१९ औपरिष्टक-प्रकरणम्
द्विविधा तृतीय-प्रकृतिः - स्त्री-रूपिणी पुरुष-रूपिणी च। ॥२।९।१॥
तत्र स्त्री-रूपिणी स्त्रिया वेषम् आलापं लीलां भावं मृदुत्वं भीरुत्वं मुग्धताम् अ-सहिष्णुतां व्रीडां चानुकुर्वीत। ॥२।९।२॥
तस्य वदने जघन-कर्म। तद् औपरिष्टकम् आचक्षते। +++(5)+++ ॥२।९।३॥
सा ततो रतिम् आभिमानिकीं वृत्तिं च लिप्सेत्। ॥२।९।४॥
वेश्यावच् चरितं प्रकाशयेत्। इति स्त्री-रूपिणी। ॥२।९।५॥
पुरुष-रूपिणी तु प्रछन्न-कामा पुरुषं लिप्समाना संवाहक-भावम् उपजीवेत्। ॥२।९।६॥
संवाहने परिष्वजमानेव गात्रैर् ऊरू नायकस्य मृद्नीयात्। ॥२।९।७॥
प्रसृत-परिचया चोरु-मूलं स-जघनम् इति संस्पृशेत्। ॥२।९।८॥
तत्र स्थिर-लिङ्गताम् उपलभ्य चास्य पाणि-मन्थेन परिघट्टयेत्। चापलम्((३४)) अस्य कुत्सयन्तीव हसेत्। ॥२।९।९॥
कृत-लक्षणेनाप्य् उपलब्ध-वैकृतेनापि न चोद्यत इति चेत् स्वयम् उपक्रमेत्। ॥२।९।१०॥
पुरुषेण च चोद्यमाना विवदेत्। कृच्छ्रेण चाभ्युपगच्छेत्। ॥२।९।११॥
तत्र कर्माष्ट-विधं समुच्चय-प्रयोज्यम्। ॥२।९।१२॥
[१]निमितं [२]पार्श्वतो-दष्टं [३]बाहिः-सन्दंशो [४]अन्तः-सन्दंशश् [५]चुम्बितकं [६]परिमृष्टकम् [७]आम्र-चूषितकं [८]सङ्गर इति। ॥२।९।१३॥
तेष्व् एकैकम् अभ्युपगम्य विरामाभीप्सां दर्शयेत्। ॥२।९।१४॥
इतरश् च पूर्वस्मिन्न् अभ्युपगते तद् उत्तरम् एवापरं निर्दिशेत्। तस्मिन्न् अपि सिद्धे तद्-उत्तरम् इति। ॥२।९।१५॥
करावलम्बितम् ओष्ठयोर् उपरि विन्यस्तम् अपविध्य((३५)) मुखं विधुनुयात्((३६))। तन् [१]निमितं। ॥२।९।१६॥
हस्तेनाग्रम् अवच्छाद्य पार्श्वतो निर्दशनम् ओष्ठाभ्याम् अवपीड्य भवत्व् एतावद् इति सान्त्वयेत्। तत् [२]पार्श्वतो-दष्टम्॥२।९।१८ भूयश् चोदिता सम्मीलितौष्ठी तस्याग्रं निष्पीड्य कर्षयन्तीव चुम्बेत्। इति [३] बाहिः-सन्दंशः। ॥२।९।१७॥
तस्मिन्न् एवाभ्यर्थनया किं चिद् अधिकं प्रवेशयेत्। सापि चाग्रम् ओष्ठाभ्यां निष्पीड्य निष्ठीवेत्((३७))। इति [४]अन्तः-सन्दंशः। ॥२।९।१९॥
करावलम्बितस्यौष्ठवद् ग्रहणं [५]चुम्बितकम्। ॥२।९।२०॥
तत् कृत्वा जिह्वाग्रेण सर्वतो घट्टनम् अग्रे च व्यधनम् इति [६]परिमृष्टकम्। ॥२।९।२१॥
तथा-भूतम् एव राग-वशाद् अर्ध-प्रविष्टं निर्दयम् अवपीड्यावपीड्य मुञ्चेत्। इत्य् [७] आम्र-चूषितकम्। ॥२।९।२२॥
पुरुषाभिप्रायाद् एव गिरेत् पीडयेच् चापरिसमाप्तेः। इति [७]सङ्गरः। ॥२।९।२३॥
यथार्थं चात्र स्तनन-प्रहणनयोः प्रयोगः। इत्य् औपरिष्टकम्। ॥२।९।२४॥
कुलटाः((३८)) स्वैरिण्यः परिचारिकाः संवाहिकाश् चाप्य् एतत् प्रयोजयन्ति। ॥२।९।२५॥
तद् एतत् तु न कार्यम्। समय-विरोधाद्((३९)) अ-सभ्यत्वाच् च। पुनर् अपि ह्य् आसां वदन-संसर्गे स्वयम् एवार्तिं प्रपद्येत। इत्य् आचार्याः। ॥२।९।२६॥
