकटां((६६)) विमुण्डां((६७)) शुचि-दूषितां((६८)) साङ्करिकीं((६९)) राकां((७०)) फलिनीं मित्रां स्वनुजां वर्षकरीं च वर्जयेत्। ॥३।१।११॥
नक्षत्राख्यां नदी-नाम्नीं वृक्ष-नाम्नीं च गर्हिताम्। ल-कार-रेफोपान्तां च वरणे परिवर्जयेत्॥ ॥३।१।१२व्॥
यस्यां मनश्-चक्षोर् निबन्धस् तस्याम् ऋद्धिः। नेतराम् आद्रियेत। इत्य् एके। ॥३।१।१३॥
तस्मात् प्रदान-समये कन्याम् उदार-वेषां स्थापयेयुः। अपराह्णिकं च। नित्यं प्रासाधितायाः सखीभिः सह क्रीडा। यज्ञ-विवाहादिषु जन-सन्द्रावेषु प्रायत्निकं दर्शनम्। तथोत्सवेषु च। पण्य-स-धर्मत्वात्। ॥३।१।१४॥
वरणार्थम् उपगतांश् च भद्र-दर्शनान् प्रदक्षिण-वाचश् च तत्-सम्बन्धि-सङ्गतान् पुरुषान् मङ्गलैः प्रतिगृह्णीयुः। ॥३।१।१५॥
कन्यां चैषाम् अलङ्कृताम् अन्यापदेशेन दर्शयेयुः। ॥३।१।१६॥
दैवं परीक्षणं चावधिं स्थापयेयुः। आ प्रदान-निश्चयात्। ॥३।१।१७॥
स्नानादिषु नियुज्यमाना वरयितारः सर्वं भविष्यतीत्य् उक्त्वा न तद्-अहर् एवाभ्युपगच्छेयुः। ॥३।१।१८॥
देश-प्रवृत्ति-सात्म्याद् वा ब्राह्म-प्राजापत्यार्ष-दैवानाम् अन्यतमेन विवाहेन शास्त्रतः परिणयेत्। ॥३।१।१९॥
इति वरणविधानम्((७१))। ॥३।१।१९च्॥