वेश्या-कामिनो ऽयम् अ-दोषः((४०))। अन्यतो ऽपि परिहार्यः स्यात्। इति वात्स्यायनः। ॥२।९।२७॥
तस्माद् यास् त्व् औपरिष्टकम् आचरन्ति न ताभिः सह संसृज्यन्ते प्राच्याः। ॥२।९।२८॥
वेश्याभिर् एव न संसृज्यन्ते आहिच्छत्रिकाः संसृष्टा अपि मुख-कर्म तासां परिहरन्ति। ॥२।९।२९॥
निर्-अपेक्षाः साकेताः((४१)) संसृज्यन्ते। ॥२।९।३०॥
न तु स्वयम् औपरिष्टकम् आचरन्ति नागरकाः। ॥२।९।३१॥
सर्वम् अ-विशङ्कया प्रयोजयन्ति सौरसेनाः। ॥२।९।३२॥
एवं ह्य् आहुः - को हि योषिताम् आचारं चरित्रं प्रत्ययं वचनं वा श्रद्-धातुम् अर्हति। निसर्गाद् एव हि मलिन-दृष्टयो भवन्त्य् एता, न परित्याज्याः। तस्माद् आसां स्मृतित एव शौचम् अन्वेष्टव्यम्। एवं ह्य् आहुः ॥२।९।३३॥
वत्सः प्रस्रवणे मेध्यः
श्वा मृग-ग्रहणे शुचिः।
शकुनिः फल-पाते तु
स्त्री-मुखं रति-सङ्गमे॥ इति। ॥२।९।३३व्॥
शिष्ट-विप्रतिपत्तेः स्मृति-वाक्यस्य च सावकाशत्वाद् देश-स्थितेर् आत्मनश् च वृत्ति-प्रत्ययानुरूपं प्रवर्तेत। इति वात्स्यायनः। ॥२।९।३४॥
भवन्ति चात्र श्लोकाः -
प्रमृष्टकुण्डलाश्((४२)) चापि
युवानः परिचारकाः।
केषां चिद् एव कुर्वन्ति
नराणाम् औपरिष्टकम्॥ ॥२।९।३५॥
तथा नागरकाः के चिद्
अन्योन्यस्य हितैषिणः।
कुर्वन्ति रूढ-विश्वासाः
परस्पर-परिग्रहम्॥ ॥२।९।३६॥
पुरुषाश् च तथा स्त्रीषु
कर्मैतत् किल कुर्वते।
व्यासस् तस्य च विज्ञेयो
मुख-चुम्बनवद् विधिः॥ ॥२।९।३७॥
परिवर्तित-देहौ तु
स्त्री-पुंसौ यत् परस्-परम्।
युगपत् सम्प्रयुज्येते
स कामः काकिलः((४३)) स्मृतः॥ ॥२।९।३८॥
तस्माद् गुणवतस् त्यक्त्वा
चतुरांस् त्यागिनो नरान्।
वेश्याः खलेषु रज्यन्ते
दास-हस्तिपकादिषु॥ ॥२।९।३९॥
न त्व् एतद् ब्राह्मणो विद्वान्
मन्त्री वा राज-धूर्-धरः।
गृहीत-प्रत्ययो वापि
कारयेद् औपरिष्टकम्॥ ॥२।९।४०॥
न शास्त्रम् अस्तीत्य् एतावत्
प्रयोगे कारणं भवेत्।
शास्त्रार्थान् व्यापिनो विद्यात्
प्रयोगांस् त्व् एक-देशिकान्॥ +++(5)+++ ॥२।९।४१॥
रस-वीर्य-विपाका हि
श्व-मांसस्यापि वैद्यके।
कीर्तिता इति तत् किं स्याद्
भक्षणीयं विचक्षणैः॥ ॥२।९।४२॥
सन्त्य् एव पुरुषाः केचित्
सन्ति देशास् तथा-विधाः।
सन्ति कालाश् च येष्व् एते
योगा न स्युर् निर्-अर्थकाः॥ +++(5)+++ ॥२।९।४३॥
तस्माद् देशं च कालं च
प्रयोगं शास्त्रम् एव च।
आत्मानं चापि सम्प्रेक्ष्य
योगान् युञ्जीत वा न वा॥ +++(5)+++ ॥२।९।४४॥
अर्थस्यास्य रहस्यत्वाच्
चलत्वान् मनसस् तथा।
कः कदा किं कुतः कुर्याद्
इति को ज्ञातुम् अर्हति॥ ॥२।९।४५॥
इति श्रीवात्यायनीये कामसूत्रे साम्प्रयोगिके द्वितीये ऽधिकरणे औपरिष्टकं नवमो ऽध्यायः। आदितश् चतुर्दशः। ॥२।९च्॥